Tuesday, December 21, 2010

कृतघ्ना दृष्टिहीना कन्या

कृतघ्ना दृष्टिहीना कन्या

एकस्मिन् ग्रामे एका अन्धा सुन्दरी कन्यका निवसति स्म । तत्रत्य जना: तां भाग्यहीनां
सदा निन्दन्ति स्म । परन्तु अमुक: युवक: तां प्रति दयां प्रदर्शितवान्, तस्या: न्यूनतां निवा-
रयित्वा तां परिणेतुमपि वचनं दत्तवान् । तदनुसारं ताम् अन्धां कन्याम् एकस्य नेत्रतज्ञस्य
समीपं नीत्वा तस्या: शल्यचिकित्सां कारयितवान् च ।
यदा दृष्ठिं प्राप्तवती, तदा सा कन्या तस्या: शुभचिन्तकं द्रष्ठुं इतस्तत: अक्षिक्षेपं कृतवती ।
तस्या: दृष्टिगोचरे स: न पतितवान् एव । केषाञ्चित् दिनानामनन्तरं कश्चन अन्ध: तां उपगम्य
तया सह परिणेतुं आशां प्रकटितवान् । तदा तया उक्तं कथं वा अन्धेन सह विवाहं कृत्वा सुखेन
कुटुम्बजीवनं यापितुं शक्ष्यते इति । तत: निर्गमनात्पूर्वं यदा आशाभग्न: युवक: अवदत् यत् स: एव तां
नेत्रदानं कृत्वा अन्ध: अभवत् इति,तदा तस्या: मन:स्थिति: कथं अभविष्यत् इति अस्माभि: चिन्तनीयम् ।

अय्यर् सुब्रह्मणियम्, चेम्बूर्, मुम्बै – १२/१०/२००९

विचित्रं दण्डनम्

विचित्रं दण्डनम्

एकदा एक: मानव: विनाकारणं सारमेयं प्रति शिलाखण्डं न्यक्षिपत् । वयं सर्वे
जानीम: यत् यदा शुनक: शिलाखण्डं च युगपत् दृश्येते, मानव: स्वभावदोषेण कुक्कुरं
शिलाखण्डेन ताडयतीति । दु:खित: श्वान: ईश्वरं प्रति स्वकीयं व्यसनम् आक्षेपरूपेण
निवेदित्वा न्यायं प्रार्थितवान् च ।विधाता यदाविधि मानवम् आहूय सम्यक् विचारणम्
अकरोत् । मानवेन उक्तं यत् तस्य भोजनसमये, शुनक: तस्य स्थालिकां प्रति एव
पश्यन् आसीत्, अत: एव कोपेन मया तथा कृतम् इति । परन्तु, भगवता पृष्ठं यत् किमर्थं
कुक्कुराय लवलेशमपि न दत्वा स्वयमेव सर्वं खादितम् इति । अत: एतस्य अमानुष्याय
व्यवहाराय तेन उचितं दण्डनम् अनुभूतव्यम् । इदानीम् ईश्वर: शुनकं पृष्ठवान् मानवाय
किं दण्डनं दातव्यम् इति । सारमेयेन उक्तम् इमं मानवं भवान् भुवि कस्मिन्नपि आढ्य
मन्दिरे धनाधिकारिस्थाने नियोजयतु इति । भगवता पृष्ठं किमर्थम् एवं विचित्रस्य दण्डनस्य
उपस्थापनं करोति इति । शुनकेन उत्तरितम् “अहं स्वयं पूर्वजन्मनि एकस्मिन् देवालये
कोषाधिकारी आसम्, तत्र मया कृतम् अधर्माचरणस्य कारणत: एव अस्मिन् अवतारे शुनकरूपेण जनितवान् ” इति |


शेषं चिन्त्यम् ।

अय्यर् सुब्रहमणिय: चेम्बूर्, मुम्बै – १२/१०/२००९

विधिरहो महान्

विधिरहो महान्
(दूरदर्शनात् श्रुतस्य एकस्या:तमिल् कथाया: संस्कृत भाषान्तरम्)

कश्चन धनिक: आसीत्, य: स्वकीयं धनं क्षेत्रेषु,भवनेषु, गृहेषु, कार्यालयेषु, यन्त्रागारेषु च
लाभार्थं (वि)नियोगं कृतवान् । समाजसेवाया: दृष्ट्या, उत किञ्चनानां हिताय च तेन
किमपि धनं विद्यादानार्थं, रुग्णालयेषु अथवा विनामूल्यस्य भोजनस्य व्यवस्थायां वा विनियोगं
न कृतम् । प्राय:, दैवभीत्या, प्रतिफलस्य अपेक्षया च मन्दिरेभ्य: किञ्चित् धनं दत्तवान् स्यात् ।
यथा श्रीकृष्णपरमात्मन: बाल्यमित्रं कुचेल: आसीत्, तथैव एतस्य आढ्यस्यापि एक:
दरिद्र: बाल्यवयस्कः आसीत् । एकदा मार्गे तेन एतं मित्रं मेलितुम् आपतितम् । तदा स्वमित्राय
स्वकीयं वैभवं संपत्तिं च प्रदर्शनाय सोत्साही भूत्वा तं भोजनाय आमन्त्रितवान् । भोजनात्
पूर्वं तस्य ५० भूमिक(तल)युक्तस्य प्रासादस्य उपरि स्वमित्रं नीत्वा परिसरस्था: सर्वा: सम्पद:
एकैकाशा: तं निर्दिश्य प्रदर्शितवान् । अनन्तरं भोजनार्थम् उपरिष्ठात् गृहंप्रति तौ आगच्छन्तौ
आस्ताम् । परन्तु अवरोहणसमये एकं बृहद् भूकम्पं प्रवृत्तं, तस्य परार्ध रूप्यकाणां यावत् मूल्य् सर्वा:
सम्पद: भूमे:अन्त:/अध: अन्तर्धानम् अभवन् च । परन्तु, विधे: अनुसारं तेन इतोपि कष्ठं मन:क्लेशं
च अनुभवितव्यम् इति आसीत् । अत: स: न मृत: परं तस्य परिवारजना: दिवङ्गता: । अत: उप-जीवनाय तेन अनथाश्रमस्य पुरत: स्थालिकहस्त: भूत्वा प्रतिदिनं पङ्क्त्यां स्थातव्यम् आपतितम् ।
विधिरहो महान् । एषा घटना सर्वेभ्य: अहङ्कारविमूढात्मभ्य: पाठं कल्पयति इति मन्ये

