Tuesday, December 21, 2010

धन्यवादार्पणम्

धन्यवादार्पणम्
श्री गुरुभ्यो नम: महासरस्वत्यै नम:
॥ सरस्वती नमस्तुभ्यं वरदे कामरूपिणि, संस्कृताद्ययनं करिष्यामि सिद्धिर्भवतु मे सदा ॥

नवरात्री पर्वे सर्वेभ्य: मम शुभाशया: । बहव: न जानन्ति यत्, आङ्ग्लेयानाम् आक्रमणात् पूर्वं, संस्कृतं भारतराष्ट्रस्य दैनन्दिनीया् व्यावहारिका भाषा आसीत् इति । भारतं नामकस्य रथस्य चक्रद्वयम् अस्ति - संस्कृतम्, संस्कृति: च । संस्कृति: इत्यस्य शब्दस्य अनुवाद: Culture इति आङ्गलभाषायं, कलाचारम् इति तामिल् भाषायां वर्तते, परन्तु वयं वदाम: आचार-विचारे सभ्यता इति । एतयो: उभयो: परस्परं गाढं संबद्धं परिगण्य,चतुर:आङ्गलेय: मेकालेय् “महाभाग:” विद्यालयस्तरीया; पाठ्यपद्धत्यात: संस्कृतस्य निष्कासनं कारयित्वा, तस्मिन् स्थाने आङ्गल भाषाया: स्थापनम् अपि कृतवान् । अस्मिन् रीत्या संस्कृतस्य, संस्कृते: च कालक्रमेण नाशं भवति इति तस्य स्वप्नं आसीत् । परं, तदा न अभवत्, शतानां वर्षाणामनन्तरमपि उभयेऽपि इदानीं सजीवा स्त:, केवलं संभाषणद्वारा, कारणं संभाषणं सर्वासां भाषाणाम् अपि जीवनाडी वर्तते । अत: एव अस्माभि: संभाषणाय प्रामुख्यं / प्राधान्यं दातव्य्म् ॥
स्नातकोत्तर-पदवीधरा: अपि संस्कृतेन वक्तुं काठिन्यम् अनुभवन्ति इति श्रूयते । नाम, स्नातकोत्तर-पदवी, संभाषणाय प्रत्यभुतिं / प्रत्ययं (guarantee) न ददाति । धाराप्रवाह संभाषणकौशल्याय, केवलं व्याकरणस्य ज्ञानं पर्याप्तं न भवति, शब्दसङ्ग्र-हस्य (vocabulary), अभ्यासम् अपि आवश्यकम् । एतत् कथं साध्यं भवति, इति प्रश्न: उद्भूयते ।
एतस्य कृते, प्रथमं सोपानं भवति चिन्तनम् । संस्कृतभारत्या: सर्वेषणानुसारं भारतीय भाषासु षष्टि प्रतिशतं (६०%) संस्कृपदानि सन्ति – नाम अज्ञात्वा एव वयं
प्रतिक्षणं संस्कृतेन व्यवहराम: । अत: एव संस्कृतेन अथवा मातृभाषया चिन्तनं कृतं चेत्, अधिकाधिका: संस्कृतशब्दा: अस्माकं स्मृतिपदे आयान्ति, कालक्रमेण आत्मविश्वासम् अपि जनयति/वर्धते इति वक्तुं शक्नुम: ॥

द्वितीयं पदं भवति, शब्दसंङ्ग्रहणं, यत् संभाषण-सन्देशस्थे बालमोदिनि, पञ्चतंत्र कथा: सदृशानां लघु पुस्तकेभ्य: आरभ्य संस्कृत- पुस्तकानां नियमित पठनद्वारा एव प्राप्यते ।
तृतीयं पदं वर्तते, गृहत: आरभ्य सर्वत्र संस्कृत वातावरणस्य निर्माणम् । वयं जानीम: यत् शिशव:, विना उपकरणानि, गृहस्थे मातृभाषाया: वातावरणे, तां भाषां सुलभतया अव/अधिगच्छन्ति । तथैव नियमित साप्ताहिक मेलनद्वारा वयं छात्रा: अपि, संस्कृत वातावरणे संस्कृतज्ञा्नस्य वर्धनं कर्तुं शक्नुम: ।
यथा पर्याप्त धनेन विना, अस्माकं वित्तकोषस्य लेखात: धनं प्रत्याहर्तुं न शक्नुम: तथैव, पर्याप्त शब्द-सङ्ग्रहणं विना, वयं संभाषण-समये, अस्माकं मस्थिष्क-नामकस्य शब्दकोषात्, पर्याप्त शब्दसङ्ग्रहणेन विना शब्दान् प्रत्याहर्तुं न शक्नुम: । एतस्य स्वप्नस्य साकारार्थ प्रतिदिनं संस्कृताय, पर्याप्त समयव्ययम्, किञ्चित्त् सुख-त्यागम्, दृढसंकल्पं च आवश्यका: । एवं विधेन कष्टकार्यम् अपि सुलभसाध्यं भवति इति मम अनुभव: । एकं सुभाषितं वदति यत्, “उध्यमम्, साहसम्, धैर्यम्, बुद्धी शक्ति पराक्रम: षडेते यत्र वर्तन्ते, तत्र दैवी सहायकृत्” इति ।
दिलीप: पृष्टवान्, इत:परम् अस्माभि: किं करणीयम् इति । पत्रालयद्वारा स्वाद्यायाय प्रवेश:, परिचय:, शिक्षा, कोविद: इति चत्वार: भागानां पुस्त्कानि सन्ति । एतेषु, आत्मनेपदि, कर्तरि /कर्मणि / भावे प्रयोगा:, तव्यत्, अनीयर्, शत्रन्त,, शानच् कृदन्ता:, सन्धि:, समास: इत्यादी: बहव: पाठा: सन्ति । शिक्षक: न प्राप्यते चेदपि, इदं स्वाद्यायं साप्ताहिक-मेलनद्वारा अपि कर्तुं शक्नोति ।
प्रति साप्ताहिक-मेलने,एक: छात्र: संभाषण-सन्देशस्थे बाल मोदिनी किंवा पञ्चतन्त्र-कथात: एकं पाठं स्वीकृत्य, गृहे सम्यक् अधीत्य(पठित्वा) वर्गे पाठयेत् । एवं रीत्या न केवलं शब्दसङ्ग्रहणम्, अपि तु आत्मविश्वासं, शिक्षणाभ्यासम् अपि भवति युगपत् व्यक्तिगतरीत्या अपि, अस्माकं परिसरस्थे जनानां कृते साप्ताहान्त-शिबिरस्य आयोजनं कृत्वा, संस्कृतस्य प्रचारं कुर्म: च । अत: अस्मिन् शुभमुहूर्ते एव वयम् अस्माकं लक्ष्यं प्रति सराम: ।
॥ जयतु संस्कृतम्, लसतु संस्कृतम् ॥
अय्यर् सुब्रह्मणिय:, फ्रीमोण्ड्, अक्टूबर् ५, २००८

No comments:

Post a Comment