Monday, December 7, 2009

वराक: चतुर: बालक:

वराका सा विधवा स्वपुत्रेण सह ग्रामस्य प्रान्ते एकस्मिन् कुटीरे निवसति
स्म । सा गृहेषु परिचारिकावृत्तिं कृत्वा जीवनयापनं करोति स्म । निश्शुल्के प्राथमिके
विद्यालये पठन् स: बालक: अमुके दिने पाठशालात: प्रत्यागत्य मातरं उक्तवान् यत्
तस्य कक्षात: सर्वे छात्रा: साप्ताहान्त विहाराय गच्छन्ति, अहमपि तै: सह गन्तुम्
इच्छामि, अत: कृपया रू-१०० शुल्काय यच्छतु इति । यदा माता दु:खेन अवदत्
अस्माकं नीचार्थिकवस्थाया: कारणत: तं विहाराय प्रेषणं कष्ठं भवतीति, तदा
बालक: उच्चै: रोदनम् आरब्दवान् । तत् दृष्ट्वा मात्रा उक्तं यत् भगवान् तस्य
धनविषयकं प्रार्थनां निश्चयेन पूरीकर्तुं शक्नोति इति । समनन्तरमेव स: बालक: एकं समपत्रं स्वीकृत्य तत्र, “भो: भगवन्, कृपया मम विहारगमनाय रू-१०० प्रेषयित्वा
साहाय्यं कुरुताम्” इति । सङ्केत विभागे “श्री भगवान्, श्री वैकुण्ठं” इति लिखित्वा समीपस्थे पत्रालयस्थे पेटिकायां स्थापितवान् च । अपरेद्यु: तत्रत्य पत्रवाह: समपत्रं
पठित्वा किंकर्तव्यमूढ: भूत्वा तत् पत्रम् अधिकारिणं प्रदर्शितवान् । सज्जन: पत्रालया-धिकारि सम्यक् विचिन्त्य तस्य अकृत्रिमस्य वराकस्य बालकस्य समस्याया: निवारणाय
स्वकीयात् धनकोशात् अवशिष्ठानि ५० रूप्यकाणि एकस्मिन् पिहितपत्रे स्थापयित्वा तं
बालकाय प्रेषयितुं पत्रवाहकं आज्ञापितवान् ।
पत्रं प्राप्य सन्तुष्ठ: बालक: पिहितपत्रस्य उद्घाटनानन्तरम् तत्र केवलं रू-५० एव दृष्ट्वा दु:खित: अभवत् । तस्य प्रज्ञा अवदत्, भगवान् कृपण:नास्ति, स: निश्चयेन मया
अपेक्षितं सम्पूर्णं धनम् अप्रेषयिष्यत्, किन्तु मार्गे विद्यमाना: पत्रालयजना: अर्धभागं प्राय: अचोरयिष्यन् इति । अत: बालक: पुन: भगवन्तं अपरं समपत्रं एतां घटनांप्रति सविस्तरं
लिखित्वा (तद्वेव असम्पूर्ण सङ्केतेन सह) पत्रालयपेटिकायां स्थापितवान् ।
इदानीम् इदं समपत्रं पत्रालयजनानां मनसि कं: विचारम् अजन्यिष्यत् इति अस्माभि: एव कल्पना करणीया ।

(दूरदर्शनात् श्रुताया: एकस्या: मलयाळ्भाषाया: कथाया: संस्कृत भाषान्तरम्)
अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – ४०००७१ – ५/१२/२००९