अय्यर् सुब्रह्मणियम्, चेम्बूर्, मुम्बै – ११/९/२००९

खच्छु- खच्छू

खच्छु- खच्छू

पक्षात् पूर्वमेव सामान्य:पीनस: मां अत्यजत् । विगतेभ्य: सप्तदिनेभ्य: अहम् एतेन
त्वग्रोगेण पीडित:अस्मि । आङ्गलभाषायां एतस्य नाम अस्ति herpes/shingles
इति । अयं वेदनदायक: रोग: मसूरी/मसूरिका व्याधि परिवारस्य सदस्य:/अङ्ग: इति
श्रूयते । बाल्यकाले chicken-pox इति नाम्ना व्याधिना पीडितस्य मानवस्य शरीरे
गुप्त-रूपेण वर्तमाना एषा कृमि:, तस्य पश्चिमे वयसि, यदा शरीरस्य रोग-निरोधशक्ति:
क्षीयते, तदा पुन: आक्रम्यते इति कथ्यते।
पप्रथमं बाधितस्थाने, वेदना उष्णता च भासते, कदा कदा ज्वर: भवेत्, वेदना
स्पन्दनरूपेण सूचीयातनारूपेण वा पर्यायेण भवेत्। दिनद्वयानन्तरं तत्र रक्तवर्ण-रेखा:/रेषा:
दृश्यन्ते, या: तदनन्तरं विस्फोटकरूपं प्राप्यन्ते । सप्ताहपर्यन्तं वर्धमान: अयं खच्छूरोग: खण्डूयेन
सह क्षीयते, विस्फोटका: न्यूनीभूत्वा शम्यन्ते च । यद्यपि सप्ताहद्वयस्य अनन्तरं रोग: सम्पूर्णतया
अदृश्यं भवति, तथापि बाधितस्थाने लघु वेदना अनुवर्तते एव इति बाधिता: रोगिण: वदन्ति ।
मम विषये, अद्य सप्तमं दिनं प्रचलति, प्राय: श्व: आरभ्य पीडाया:/व्याधे: क्षीणदशा आरप्स्यते इति् मन्ये । शारीरिक -उष्णताया: जात: रोग: इत्यस्य कारणात्, प्रतिदिनं स्नानं कर्तुं शक्यते -ज्वरं न वर्तते तर्हि । परं आहार-विहार विषये नियन्त्रणं आवश्यकम् अस्ति इति वैद्या: अनुमोदन्ति । क्षीणदशायां, तत्पश्चात् च वेदना न्यूना भवति, किन्तु अमुक कालावधिपर्यन्तं सा तस्या: उपस्थितिम् अस्मान् स्मारयति एव ।
इयं पीडा धमनीं(nerve) प्रथमं बाधयते, अत: (यथा भेरीवादनेन सह वेदिकायां / मञ्चे नट-नटीनां प्रवेशनं भवति) तथा वेदनया सह अस्माकं शरीरे रोगस्य प्रवेश: अपि भवति इति वदाम: चेत् तत्र न अतिशयोक्ति: । शरीरस्य मध्यभागे, वलयमिव, अथवा दक्षिणस्कन्धत: वामकटिप्रदेशापर्यन्तं प्राचीनावीति इव, उत वामस्कन्धत: दक्षिणकटिप्रदेशपर्यन्तम् उपवीतरूपेण बाधयते । कदाचित्, शिरः, ललाटं वा रोगस्य लक्ष्यं भवति ।
भगवत: गीताचार्याणां आशिषा सप्ताहे दिनत्रयं गीताशिक्षण वर्गमपि विना विरामं चालयितुं शक्तवान्, यत: बाधा शरीरस्य पृष्ठभागे आसीत् । अस्मिन् सप्ताहे, गीतासोपानस्य प्रथमभागस्य समाप्ति: भवति । तदनन्तरं डिसेम्बेर् मासपर्यन्तं पुनरावृत्तिवर्गं चालयिष्यामि इति कल्पना वर्तते । मध्यन्तरे, अस्य मासस्य २०तितम: दिनाङ्कत: २७ तम दिनाङ्क पर्यन्तं यदा अहं गोवा गन्मिष्यामि, तदा मम वरिष्ठ छात्राद्वयंपुनरावृत्तिवर्गं चालयिष्यतीति सङ्कल्पमस्ति ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै, - ५/१०/२००९

Saint and Two Youths

दूरदर्शनात् श्रूताया: एकस्या:तमिल् कथाया: संस्कृतानुवाद:

एकस्मिन् ग्रामस्य प्रान्ते एक: क्षपणक: (बौद्ध सन्यासिन्) तस्य कुटीरे निवसति स्म ।
एकदा द्वौ युवानौ तम् उपगम्य/अभिगम्य धनरूपेण भिक्षां याचितवन्तौ । तदा मुनि: तौ
आश्रमात् किञ्चित्त् दूरे वर्तमानस्य वृक्षस्य समीपं नीत्वा तस्य अध: खननं कर्तुं प्रेरितवान् ।
किञ्चित् खननेन एव ताभ्यां तत्र एक: घट: प्राप्त: । तस्मिन् घटे विपुलानि अमूल्यानि
आभरणानि, मौक्तिकानि च आसन् । मुने: अनुमोदेन सह/आज्ञानुसारं तौ तं घटं गृहं प्रति
नीतवन्तौ । मार्गे तयो: कुमति: अवदत् यत् मुने: समीपम् इतोऽपि अधिका धनराशि:
स्यात्, अथवा स: एतानि अमूल्यानि आभरणानि न अदास्यत् इति । एवं विचिन्त्य,तौ
पुन:मुनिं समुपगम्य तम् इतोऽपि अधिकाय धनाय प्रार्थिवन्तौ च । मुनि:तस्य समीपे
वर्तमाना: अवशिष्ठा: सम्पद: अपि दातुम् सम्मति: प्रकटितवान्, परन्तु नियम: आसीत्,
ताभ्यां तस्य आश्रमे दिनत्रयं स्थित्वा तस्य आज्ञाया: पालनं करणीम् इति । धनाशया
पीडितवन्तौ तौ अपि सहमतिं दत्तवन्तौ ।
तयो: दिनचर्या एवम् आसीत्- उष:काले, नाम प्रात:४ वादने उत्थानम् अनन्तरम्
एका घण्टा यावत् ध्यानं, पश्चात् योगाभ्यासं, तत्पश्चात् आश्रमं परित: दशवारं भ्रमणं,
तत्रत्यानां पादपानां (सस्यानां, वृक्षाणां च) जलेन सिञ्चनम्, समीपस्थ: वनत: पाकाय
इन्धनस्य कृते काष्ठानाम् आनयनं, मध्याह्ने विश्रान्ति:, अनन्तरं अद्ययनं, सायङ्काले पुन:
ध्यानम् इति । एवं रीत्या आदिनस्य धार्मिक-कार्यक्रमेण तयो: मन:स्थित्यां परिवर्तनं अभूत् ।
फलत: इहलोकजीवने तयो: अभिरुचि: नष्ठा भूत्वा तौ आश्रमे एव अवशिष्ठं जीवनं मुने: सेवने
यापितवन्तौ इति कथा वदति ।

अय्यर् सुब्रह्मणियम्, चेम्बूर्, मुम्बई- १२/९/०९

नरक: स्वर्ग: च

नरक: स्वर्ग: च
(दूरदर्शनात् अद्य श्रुताया: मलयाल कथाया: संस्कृत भाषान्तरम्)

