Tuesday, December 21, 2010

Tiger, Bear and Hunter

दूरदर्शनकार्यक्रमत: एकस्या: कथाया: संस्कृतानुवाद:

एक: व्याध: मृगयाय अरण्यं गतवान् । तदा एक: व्याघ्र: तं मारयितुं धावन् आगत: । भीत: व्याध: अपि झटिति स्वयं रक्षणार्थं समीपस्थं महाद्रुमम् आरूढ्वान् । यदा स: वृक्षस्य उपरि प्राप्तवान्, तदा तत्रत्य शाखायां तूष्णीम् उपविष्ठवन्तम् एकं भल्लूकं दृष्ठवान् । अध:तु व्याघ्र: तस्य प्रतीक्षां कुर्वन् आसीत्, उपरि भल्लूक: च | स्वस्य त्रिशङ्कु-स्तिथिं विचिन्त्य स: मृगयु: इतोपि भीत: अभवत् । बुभुक्षित: व्याघ्र: भल्लूकम् उक्तवान् यत्, व्याध: आवयो: जन्मवैरी भवति, अत: तं वृक्षत: पातय, अथवा स: त्वमपि मारयति इति परन्तु, स: भल्लूक: दयालू,धार्मिक: च आसीत् इति दृश्यते - स: उक्तवान्,अतिथि: पूजनीय:, अत अस्माभि: स: कदापि न वञ्चनीय: इति । अनन्तरं यदा भल्लूक: निद्रां गतवान्, तदा् व्याग्र: व्याधम् उक्तवान् "अहो व्याध, यदि भवान् स्वपन्तं भल्लूकम् अध: पातयति, तर्हि अहं भवन्तं न मारयामि, यत: भवान् स्वतन्त्रतया गृहं गन्तुं शक्नोति, अत: भवता एतत् सुवर्णं सन्दर्भं न त्त्यक्तव्यम्" इति । एतत् श्रुत्वा चापल्याविष्ठ: स्वार्थी मृगयु: मानवगुणानुसारं यदा स्वपन्तं भल्लूकम् अध: क्षिप्तुम्/ क्षिपितुम् उद्युक्तवान्, तदा भल्लूक: जागरूक: भूत्वा आत्मरक्षणम् अकरोत् । एतत् दृष्ट्वा आशाभङ्गित: व्याघ्र: मनुष्य: विश्वसनीय: न भवति इति मया पूर्वमेव उक्तम्, अत: कथं वा भवान् तं विश्वासघातकं इतोपि न पातयति इति पुन: पृष्टवान् । इदानीम् कृपालू भल्लूक: मनुष्या: इव अस्माभि: मृगै: न कदापि अधर्मकार्यं करणीयम् इति वदन्, पुन: सधैर्यं निद्रां गतवान्

पुन: किम् अभवत् इति कथक: न उक्तवान्, अत: अस्माभि: एव अस्माकं कल्पनानुसारं शेषं चिन्तनीयम् । मनुष्य: मृगाणम् अपेक्षया कृतघ्न: विश्वासघातक: च इति वयं वदाम: चेत्, तत्र अतिशयोक्ति: न भवेत् / भवति ॥

॥जयतु संस्कृतम्, लसतु संस्कृतम् ॥
अय्यर् सुब्रह्मणिय: – फ्रीमाण्ड्, अमेरिका – १०/८/२००८

No comments:

Post a Comment