Tuesday, December 21, 2010

Punarjanmam

२००५ तमस्य वर्षस्य डिसम्बेर् मासे प्रवृत्ता घटना एषा | तत्समये चेम्बूरस्थे शृङ्गेरिमठे संस्कृतभारत्या: सुप्रिया षेणाय् भगिनी एकं दशदिनात्मकं शिबिरं चालयति स्म । सायं ७ वादनत: ८-३० वादन पर्यन्तं चलति शिबिरेस्मिन् अह-
मपि भागं स्वीकृतवान् । शिबिरस्थलं मम गृहत: पद्भ्यां केवलं दश निमिषाणां
दूरे एव आसीत्, इत्यत: अहं प्रतिदिनं पद्भ्याम् एव गच्छामि स्म ।
शिबिरस्थलस्य मार्गे आचार्य (डायमण्ड्)) उद्यानं वर्तते । तस्य वामभाग्४ए
मुख्यमार्गस्य समीचीनकार्यं प्रचलति स्म । खननस्य परिणामत: मार्गस्य मध्ये तत्र तत्र गभीरा: गर्ता: आसन् । अत: अत्र वाहनानां नियन्त्रणं भवति स्म । गर्तस्य दक्षिण-भागेन लोकयानानि इत्यादीनि बृहद् वाहनानि, वाममार्गेण त्रिचक्रिका: इत्यादीनि लघुयानानि च धावन्ति स्म । एतस्मात् कारणात् जनानां पथिक मार्गस्य उपयोगं अनिवार्यम् आसीत् । अहमपि प्रतिदिनं एतेन पथिकमार्गेण एव गच्छामि स्म । एतस्य पदिकमार्गस्य मध्ये, तमाखू नाली, नागवल्लीदलं, पिष्टकं, चाक्लेहम् इत्यादीनि वस्तूनि विक्रयमाण: एक: लघु आपण: आसीत् (इदानीमपि तत्र वर्तते) । अत: अस्य आपणस्य समीपे आगत्य जनानां मुख्यमार्गे अवतरणम् आवश्यकम् आसीत्।
यथा अहम् एकस्मिन् दिने अत्र आगत्य मार्गे अवरूढवान्, तथा अकस्मात् / सहसा एका त्रिचक्रिका आगत्य मम शरीरस्य दक्षिण भागेन सह संघट्टनं कृत्वा मां पथिकमार्गस्थम् आपणं प्रति क्षिप्तवती । आपणस्य कटिपरिमितस्य औन्नत्तस्य द्वारं त्रुटित्वा अहम् आपणस्य अन्त: पतितवान् च । भाग्यवशात्, केवलं, मम पादरक्षाया: छेदम् अभवत् – न तु शरीरस्य कापि हानि: ।
तथैव उत्थाय, दूलीं निष्कास्य तत: अहं पादरक्षां विना शिबिरस्थानं प्राप्य कार्यक्रमे भागम् ऊढवान् च । अविस्मरणीयम् अयम् अनुभवं मम पुनर्जन्मम् एव इतिअहं मन्ये ।
॥ जयतु संस्कृतम्, लसतु संस्कृतम् ॥
अय्यर् सुब्रह्मणिय:, कलिफोर्णिया – डिसेम्बेर् २००५

No comments:

Post a Comment