Tuesday, December 21, 2010

बुधिमान् विरुद्ध बलवान्

बुधिमान् विरुद्ध बलवान्

एक: बुद्धिमान्, अपर: बलवान् । एकदा बलवान् बुद्धिमत: समीपं आगत्य अकथयत् यत् शक्तिम् उपयुज्य भीमकार्यमपि सुलभेन कर्तुं शक्नुम: इति । एतत् श्रुत्वा द्वितीय: उक्तवान् भवते सह सहयोगं कुर्वत: पूर्वं अहं भवत: शक्ते: प्रमाणं द्रष्टुं इच्छामि इति । तदा बलवता उक्तं यत् स: एकां बृहद् शिलां एकेन हस्तेन उत्थाय नगरस्य भित्या: अपरभागे अनायासेन क्षिप्त्वा स्वबलस्य प्रदर्शनं करिष्यामि इति । इदानीं बुद्धिमता उक्तं यत् भवान् पप्रथमं अयं करवस्त्रं भिंत्या: अपरमार्गं क्षिप्त्वा भवत: बलं प्रदर्शयतु इति । बलवान् औदासिन्येन करवस्त्रं स्वीकृत्य क्षिप्तवान्, परं वायुवेगकारणत: तत् तंप्रति एव प्रत्यागतम् । बलवत: मुहुर्मुहु: प्रयत्नं तदेव फलं आनयत् ।

इदानीम्, अस्माकं बुद्धिमान्, एकं शिलाखण्डं करवस्त्रेण बद्ध्वा करवस्त्रं क्षिपितवान् । शिलाखण्डस्य भारेण, करवस्त्रं प्रकृत्या एव् भिन्त्या: अपरमार्गे अपतत् । एतत् दृष्ट्वा बलवान् पराजयम् अङ्गीकृतवान् ।

कथाया: सारांशं भवति – केवलं शक्ति: एव पर्याप्तं न भवति, बुद्धिरपि भवति चेदेव वरम् ।

अय्यर् सुब्रह्मणियम्, चेम्बूर्, मुम्बै – १/२/२००९

No comments:

Post a Comment