Tuesday, December 21, 2010

Student Thief

मोषक: छात्र: (दूरदर्शानत: श्रुताया: कथाया:
संस्कृत भाषान्तरम्)

तानि दिनानि आसन् यदा भारतदेशे अध्ययनं गुरुकुले एव प्रचलति स्म ।
अस्मिन् गुरुकुले प्राय: १५ अन्तेवासिन: पठन्ति स्म । केषाञ्चन दिनानामनन्तरं
प्रतिदिनम् एकैकस्य छात्रस्य अङ्कनी अथवा मार्जक: अदृश्यं भवति स्म । अन्वेषनानन्तरं, गुरु: चौर्यं कुर्वन्तं छात्रम् अभिज्ञाय, स: पुन: मोषणं न कुर्यात् इति उपदिष्टवान् च ।

कस्यचित् दिनानामनन्तरं पुन: चौर्यम् आरब्धम् । पुनरपि गुरो: उपदेशात्परं मोषणं
स्थगितम् । यदा तृतीयं वारं कस्यचन अन्तेवासे: वस्तु अपहृत्तं, तदा सर्वे छात्रा: गुरुं
उपगम्य कथितवन्त: यत् सम्प्रति अपि तेनैव छात्रेण मोषण: कृत:, अत: गुरु: तं
अपराधिं गुरुकुलत: न निष्कासयति चेत्, अस्या: समस्या: एकमेव परिहारमार्ग: भवति, अपरा: सर्वे गुरुकुलात् बहि: गच्छेयु: इति ।

तदा गुरुवर्य: प्रतिपादितवान् यत् तेषां निर्णयमेव वरं, कारणं यत् पठनीयम् तत् ते सर्वं
पठित्वा अवगतवन्त: इति भासते, परन्तु चौर्यं कृतेन छात्रेण इतोऽपि एष: पाठ: अधीत्य अवगमनीय:, अत: स: गुरुकुले एव तस्य सम्पूर्ण अध्ययनपर्यन्तं तिष्ठेत् इति ।

शेषं चिन्त्यम् । प्राय: तस्य सहपाठिनां(ष) निर्गमनानन्तरं तत्र मोषणाय किमपि न स्यात्, अथवा स्वस्य दोषं ज्ञात्वा चौर्यमपि त्यक्त्वा, स: छात्र: धर्ममार्गं स्वीकृतवान् स्यात्

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – १५/५/२००९

No comments:

Post a Comment