कदाचित् नारदमुनि: नरकं द्रष्टुकाम: सन् ब्रह्माणं अनुज्ञार्थं उपगतवान् । पित्रा उक्तं यत् नरकेन
सह स्वर्गमपि तेन द्रष्ठव्यमिति, यत: स्वर्गनरगयो: जीवनशैल्या: तुलना कर्तुं शक्यते इति ।
पप्रथमं, तौ नरगं गतवन्तौ, यदा तत्र भोजनवेला आसीत् । भोजनात्पूर्वं सर्वे नरकवासिन:
हस्तप्रक्षालनं कृत्वा भोजनप्रकोष्ठं प्रति गमनसमये, मार्गे सर्वेषां हस्तयो: एकमेकं चमसं
तत्रत्य सेवकै: खचितं(बन्धीकृतम्) । नाम, ते इहलोके इव हस्तेन अश्नातुमपि न शक्तवन्त:
तेषां कूर्परे, कण्ठे च किमपि प्रतिबन्धकं आसीत्, अत: ते मानवा: इव कूर्परं कण्ठं वा नमित्वा
स्वतन्त्रतया हस्तेन अश्नातुमपि अशक्तवन्त: । अस्यां परिस्थित्यां चमसेन उद्धृतं खाद्यं साक्षात्
मुखे स्थापयितुम् अशक्यत्वात्, दूरत: मुखं प्रति क्षेपणीयं आसीत् । फलत:खाद्यं मुखात् ऋते अन्यत्र
पतत् आसीत् । नाम, यद्यपि विपुलं भोज्यं उपलब्दं आसीत्, तथापि केऽपि तृप्त्या उदरपूर्ति: कर्तुं न अशक्नुवन् । अत्र एकं मलयालं सुभाषितं मम स्मृतिपदे आयाति । यद्यपि नदी जलपूरिता भवति,
, तथापि शुनकेन जिह्वया एव नद्या: जलं अवलेहनीयम्/पातव्यं भवतीति ।
इदानीम् विधाता स्वपुत्रं स्वर्गं प्रति नीतवान् । तत्रापि भोजनप्रकोष्ठे इयमेव प्रथा – नाम
हस्तप्रक्षालनानन्तरं चमसबन्धनं इत्यादि – प्रचलति स्म । परन्तु, अत्रत्य निवासिन: नरक-वासिन: अपेक्षया बुद्धिमन्त: इव दृश्यते, कारणं एकैक: अपि चमसेन स्वीकृतं खाद्यं स्वकीये मुखे स्थापनस्य अपेक्षया पुरत: उपविष्टत: जनस्य मुखे स्थापयन्ति स्म । एवं विधेन सर्वे परस्परं भोजयन्त: आसन्, यत: विनाक्लेशं सर्व: तृप्तिपूर्वकं आहारं स्वीकरोति स्म ।
एतेन आदानप्रदानद्वारा स्वर्गवासिन: कूर्परेषु कण्ठेषु च विद्यमानान् प्रतिबन्धान्
पराजित्य सम्यक् अश्नातुं शक्तवन्त: इति दूरदर्शनात् श्रूता एष कथा वदति ।

अय्यर् सुब्रह्मणिय:,
चेम्बूर्, मुम्बै – १८/९/२००९

बुधिमान् विरुद्ध बलवान्

बुधिमान् विरुद्ध बलवान्

एक: बुद्धिमान्, अपर: बलवान् । एकदा बलवान् बुद्धिमत: समीपं आगत्य अकथयत् यत् शक्तिम् उपयुज्य भीमकार्यमपि सुलभेन कर्तुं शक्नुम: इति । एतत् श्रुत्वा द्वितीय: उक्तवान् भवते सह सहयोगं कुर्वत: पूर्वं अहं भवत: शक्ते: प्रमाणं द्रष्टुं इच्छामि इति । तदा बलवता उक्तं यत् स: एकां बृहद् शिलां एकेन हस्तेन उत्थाय नगरस्य भित्या: अपरभागे अनायासेन क्षिप्त्वा स्वबलस्य प्रदर्शनं करिष्यामि इति । इदानीं बुद्धिमता उक्तं यत् भवान् पप्रथमं अयं करवस्त्रं भिंत्या: अपरमार्गं क्षिप्त्वा भवत: बलं प्रदर्शयतु इति । बलवान् औदासिन्येन करवस्त्रं स्वीकृत्य क्षिप्तवान्, परं वायुवेगकारणत: तत् तंप्रति एव प्रत्यागतम् । बलवत: मुहुर्मुहु: प्रयत्नं तदेव फलं आनयत् ।

इदानीम्, अस्माकं बुद्धिमान्, एकं शिलाखण्डं करवस्त्रेण बद्ध्वा करवस्त्रं क्षिपितवान् । शिलाखण्डस्य भारेण, करवस्त्रं प्रकृत्या एव् भिन्त्या: अपरमार्गे अपतत् । एतत् दृष्ट्वा बलवान् पराजयम् अङ्गीकृतवान् ।

कथाया: सारांशं भवति – केवलं शक्ति: एव पर्याप्तं न भवति, बुद्धिरपि भवति चेदेव वरम् ।

अय्यर् सुब्रह्मणियम्, चेम्बूर्, मुम्बै – १/२/२००९

द्वादशकं शिबिर वृत्तम्

द्वादशकं शिबिर वृत्तम्

चेम्बूरस्थे शृङ्गेरि मठ्स्य आश्रये, श्री वैद्यलिङ्गं महोदयस्य साहाय्येन, भारतदेशस्थं मम षष्ठं दशदिनात्मकं शिबिरं, विगतस्य वर्षस्य अन्तिमेषु दश दिनेषु (नाम २००८ डिसेम्बर् २२ तम: दिनाकत: ३१ तमं दिनाङ्कपर्यन्तं) प्राचलत् ।
यद्यपि प्रथमे दिने १३ संस्कृतार्थिन: आगतवन्त:, अन्तिमे दिने १० सहभागिन: एव आसन्। । एते श्रद्धालव: विद्यार्थिन:, (ये प्रतिदिनम् आगच्छन्ति स्म), अर्थपूर्णान् प्रश्नान् पृच्छन्ति स्म । भागगृहीतृषु, ५ महिला:, ५ पुरुषा: च आसन् । शिबिरस्य अनन्तरं सर्वे
१-१०० संख्ह्या:, समय:, दिनचर्या च संस्कृतेन स्पष्टतया आत्मविश्वासेन च वक्तुं शक्नुवन्ति प्रथमे दिनद्वये एका बालिका अपि आगतवती, परं विरामस्य अनन्तरस्य परीक्षाया: सिद्धता करणीया इत्यस्य कारणत: अनन्तरं सा वर्गं त्यक्तवती ।
शिबिरस्य समापनदिने वैद्यलिङ्गं महोदयेन सह, शृङ्गेरि मठस्य संस्कृत ग्रन्थालयस्य
निर्वाहक:, श्री रामचन्द्रन् महोदय: अपि वेदिकाम् अलङ्कृतवान् । सहभागिन: (छात्रा:) लघु शब्दकोशम्, व्यवहार साहस्री, चित्रपदकोश:, अभ्यासपुस्तकम्, पञ्चतन्त्र-कथा: इत्यादीनि पुस्तकानि क्रेतुम् इष्टवन्त: । प्राय: इदानीं एतानि पुस्तकानि अत्र समये न उपलभ्यन्ते इत्यस्य कारणत: अहं बङ्गलूरुरस्थे संस्कृत भारती्कार्यालयत: प्राप्तुं सङ्कणकद्वारा आयोजनं कृतवान् ।
शिबिरस्य समापनस्य समनन्तरमेव, परेद्यु: (नाम जनवरी प्रथम दिनाङ्गत:)
साप्ताहिक-मेलनवर्गस्य आरब्दम् अपि कृतम् । अस्मिन् मेलने संभाषणाभ्यासमपि भवति वैद्यलिङ्गं महोदयाय कृतज्ञतार्पणेन सह अहं इदं वृत्तम् अत्र समापयामि ।
यदा अहं द्विवारं – २००६ तमे वर्षे, २००८ तमे वर्षे च - प्रवासाय अमेरिका-देशं गतवान्, तदा क्यालिफोर्णिया राज्यस्य फ्रीमोण्ड् इति नामके नगरे आहत्य ६ शिबिराणि (प्रथम दीक्षाया:, द्वितीय दीक्षाया: वर्गान् विहाय) चालितवान् । भारतदेशेऽपि अद्यावदि ६ शिबिराणि, प्रथम दीक्षाया: वर्गद्वयमपि चालितवान् । आहत्य विगते वर्षद्वये द्वादशकानि शिबिराणि मया चालितानि । वाणी देव्या: आशिषा, मुम्बैस्थे संस्कृतभारत्या: कार्यकर्तॄणां, संस्कृतबन्धूनां साहाय्येन मार्गदर्शनेन च एव एतत् संस्कृतसेवा साधिता इति अहं मन्ये ।

॥ संस्कृतमातु: सेवायां - अय्यर् सुब्रमणिय:, चेम्बुर्, मुम्बै ४०००७१ – १/१/२००९ ॥

चतुर:ग्राहक:

