Tuesday, December 21, 2010

शुनक:, गर्दभ:, वानर: मनुष्य: च

(३२) शुनक:, गर्दभ:, वानर: मनुष्य: च

अस्मिन् जगति भगवान् मनुष्येभ्य: ६० वर्षाणां, मृगेभ्य: ५० वर्षाणाम् च आयु:
इति प्रथमं कल्पितवान् । कृतघ्नानां मनुष्याणां स्वार्थ्य व्यवहारेण निर्विण्णचेतसा:
भूत्वा, शुनक:, गर्दभ:, वानर: च एकस्मिन् दिने भगवत: समक्षं स्वकीयान् शोकान्
समर्पितुं गतवन्त:। अगोचरेण (मृगाणां ज्ञानेन विना) मनुष्य: अपि गतवान् ।
यथा भगवान् तेषाम् आगमनस्य कारणम् अपृच्छत्, तदा पप्रथमं कुक्कुरेण उक्तं यत्, स: कल्पित: ५० वर्षाणाम् आयु: नेच्छति इति । कारणम् आसीत्, अहर्निशं स्वामिन: गृहस्य पालनं करणीयं भवति, अत: तस्मै स्वपितुं समयमेव न प्राप्यते । अन्यच्छ, यद्यपि कुटुम्ब-जना: तदा तदा तं लालयन्ति, तदापि भोजनविषये, ते स्नेहेन न व्यवहरन्ति, प्रत्युत
ते खाद्यपदार्थान् तंप्रति भिक्षुकाय इव क्षिपन्ति । अपि च, मार्गे गच्छति समये, न केवलम् बालेभ्य: अपि तु महानगरपालिकाया: श्वानविभाग-दानवेभ्य: भेतव्यं/भयनीयं भवति । अत: कृपया मम आयु: ३० वर्षा: इति कुरुताम् । ईश्वर: अपि तदास्तु इत्युक्तवान् ।
इदानीं गर्दभ: पुरत: आगत्य तस्य सङ्कटं प्रकटितवान् । प्रतिदिनमिव उष:काले एव उत्थाय प्रक्षालनाय मलिनानि वस्त्राणि नदीतीरं वहनीयं भवति । पुन: सायङ्काले क्षालितानां वस्त्राणां भारं गृहंप्रति आनयनस्य कार्यं प्रतिदिनं वर्तते । मद्यन्तरेऽपि विराम: नास्ति । रजक: अरण्यत: इन्धनाय काष्टा:, आपणात् गृहस्य कृते इतराणि वस्तूनि च तेन वाहयति । रात्रौ, वर्षाकालेऽपि बहि: एव निद्रां करणीयं भवति । यदा भारस्य कारणत: मम गति: मन्दं भवति, तदा कठोर: रजक: मां दण्डेन ताडयित्वा त्वरयति । अत: कृपया मम आयु: अपि ३० वर्षा: इति न्यूनीकरोतु । गर्दभस्य प्रार्थनामपि ईश्वर: अनुमोदितवान् ।
इदानीम् उपरि वृक्षे उपविष्टवान् कपि: अध: आगत्य तस्य व्यसनमपि ईश्वरस्य समक्षं संस्थापितवान् । तस्य विलापम् आसीत् स: भूतले सुरक्षितया सधैर्यं च जीवनं यापितुं न शक्नोति इति । न केवलं मानवबालका: तंप्रति शिलाखण्डान् क्षिप्त्वा पीडां जनयन्ति अपि तु मानवा: तस्य वंशजान् बन्धीकृत्य, स्वकीयं जीवनयापनाय, जनानां मनोरञ्जनाय च अस्मान् खेलयति/क्रीडयति । अनया भीत्या वृक्षे एव सदा सर्वदा निवासं करणीयं भवति – तदपि वृक्षत: वृक्षम् उत्पतनं कृत्वा । अत: ३० वर्षाणां अपेक्षया अधिकं जीवनं सर्वथा अशक्यमेव । शक्यते चेत्, कृपया मह्यं मोक्षं देहि, नो चेत्, मम आयु: अपि ३० वर्षा: इति परिवर्तयतु । भगवान् तस्य वरमपि दत्तवान् ।
कुक्कुरस्य, रासभस्य, कपे: च निर्गमनानन्तरम् अतिलुप्सु: मानव: स्वस्य निभृत/गूढ स्थानत: बहि: आगत्य ईश्वरं समक्षं तस्य अत्याशाया: प्रस्थावनम् अकरोत् । निर्विण्णचेतसा: मृगा: तु अस्मिन् जगति जीवनयापनविषये क्लेशम् अनुभूतवन्त:, प्रत्युत अस्माकं वंशज: इहलोकस्थे सुखभोगस्य अनुभवार्थं तस्य कल्पितस्य ६० वर्षस्य आयु: अपर्याप्तं भवति, अत: मृगत्रयै: प्रत्यर्पितान् ६० वर्षान् तं दत्वा तस्य आयु: आहत्य १२० वर्षा: कुरुताम् इति भगवन्तं प्रार्थितवान् । कृपालू विधाता अपि स्मेर/मन्दहास वदनेन सह तदास्तु इत्युक्तवान् ।
आनन्देन भुविंप्रति प्रत्यागतस्य मानवस्य जीवने इदानीं परिवर्तनं जातम् । आहत्य प्राप्तेषु १२० वर्षेषु प्रथमान् २०/२५ वर्षान् यावत् स: विद्याभ्यासार्थं यापयति/व्ययीकरोति । तदनन्तरस्य ३५ यावन्त: वर्षा: स: परिवारस्य कृते गर्दभ: इव उद्योगद्वारा उद्यमं करोति । अनन्तरस्य आयु:, (नाम सेवानिवृत्त्या: परं) यदा अपरा: गृहजना: तेषां व्यवहारे बहि: व्यापृता: भवन्ति तदा स: शुनक: इव गृहस्य पालनं करोति । तदनन्तरस्य आयु: न केवलं पौत्री:/पौत्रान् मर्कट: इव चेष्टां कृत्वा, स: तोषयति, अपि तु वार्थक्यावस्थायां कपि: इव एकात् गृहात् अपरं गृहंप्रति उत्पतनं कृत्वा जीवनस्य यापनं करोति । एवं विधेन अस्माकं पूर्वजानाम् अत्याशा्या: फलत: वयम् अपत्यानि/सन्ताना: अपि दीर्घायुषा जीवने क्लेशम् अनुभवाम:।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै ४०००७१ – जनवरि १, २००९

2 comments:

  1. Awesome, phenomenal. Sorry, I can't right this appreciation in Sanskrit because I hardly know it, but even then I could understand it all. You are simply great. -thanks.

    ReplyDelete