Tuesday, December 21, 2010

सम्भाषणशिबिरवृत्तम्

सम्भाषणशिबिरवृत्तम् –(१०/५/०९ त: २०/५/०९ पर्यन्तम्)

मुम्बै नगरर्स्थे, चेम्बूर् उपनगरे, मे मासस्य दशमदिनाङ्कत: २० तम-
दिनाङ्कपर्यन्तं संस्कृतसम्भाषणशिबिरं प्राचलत् । अय्यर् सुब्रह्मणिय:
शिबिरमिदं सञ्चालितवान् । शिबिरस्य समापनकार्यक्रमे श्री वैद्यलिङ्गम्
महोदय: मार्गदर्शनम् अकरोत् । संस्कृताध्ययनस्य प्रशस्तिं कुर्वन्, स:
संस्कृतभाषाया: पुरोगमनाय सम्भाषणस्य आवश्यकता अस्तीति उक्तवान् ।

तत्र संस्कृतभारत्या: मुम्बै महानगरस्य संयोजक:, श्री मितेश् कतीरा महोदय:
मुख्याति्थि: आसीत् । तेन - शिबिरस्य अनन्तरं, साप्ताहिकमेलनस्य अत्याव-
श्यकता, पत्रालयद्वारा संस्कृतस्वाध्यायाय सौकर्यं, सम्भाषणसन्देश सदृशानां
पुस्तकानां पठनस्य् प्रयोजनं, संस्कृतभाषाया: प्रचारम् अस्माकं कर्तव्यम् -,
इत्यादी: विषया: उपस्थापिता: । संस्कृतभारत्या: नूतन पाठ्यपद्धत्यानुसारं
अचिरादेव, भगवद्गीताद्वारा संस्कृतपाठनम् आरभ्यते इत्यपि तेन सूचितम् ।
सम्भाषणमेव सर्वासां भाषाणां जीवनाडी वर्तते इति सोऽपि उक्तवान् । संस्कृतस्य
भविष्यत् संस्कृतप्रेमिन: अस्मत् हस्ते एव विद्यते इत्यस्य सत्यस्य प्रतिपादनाय स: ज्योतिषविषयकाम् एकां लघु कथां कथित्वा तस्य भाषणस्य समापनं अकरोत् ।

शृङ्गेरिमठसंस्थया आयोजिते अस्मिन् शिबिरे, ५ महिला:, ८ पुरुषा: इति
आहत्य १३ सहभागिन: आसन् । छात्रेषु अन्यतमा, कुमारि सुधा सुन्दरं
कार्यक्रम- सूत्रचालनं कृतवती ।

अय्यर् सुब्रह्मणिय: - २१/ ५/ २००९

No comments:

Post a Comment