चतुर:ग्राहक:
(दूरदर्शनत: दृष्टाया:एकाया:कथाया:भाषान्तरम्)

कश्चन बुभुक्षित:/क्षुधया पीडित: (अत: खादुकाम:) जन:,अमुक् आपणं गत:, कदलीफलस्य मूल्यम् अपृच्छत् च । एकस्य फलस्य मूल्यम् एकं रूप्यकम् इति आपणिक: अवदत् । एकं रूप्यकं महार्घम्, अत: ६० पैसायै दास्यति वा इति ग्राहकेन पृष्टम्।

तदा आपणिकेन कोपेन उक्तं यत् ग्राहकेन सूचितस्य मूल्याय केवलं फलस्य त्वगेव उपलभ्यते इति । तर्हि, त्वचं निष्कास्य, कदलीफलस्य अवशिष्ठं भागं ४० पैसायै दीयताम भो: इति ग्राहक: अभणत् ।
एतत् श्रूत्वा, आपणिक: पृष्टवान् भवान् कुत: आगतवान् इति । यदा अहं केरलस्थ:
इति ग्राहक: अवोचत्, तदा आपणिक: उक्तवान् मम ऊहं सत्यम् एव इति ।

(एतस्या: कथाया: घटनास्थलं वयं विदेशे कुत्रापि परिवर्तनं कृत्वा ग्राहक: भारतीय: इति वदाम: चेत्, चतुरताया: पारितोषिकं निश्चयेन भारतीयाय उपलभ्यते)

अय्यर् सुब्रह्मणिय:, चेम्बूर्र्, मुम्बै २८/५/२००९

मूढ: छात्र:

मूढ: छात्र: (दूरदर्शन कार्यक्रमत: श्रुताया: कथाया:
संस्कृतानुवाद:)

अपरस्मिन् गुरुकुले, तत्रत्य आचार्य: ४ छात्रेभ्य: मन्त्रद्वारा विशिष्टान् कौशल्यान्
बोधितवान् । प्रथमाय छात्राय शुष्कस्य सस्यस्य पुनरुद्धारणं कथं करणीयं इति
पाठितवान् । द्वितीयेन अधीतं, कथं नष्टस्य वृक्ष: पल्लवित: करणीय: इति ।
तृतीय्: मृतस्य मानवाय जीवदानस्य सामर्थ्यम् अधीतवान् । अन्ते, चतुर्थ:
मृतस्य मृगाय प्राणार्पण विद्याया: नैपुण्यं प्राप्तवान् ।

यथा गुरुकुलवासस्य/शैक्षणिकवर्षस्य समापनं सम्भूतम्, ते स्व-स्व् गृहंप्रति
निर्गतवन्त: । मार्गे एकं गहनम् आरण्यं आसीत् । तस्य वनद्वारा गमनसमये
दूरे वृक्षत: अध: पतन्तं जनम् अवलोकितवन्त: । यदा तस्य समीपम् आगता:,
तदा ते तत्र तस्या: व्य्कते: कलेवरमेव दृष्टवन्त: । तदा तृतीय: अहं मया पठितेन्
मन्त्रेण अयं व्यक्तिं सजीवं करिष्यामि इत्युक्त्वा किमपि जपं कृतवान् । आश्चर्यं
नाम,स: मनुष्य: निद्रात: इव उत्थितवान्, शरीरत: धूलीं निष्कासितवान् धन्यवा-
दार्पणं कृत्वा तत: निर्गतवान् च ।
यदा ते अग्रे गतवन्त:, प्रथमाय, द्वितीयाय अपि तयो: मन्त्रफलस्य प्रदर्शनाय/परीक्षणाय वेला प्राप्ता/अवसर: प्राप्त: । कस्यचित् समयस्य अनन्तरं, तै:
एकस्य मृतस्य सिंहस्य कलेवरं दृष्टम् (एकस्य मृतस्य सिंहस्य कलेवरं तेषां दृष्टिगोचरे आगतम्) । तदा चतुर्थ: अत्युत्साहेन उक्तवान् यत्, तस्य निपुणताया: प्रदर्शनाय, अयं
सुवर्ण अवसर: वर्तते इति । परन्तु, मित्रै: तेन सावधानेन प्रवर्तितव्यं/भवितव्यम् इत्युक्तं, यत: जीवप्राप्त्यानन्तरं, प्रकृत्या बुद्धिहीन: स: मृग: तं निश्चयेन हनिष्यति इति ।
किन्तु, स: मूढ: तर्कित: यत् अस्मिन् लोके कोऽपि प्राणी प्राणदातु: हननं करोति वा
इति । एवं मित्राणां सदुपदेशं तिरस्कृत्य, स: मूढ: आचार्येण आर्जितस्य मन्त्रशक्त्या तस्य
मृगस्य मृते शरिरे चैतन्यं उत्पादितवान् । पूर्वं घटितायां घटनायाम् इव जीवप्राप्त्यानन्तरं स: कृतघ्न: केसरि: निद्रात् इव उत्थितवान् । अनन्तरं समीपस्थं जीवदातारं मारितवान्, स्वकीयां भुबुक्षां निवारितवान् च ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बई – १६/५/०९

नाय्क्कर: मूढविश्वास: च

नाय्क्कर: मूढविश्वास: च

पूर्वं तमील्नाडूमध्ये रामस्वामिनाय्क्कर् नामक: समाजहित प्रवर्तक:/ संशोधक:(reformer) आसीत् । एकदा स: वाराणासी प्रवासं गतवान् तत्र गङ्गानदीतीरे हस्ताभ्यां जलम् उपरि क्षिपन् जन: तेन दृष्ट: । यदा किं करोति इति नाय्क्कर: तं अपृच्छत्, मानवेन उक्तं यत् स: दिवंगत-पितृभ्यां तर्पणद्वारा जलं यच्छन् अस्तीति ।
तदा, नाय्क्कर: नदीतीरे उपविश्य हस्ताभ्यां जलं स्वीकृत्य वामभागंप्रति क्षिपितुं आरब्दवान् । एतत् दृष्ट्वा स: जन: नाय्क्करं पृष्टवान् स: किमर्थम् आचारविरुद्ध-वामभागे जलम् क्षिप्त्वा तर्पणं कुर्वन् अस्तीति । नायक्केरेण उत्तरितं यत् स: तर्पणं न करोति, परं तमिल्नाडूस्थे तस्य ईरोड् नगरे जलस्य दुर्भिक्ष: वर्तते, अत: स:
वाराणसीत: तत्र जलं प्रेषयन् अस्तीति । एतत् श्रुत्वा, स: जन: कथं वा एवं रीत्या जलं वाराणसीत: तस्य नगरं प्राप्यते इति विस्मयं प्रकटितवान् । तदा नाय्क्करेन उत्तरितं यत्, यथा तेन जनेन कृतेन तर्पणद्वारा जलं तस्य पितृन्: प्राप्नोति, तेन रीत्या एव वाराणसीत: हस्ताभ्यां ईरोड्प्रति क्षिपितं जलमपि निश्चयेन तत्र प्राप्नोति इति । नाय्क्करस्य आस्तिकबुद्धि: (मूढविश्वास:) नासीत् इति वक्तव्यं न भवति ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै, २२/२/२००९

मण्डुक: इव

मण्डुक: इव

यथा मण्डूक: स्वकीयेन रटनेन शत्रून् आकर्ष्य अपायं स्वीकरोति, तथैव मानव: अपि स्वकीया: जिह्वाया: चपलताद्वारा समस्यानाम् आमन्त्रणं करोति । अस्मिन् विषये मया ह्यस्तन दूरदर्शन
कार्यक्रमात्, अधोलिखिता कथा श्रुता -

