Tuesday, December 21, 2010

केचन स्वयंरचित न्याया:

केचन स्वयंरचित न्याया:
बिन्दुनिपातेन घट: पूर्यते, एकैकै: जनै: सभागृहं पूर्यते, तथैव धनमपि कणश: वर्धते । अन्ते, यथा भघ्नात् घटात् समग्रं जलम् एकपदे एव निर्वहति, यथा कार्यक्रमानन्तरं सभागृहात्, सहसैव सर्वे जना: एकपदि निर्गच्छन्ति, तथैव कणश: सम्पादितं धनमपि एकस्मिन् क्षणे एव अन्तर्धानं भवति । अयं प्रकृते: न्याय: वर्तते । प्रत्युत: आधुनिक संस्कृत छात्रा: अस्य न्यायस्य अपवादा: भवन्ति, यत: वर्गस्य प्रथमे दिने बहुसंख्यया सहैव आयान्ति, परं समग्रात् अध्ययनात् प्राक् एव, मेष: इव क्रमेण एकैकश: वर्गं त्यजति ॥

कन्दुक – भित्ति न्याय:
सर्वस्या: क्रियाया: परिणाम:/फलं/प्रतिक्रिया भवति । यथा, भित्तिं प्रति क्षिपित: कन्दुक: क्षिप्त्रंप्रति एव
प्रत्यागच्छति/प्रतिस्पन्दते, तथैव अस्माभि: क्रियमाणा: क्रियाया:(साधु वा असाधु, इच्छन् वा अनिच्छन्) फलम् अस्मान् प्रति एव प्रत्यागच्छति । अत: अस्माभि: समीचीनं/धार्मिकं कार्यमेव करणीयम् ।

धनुर्बाण न्याय:
यथा धनुष: निर्गच्छन्तं बाणं वयं निश्चयेन प्रत्याहर्तुं न शक्नुम:, तथैव अस्मत् मुखात् (अधर ओष्टयो:
आकार: पुरातन कालीय चाप: इव दृश्यते खलु ) जिह्वा नामक बाण/शर-द्वारा निर्गच्छताम् शब्दानां प्रत्याहरणं कर्तुं न शक्नुम: ।
दर्पण-प्रतिबिम्ब न्याय:
दर्शनानुसारं जगति दृश्यमानानि सर्वाणि वस्तूनि वास्तविकानि न सन्ति । दर्पणप्रतिबिम्ब न्याय:
अभिप्रायमयं प्रमाणीकरोति । वयं दर्पणस्य पुरत: तिष्ठाम: चेत् अस्माभि: प्राप्यमानं प्रतिबिम्बं सत्यस्य विरुद्ध: भवति – वामभागं दक्षिणभागत्वेन, दक्षिणबागं वामबागत्वेन च दृश्यते ।

अभिज्ञान न्याय:
आढ्यत्वं(धनिकत्वं) दरिद्रत्वेन, दैर्घ्यम् ह्रस्वत्वेन, विद्वत्वम् निरक्षरतया, तथ्यम् (सत्यम्) असत्यत्वेन, सभ्यता असभ्यतया, सुन्दरता कुरूपतया, क्रूरता दयालुत्वेन, शुभ्र/श्वेत वर्ण: इतराणां वर्णानां साहाय्येन,
च एव वयं अभिज्ञातुं शक्नुम: । इयम् आवली अनन्ता/अनवरता/अतिदीर्घा भवति ।


अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – ३०/११/०८

2 comments:

  1. In this connection here are two proverbs:

    1. na pRarOhati vaak-kshatam = A wound caused by words (the tongue) never fully heals.

    2. Jihvaayattam vr^ddhi-vinASam = Both growth and decline are under the control of the tongue.

    DKM Kartha

    ReplyDelete
  2. बहुशोभनम् लेखनम्। संपर्कं कर्तुमिच्छामि। कृपया leena.mehendale@gmail.com इति प्राप्तिस्थले संदेशं प्रेषयितु भवान्।

    ReplyDelete