कस्मिंश्चित् नगरे एकस्य नूतन सेतो: उद्घाटनाय नगरप्रमुखा:, आरक्षकालयाधिकारिण:, गतागत-नियन्त्र्ण- अधिकारिण: सर्वे आगतवन्त: । उद्घाटनानन्तरं, घोषणं कृतं यत् तस्य सेतो: द्वारा क्रामन्तं शततमाय वाहनाय १०,००० रूप्यकाणि उपायनरूपेण दीयन्ते इति । यदा शततमं वाहनं तत् सेतुं अक्रामत्, निर्णयानुसारं तस्य चालकाय प्रतिश्रवितं (promised) धनं दत्तम् ।

तदनन्तरं, यदा अधिकारिण: एतस्य धनेन स: किं करिष्यति इति चालकं पृष्टवन्त:, तदा तेन औदासिन्येन(nonchalantly) उक्तं यत्, पप्रथमं स: यानचालनाय अनुज्ञा/अनुमति-पत्रस्य आवेदनं/आयोजनं करिष्यति इति । एतत् उद्वेककरं उत्तरं श्रुत्वा अधिकारिण: प्रकृत्या एव आघात प्रहारं प्राप्तवन्त: इव अभवन् ।

युगपत् एव चा्लकस्य पत्न्या कथितं यत् तस्या: पति: सदा सुरापानं कृत्वा किमपि जल्पनं करोति्- तेन पीत्वा कथापि यानं न चालनीयम् इति । एतत् आकर्ण्य अधिकारिण: विद्युता ताडि ता: इव अभवन् ।

अस्मिन् क्षणे यानस्य पृष्ठभागे उपविष्ट्वता चालकस्य पित्रा स्वगतं उक्ता “कथं वा मम पुत्र: चौर्यं कृतं यानं धैर्येण चालयति” इत्यस्य मर्मरध्वनि: (murmur) अधिकारिणां श्रुतिपथे अपतत् ।

इदानीम् अधिकारिण: किं कृतवन्त: इति अस्माभि: एव कल्पना करणीया । एवं रीत्या, चालक:,तस्य पत्नी, पिता च तेषां जिह्वा्या: अनवधान कारणत: एव समस्यायां पतितवन्त: ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै - ९/१२/०८

भगवान् बुद्ध: घातुक: च

भगवान् बुद्ध: घातुक: च

दूरदर्शनकार्यक्रमात् श्रुता घटना एषा । भगवान् बुद्ध: प्रातिदिनं भिक्षाटनं कृत्वा बुभुक्षितान् भोजयति स्म । एकदा स: भिक्षार्थं एकस्य घातुकस्य आपणंप्रति अगच्छत् । कठोरहृदय: मांसिक: न केवलं किमपि न दत्तवान्, अपितु बहि: न आगच्छन्नेव बुद्धं कठोरस्वरेण निन्दितवान् । अपरेद्यु: अपि, यदा बुद्ध: तत्र अगच्छत्, घातुक: इतोऽपि क्रोधस्वरेण बुद्धं तर्जयित्वा पलायितवान् । तृतीये दिने यदा भगवान् गतवान्, तदा खड्गहस्त: मांसिक: बहि: आगत्य “त्वम् ल्ज्जाहीन: वा, किमर्थं मां पुन:पुन: आगत्य पीडयसि? मुहुर्मुहु: अत्र मा आगच्छतु”, इति वदन् बुद्धंप्रति थूत्कारशब्देन सह निष्ठीतवान् अपि । यदा बुद्ध: निष्ठीवं एकेन हस्तेन स्वीकृतवान्, तदा घा्तुक: पुन: निष्ठीतवान् । इदानीं भगवान् तं निष्टीवं अपरेण हस्तेन स्वीकृत्य स्ववस्त्रेण मार्जितवान् च । यदा अपरेद्यु: बुद्ध: पुन: मांसिकस्य आपणंप्रति याचनाय आगत:, तदा घातुक: गत्यन्तरं विना एकं अजं समर्पितवान्, परं भगवता बुद्धेन उपायनमयं तिरस्कृतम् । अनन्तरं, बुद्ध: घातुकं पृष्टवान् यत्, “यदि मया भवता अर्पित: अज: न स्वीकृत:, तर्हि स: कस्य अधीनं भवति इति” | तदा घातुक: उक्तवान् मम एव इति । तदा बुद्धेन कथितं यत्, “यथा भवता इदानीम अर्पितम् अजं अहं न स्वीकृतवान्, तथैव पूर्वं भवता थूत्कारेण सहितं दत्तं निष्ठीवमपि मया न स्वीकृतम् । अत: यथा इदानीं मया निराकृत: अज: भवदीय: इति भवता अङ्कीकृत:, तथा पूर्वं मया निराकृतं निष्ठीवमपि भवत: एव, मदीयं न, इति निर्णेतव्यम् / मन्तव्यम् ।

एतत् श्रुत्वा चकित: कठोरमनस्क: घातुक: भगवत: चरणे पतित्वा, तस्य अनुयायी अभूत् इति श्रूयते ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – ३/२/२००९

शुनक:, गर्दभ:, वानर: मनुष्य: च

(३२) शुनक:, गर्दभ:, वानर: मनुष्य: च

अस्मिन् जगति भगवान् मनुष्येभ्य: ६० वर्षाणां, मृगेभ्य: ५० वर्षाणाम् च आयु:
इति प्रथमं कल्पितवान् । कृतघ्नानां मनुष्याणां स्वार्थ्य व्यवहारेण निर्विण्णचेतसा:
भूत्वा, शुनक:, गर्दभ:, वानर: च एकस्मिन् दिने भगवत: समक्षं स्वकीयान् शोकान्
समर्पितुं गतवन्त:। अगोचरेण (मृगाणां ज्ञानेन विना) मनुष्य: अपि गतवान् ।
यथा भगवान् तेषाम् आगमनस्य कारणम् अपृच्छत्, तदा पप्रथमं कुक्कुरेण उक्तं यत्, स: कल्पित: ५० वर्षाणाम् आयु: नेच्छति इति । कारणम् आसीत्, अहर्निशं स्वामिन: गृहस्य पालनं करणीयं भवति, अत: तस्मै स्वपितुं समयमेव न प्राप्यते । अन्यच्छ, यद्यपि कुटुम्ब-जना: तदा तदा तं लालयन्ति, तदापि भोजनविषये, ते स्नेहेन न व्यवहरन्ति, प्रत्युत
ते खाद्यपदार्थान् तंप्रति भिक्षुकाय इव क्षिपन्ति । अपि च, मार्गे गच्छति समये, न केवलम् बालेभ्य: अपि तु महानगरपालिकाया: श्वानविभाग-दानवेभ्य: भेतव्यं/भयनीयं भवति । अत: कृपया मम आयु: ३० वर्षा: इति कुरुताम् । ईश्वर: अपि तदास्तु इत्युक्तवान् ।
इदानीं गर्दभ: पुरत: आगत्य तस्य सङ्कटं प्रकटितवान् । प्रतिदिनमिव उष:काले एव उत्थाय प्रक्षालनाय मलिनानि वस्त्राणि नदीतीरं वहनीयं भवति । पुन: सायङ्काले क्षालितानां वस्त्राणां भारं गृहंप्रति आनयनस्य कार्यं प्रतिदिनं वर्तते । मद्यन्तरेऽपि विराम: नास्ति । रजक: अरण्यत: इन्धनाय काष्टा:, आपणात् गृहस्य कृते इतराणि वस्तूनि च तेन वाहयति । रात्रौ, वर्षाकालेऽपि बहि: एव निद्रां करणीयं भवति । यदा भारस्य कारणत: मम गति: मन्दं भवति, तदा कठोर: रजक: मां दण्डेन ताडयित्वा त्वरयति । अत: कृपया मम आयु: अपि ३० वर्षा: इति न्यूनीकरोतु । गर्दभस्य प्रार्थनामपि ईश्वर: अनुमोदितवान् ।
इदानीम् उपरि वृक्षे उपविष्टवान् कपि: अध: आगत्य तस्य व्यसनमपि ईश्वरस्य समक्षं संस्थापितवान् । तस्य विलापम् आसीत् स: भूतले सुरक्षितया सधैर्यं च जीवनं यापितुं न शक्नोति इति । न केवलं मानवबालका: तंप्रति शिलाखण्डान् क्षिप्त्वा पीडां जनयन्ति अपि तु मानवा: तस्य वंशजान् बन्धीकृत्य, स्वकीयं जीवनयापनाय, जनानां मनोरञ्जनाय च अस्मान् खेलयति/क्रीडयति । अनया भीत्या वृक्षे एव सदा सर्वदा निवासं करणीयं भवति – तदपि वृक्षत: वृक्षम् उत्पतनं कृत्वा । अत: ३० वर्षाणां अपेक्षया अधिकं जीवनं सर्वथा अशक्यमेव । शक्यते चेत्, कृपया मह्यं मोक्षं देहि, नो चेत्, मम आयु: अपि ३० वर्षा: इति परिवर्तयतु । भगवान् तस्य वरमपि दत्तवान् ।
कुक्कुरस्य, रासभस्य, कपे: च निर्गमनानन्तरम् अतिलुप्सु: मानव: स्वस्य निभृत/गूढ स्थानत: बहि: आगत्य ईश्वरं समक्षं तस्य अत्याशाया: प्रस्थावनम् अकरोत् । निर्विण्णचेतसा: मृगा: तु अस्मिन् जगति जीवनयापनविषये क्लेशम् अनुभूतवन्त:, प्रत्युत अस्माकं वंशज: इहलोकस्थे सुखभोगस्य अनुभवार्थं तस्य कल्पितस्य ६० वर्षस्य आयु: अपर्याप्तं भवति, अत: मृगत्रयै: प्रत्यर्पितान् ६० वर्षान् तं दत्वा तस्य आयु: आहत्य १२० वर्षा: कुरुताम् इति भगवन्तं प्रार्थितवान् । कृपालू विधाता अपि स्मेर/मन्दहास वदनेन सह तदास्तु इत्युक्तवान् ।
आनन्देन भुविंप्रति प्रत्यागतस्य मानवस्य जीवने इदानीं परिवर्तनं जातम् । आहत्य प्राप्तेषु १२० वर्षेषु प्रथमान् २०/२५ वर्षान् यावत् स: विद्याभ्यासार्थं यापयति/व्ययीकरोति । तदनन्तरस्य ३५ यावन्त: वर्षा: स: परिवारस्य कृते गर्दभ: इव उद्योगद्वारा उद्यमं करोति । अनन्तरस्य आयु:, (नाम सेवानिवृत्त्या: परं) यदा अपरा: गृहजना: तेषां व्यवहारे बहि: व्यापृता: भवन्ति तदा स: शुनक: इव गृहस्य पालनं करोति । तदनन्तरस्य आयु: न केवलं पौत्री:/पौत्रान् मर्कट: इव चेष्टां कृत्वा, स: तोषयति, अपि तु वार्थक्यावस्थायां कपि: इव एकात् गृहात् अपरं गृहंप्रति उत्पतनं कृत्वा जीवनस्य यापनं करोति । एवं विधेन अस्माकं पूर्वजानाम् अत्याशा्या: फलत: वयम् अपत्यानि/सन्ताना: अपि दीर्घायुषा जीवने क्लेशम् अनुभवाम:।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै ४०००७१ – जनवरि १, २००९

केचन स्वयंरचित न्याया:

केचन स्वयंरचित न्याया:
बिन्दुनिपातेन घट: पूर्यते, एकैकै: जनै: सभागृहं पूर्यते, तथैव धनमपि कणश: वर्धते । अन्ते, यथा भघ्नात् घटात् समग्रं जलम् एकपदे एव निर्वहति, यथा कार्यक्रमानन्तरं सभागृहात्, सहसैव सर्वे जना: एकपदि निर्गच्छन्ति, तथैव कणश: सम्पादितं धनमपि एकस्मिन् क्षणे एव अन्तर्धानं भवति । अयं प्रकृते: न्याय: वर्तते । प्रत्युत: आधुनिक संस्कृत छात्रा: अस्य न्यायस्य अपवादा: भवन्ति, यत: वर्गस्य प्रथमे दिने बहुसंख्यया सहैव आयान्ति, परं समग्रात् अध्ययनात् प्राक् एव, मेष: इव क्रमेण एकैकश: वर्गं त्यजति ॥

कन्दुक – भित्ति न्याय:
सर्वस्या: क्रियाया: परिणाम:/फलं/प्रतिक्रिया भवति । यथा, भित्तिं प्रति क्षिपित: कन्दुक: क्षिप्त्रंप्रति एव
प्रत्यागच्छति/प्रतिस्पन्दते, तथैव अस्माभि: क्रियमाणा: क्रियाया:(साधु वा असाधु, इच्छन् वा अनिच्छन्) फलम् अस्मान् प्रति एव प्रत्यागच्छति । अत: अस्माभि: समीचीनं/धार्मिकं कार्यमेव करणीयम् ।

धनुर्बाण न्याय:
यथा धनुष: निर्गच्छन्तं बाणं वयं निश्चयेन प्रत्याहर्तुं न शक्नुम:, तथैव अस्मत् मुखात् (अधर ओष्टयो:
आकार: पुरातन कालीय चाप: इव दृश्यते खलु ) जिह्वा नामक बाण/शर-द्वारा निर्गच्छताम् शब्दानां प्रत्याहरणं कर्तुं न शक्नुम: ।
दर्पण-प्रतिबिम्ब न्याय:
दर्शनानुसारं जगति दृश्यमानानि सर्वाणि वस्तूनि वास्तविकानि न सन्ति । दर्पणप्रतिबिम्ब न्याय:
अभिप्रायमयं प्रमाणीकरोति । वयं दर्पणस्य पुरत: तिष्ठाम: चेत् अस्माभि: प्राप्यमानं प्रतिबिम्बं सत्यस्य विरुद्ध: भवति – वामभागं दक्षिणभागत्वेन, दक्षिणबागं वामबागत्वेन च दृश्यते ।

अभिज्ञान न्याय:
आढ्यत्वं(धनिकत्वं) दरिद्रत्वेन, दैर्घ्यम् ह्रस्वत्वेन, विद्वत्वम् निरक्षरतया, तथ्यम् (सत्यम्) असत्यत्वेन, सभ्यता असभ्यतया, सुन्दरता कुरूपतया, क्रूरता दयालुत्वेन, शुभ्र/श्वेत वर्ण: इतराणां वर्णानां साहाय्येन,
च एव वयं अभिज्ञातुं शक्नुम: । इयम् आवली अनन्ता/अनवरता/अतिदीर्घा भवति ।


अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – ३०/११/०८

All Happens for Good

॥ सर्वा: घटना: सर्वेषां क्षेमाय / हिताय /मङ्गलाय च भवन्ति ॥

कश्चन राजा आसीत् । एकदा मन्त्रिणा सह स: मृगया वनं गतवान् । तत्र, तस्य एका अङ्गुली
नष्टा जाता । तत् दृष्ट्वा मन्त्रिणा कथितं यत् अस्मिन् जगति सर्वं सर्वेषां हिताय एव भवतीति । एतत् श्रुत्वा कुपित: राजा मन्त्रिं कारागृहे क्षिपितवान् ।

बहूनां दिनानाम् अनन्तरं राजा पुन: एकवारं मृगयाय एकाकी अरण्यं गत: । तदा तत्रत्य वनवासिन:
राजानं बलिदानार्थं गृहीतवन्त: । स्नानादिकं कारयित्वा, तै: स: मन्दिरं प्रति नीत:, मुख्य-पुरोहितस्य
परिशीलनाय, बलिपीठे स्थापित: च ।

दीर्घसमयस्य प्रतीक्षाया: अनन्तरम् आगत: पुरोहित: राज्ञ: अङगहीनतां द्रूष्ट्वा, तं निराकृत्य तस्य विमोचनं कृतवान् च । ईश्वराय धन्यवादार्पणं कुर्वन् प्रासादं प्रति आगत: राजा पप्रथमं साक्षात् कारागृहं गतवान्, मन्त्रिण: क्षमायाचनं कृत्वा तस्य विमोचनम् अपि आदिष्टवान् ।

मन्त्री न केवलं राजनि कोपं न प्रकटितवान्, प्रत्युत: स: महाराजाय पुन: धन्यवादार्पणं दत्तवान् ।
तेन उक्तं यत्, यदि राजा तं कारागृहे न अक्षिपिष्यत्, तर्हि राज्ञा सह द्वितीय वारं स: अपि मृगयाय अगमिष्यत्, यदा वनवासिन: अङगहीनरहिर्तं तं निश्चयेन अगृहिष्यन्, बलिदानं अकरिष्यन् च ।

कथासारम् अस्ति यत् यदपि घट्यते, तत् सर्वेषां क्षेमाय/हिताय/ मङ्गलाय एव, इति

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै, २७/११/०८

अन्गुलीनां मध्ये समरम्

अन्गुलीनां मध्ये समरम्

यथा पञ्चेन्द्रियाणां मध्ये चर्चा अभूत्, तथैव हस्तस्था: अन्गुलीनां मध्ये अपि एकदा मानव शरीरस्य व्यवहारे का अधिकं महत्वं वहति इति चर्चा अभूत् ।

) अङ्गुष्ठया उक्तं सा एव मुख्यत्वं वहति, यत: न केवलं सा आकारेण स्थूला, अपि तु तया विना मानव: किमपि लिखितुम् उत दृढतया गृहीतुं च न शक्नोति इति ।
) तर्जन्या उपस्थापितं यत्, अस्मिन् जगति सूचनाद्वारा अभिज्ञानार्थं तस्या: साहाय्यम् अनिवार्यं भवति । अन्यच्छ, यथा तस्या: नाम सूचयति, मानव: तां तर्जनशस्त्र रूपेण अपि उपयोगं करोति । अर्थात् मानव: तस्या; दर्शनात् एव भिभेति ।
) माध्यमा उक्तवती सा उन्नतमा, अत: सा एव सर्वासां अपेक्षया महत्वम् अर्हति ।
) अनामिकया समर्पितं, मानव: त्ताम् अमूल्य वज्र युक्तानि अङ्गुलीयकानि भूषयति,
अत: तस्य मनसि सा एव श्रेष्टा इति ।
) सा न केवलं वामना, कृशा च, अपि तु मानवस्य व्यवहारे तस्या: कापि भूमिका न
वति इति विचिन्त्य् कनिष्ठा नम्रतया तूष्णीं उपविशन्ती किमपि न अभाषत । तस्या: दीन परिस्थितीं विनयशीलतां च दृष्ट्वा, स्वयम् ईश्वर: तस्या: कर्णे किमपि रहस्यतया उक्तवान् । तदनन्तरं सहसैव कनिष्टिका उत्थाय अवदत् यत्,यदा यदा मानव: ईश्वरं बद्धाञ्जल्या नमस्करोति, तदा सा एव इतराणाम् अन्गुलीनाम् अपेक्षया ईश्वरस्य समीपे वर्तते इति (तस्यै एव ईश्वरसान्निद्यं लभ्यते) अत: सा एव श्रेष्ठा इति सर्वाभि: अङ्कीकरणीयम् इति । एतत् श्रुत्वा अपरा: अन्गुल्य: मूका: अभवन् ।

नम्रता न केवलम् भूषणं, अपि तु नम्रतया वयम् अस्मिन् जगति किमपि आसाधितुं शक्नुम: इति अस्य कथाया: सारं भवति ।

अय्यर् सुब्रह्मणिय:, कलेन्डा कोम्मन्, कलिफोर्णिया, २१/१०/०८

Tragic Incident

मुम्बै मिरर् इति नामक्या: दिनपत्रिकात: उद्रुता – वास्तविक्या:
घटनाया: विवरणम्
केरलस्थे मलप्पुरं प्रदेशे घटिता घटना एषा । अनुजस्य लक्ष्मणस्य विवाहार्थं ज्येष्ठः सहोदर: केशव: आगतवान् । कश्चित् कार्यार्थं स: पाकशालाद्वारा गच्छन् आसीत् । केरलराज्ये,अनतिपूर्वकाले भूमे: खननं कृत्वा कुट्टिमस्तरे (floor level) एव चुल्ल्या: स्थापनं भवति स्म । महानसे, गमनसमये, केशव: अनवधानकारणत: कुट्टिमे पतिते दग्धमाने काष्ठे स्खलित्वा कुट्टिमस्थरे विध्यमानस्य काष्ठ् चुल्ल्यां स्थापिते, पाद-द्वयस्य यावत् व्यासस्य विस्तीर्णे बृहद् पात्रे क्वथितमानस्य (boiling) क्वथिते (sAmbAr) अपतत् | बहि: आगन्तुम् अशक्य:/ अशक्त: स: क्वथितमाने क्वथिते एव मज्जित:
सर्वे जना: उपरि विध्यमाने सभाग्रूहे प्रवर्तमाने विवाहकार्यक्रमे व्यस्ता:/ रता: आसन्, इत्यत: केशवस्य क्रन्दनं केष्वपि श्रुतिपदे न पतितम् । उचिते समये, साहाय्यस्य अभावात क्वथितमानस्य क्वथितेन सह वराकस्य केशवस्य शरीरम् अपि क्वथितं, स: पञ्चत्वं प्राप्तवान् च
एतादृशं दुर्मरणंप्रति / दुर्मरणवृत्तम् अद्यावधि मया न श्रुतम् एव ।

अय्यर् सुब्रह्मणिय:ळ्, फ्रीमाण्ड्, कलिफोर्णिया, अक्टूबर् ७, २००८

धन्यवादार्पणम्

धन्यवादार्पणम्
श्री गुरुभ्यो नम: महासरस्वत्यै नम:
॥ सरस्वती नमस्तुभ्यं वरदे कामरूपिणि, संस्कृताद्ययनं करिष्यामि सिद्धिर्भवतु मे सदा ॥

नवरात्री पर्वे सर्वेभ्य: मम शुभाशया: । बहव: न जानन्ति यत्, आङ्ग्लेयानाम् आक्रमणात् पूर्वं, संस्कृतं भारतराष्ट्रस्य दैनन्दिनीया् व्यावहारिका भाषा आसीत् इति । भारतं नामकस्य रथस्य चक्रद्वयम् अस्ति - संस्कृतम्, संस्कृति: च । संस्कृति: इत्यस्य शब्दस्य अनुवाद: Culture इति आङ्गलभाषायं, कलाचारम् इति तामिल् भाषायां वर्तते, परन्तु वयं वदाम: आचार-विचारे सभ्यता इति । एतयो: उभयो: परस्परं गाढं संबद्धं परिगण्य,चतुर:आङ्गलेय: मेकालेय् “महाभाग:” विद्यालयस्तरीया; पाठ्यपद्धत्यात: संस्कृतस्य निष्कासनं कारयित्वा, तस्मिन् स्थाने आङ्गल भाषाया: स्थापनम् अपि कृतवान् । अस्मिन् रीत्या संस्कृतस्य, संस्कृते: च कालक्रमेण नाशं भवति इति तस्य स्वप्नं आसीत् । परं, तदा न अभवत्, शतानां वर्षाणामनन्तरमपि उभयेऽपि इदानीं सजीवा स्त:, केवलं संभाषणद्वारा, कारणं संभाषणं सर्वासां भाषाणाम् अपि जीवनाडी वर्तते । अत: एव अस्माभि: संभाषणाय प्रामुख्यं / प्राधान्यं दातव्य्म् ॥
स्नातकोत्तर-पदवीधरा: अपि संस्कृतेन वक्तुं काठिन्यम् अनुभवन्ति इति श्रूयते । नाम, स्नातकोत्तर-पदवी, संभाषणाय प्रत्यभुतिं / प्रत्ययं (guarantee) न ददाति । धाराप्रवाह संभाषणकौशल्याय, केवलं व्याकरणस्य ज्ञानं पर्याप्तं न भवति, शब्दसङ्ग्र-हस्य (vocabulary), अभ्यासम् अपि आवश्यकम् । एतत् कथं साध्यं भवति, इति प्रश्न: उद्भूयते ।
एतस्य कृते, प्रथमं सोपानं भवति चिन्तनम् । संस्कृतभारत्या: सर्वेषणानुसारं भारतीय भाषासु षष्टि प्रतिशतं (६०%) संस्कृपदानि सन्ति – नाम अज्ञात्वा एव वयं
प्रतिक्षणं संस्कृतेन व्यवहराम: । अत: एव संस्कृतेन अथवा मातृभाषया चिन्तनं कृतं चेत्, अधिकाधिका: संस्कृतशब्दा: अस्माकं स्मृतिपदे आयान्ति, कालक्रमेण आत्मविश्वासम् अपि जनयति/वर्धते इति वक्तुं शक्नुम: ॥

द्वितीयं पदं भवति, शब्दसंङ्ग्रहणं, यत् संभाषण-सन्देशस्थे बालमोदिनि, पञ्चतंत्र कथा: सदृशानां लघु पुस्तकेभ्य: आरभ्य संस्कृत- पुस्तकानां नियमित पठनद्वारा एव प्राप्यते ।
तृतीयं पदं वर्तते, गृहत: आरभ्य सर्वत्र संस्कृत वातावरणस्य निर्माणम् । वयं जानीम: यत् शिशव:, विना उपकरणानि, गृहस्थे मातृभाषाया: वातावरणे, तां भाषां सुलभतया अव/अधिगच्छन्ति । तथैव नियमित साप्ताहिक मेलनद्वारा वयं छात्रा: अपि, संस्कृत वातावरणे संस्कृतज्ञा्नस्य वर्धनं कर्तुं शक्नुम: ।
यथा पर्याप्त धनेन विना, अस्माकं वित्तकोषस्य लेखात: धनं प्रत्याहर्तुं न शक्नुम: तथैव, पर्याप्त शब्द-सङ्ग्रहणं विना, वयं संभाषण-समये, अस्माकं मस्थिष्क-नामकस्य शब्दकोषात्, पर्याप्त शब्दसङ्ग्रहणेन विना शब्दान् प्रत्याहर्तुं न शक्नुम: । एतस्य स्वप्नस्य साकारार्थ प्रतिदिनं संस्कृताय, पर्याप्त समयव्ययम्, किञ्चित्त् सुख-त्यागम्, दृढसंकल्पं च आवश्यका: । एवं विधेन कष्टकार्यम् अपि सुलभसाध्यं भवति इति मम अनुभव: । एकं सुभाषितं वदति यत्, “उध्यमम्, साहसम्, धैर्यम्, बुद्धी शक्ति पराक्रम: षडेते यत्र वर्तन्ते, तत्र दैवी सहायकृत्” इति ।
दिलीप: पृष्टवान्, इत:परम् अस्माभि: किं करणीयम् इति । पत्रालयद्वारा स्वाद्यायाय प्रवेश:, परिचय:, शिक्षा, कोविद: इति चत्वार: भागानां पुस्त्कानि सन्ति । एतेषु, आत्मनेपदि, कर्तरि /कर्मणि / भावे प्रयोगा:, तव्यत्, अनीयर्, शत्रन्त,, शानच् कृदन्ता:, सन्धि:, समास: इत्यादी: बहव: पाठा: सन्ति । शिक्षक: न प्राप्यते चेदपि, इदं स्वाद्यायं साप्ताहिक-मेलनद्वारा अपि कर्तुं शक्नोति ।
प्रति साप्ताहिक-मेलने,एक: छात्र: संभाषण-सन्देशस्थे बाल मोदिनी किंवा पञ्चतन्त्र-कथात: एकं पाठं स्वीकृत्य, गृहे सम्यक् अधीत्य(पठित्वा) वर्गे पाठयेत् । एवं रीत्या न केवलं शब्दसङ्ग्रहणम्, अपि तु आत्मविश्वासं, शिक्षणाभ्यासम् अपि भवति युगपत् व्यक्तिगतरीत्या अपि, अस्माकं परिसरस्थे जनानां कृते साप्ताहान्त-शिबिरस्य आयोजनं कृत्वा, संस्कृतस्य प्रचारं कुर्म: च । अत: अस्मिन् शुभमुहूर्ते एव वयम् अस्माकं लक्ष्यं प्रति सराम: ।
॥ जयतु संस्कृतम्, लसतु संस्कृतम् ॥
अय्यर् सुब्रह्मणिय:, फ्रीमोण्ड्, अक्टूबर् ५, २००८

राजगोपुरम्

राजगोपुरम्

कर्णटक राज्य्स्थे, एकस्मिन् समुद्रतीरे विद्यमानस्य मुरुदेश्वर् मन्दिरे इदानीं भारत संस्कृत्या: महाकायम् एकं चिह्नं राजगोपुर रूपेण विराजते । प्राय: २४९ पाद औन्नत्य गोपुरमिदम्, आश्या खण्डे उन्नतमम् इति श्रूयते । एतस्य प्रकल्पस्य प्रचोदक:, शेट्टी महोदय: वदति यत्, अस्मिन् गोपुरे भूतल सहितं २१ अट्टालिका: (floors)सन्तीति । भारतदेशे इदम् एकमेव गोपुरं वर्तते, यत्र भक्तजना: उन्नयिन्या / उद्वाहिन्या शिखरं पर्यन्तं गन्तुं शक्नुवन्ति ।
एतस्य गोपुरस्य निर्माणं १९९० तमे वर्षे आरभ्दम् । एतेषु सर्वेषु अट्टालिकेषु अपि एतिहासिक , पौराणिक, मत संबद्धितानां ग्रन्थालयानां निर्माणाय शेट्टी महोदयस्य कल्पना वर्तते ।

अस्य मन्दिरस्य पृष्ठ भागे, १२३ पाद औन्नत्यस्य शिवस्य मूर्त्ते: दृश्यं विस्मयजनकम् अस्ति । अत्रत्य बृहद् द्वारं, मानवेषु निभृतस्य / गुप्तस्य अहंकारस्य, दर्पस्य च प्रतीक: इव दृश्यते इति तत्रत्य जना: कथयन्ति ॥

॥ जयतु संस्कृतम्, लसतु संस्कृतम् ॥

अय्यर् सुब्रह्मणियम्, फ्रीमोण्ड्, कलिफोर्णिया, १८/ ९/ ०८

Beggar and Pot of Gold

दूरदर्शनात् प्राप्ता इतोपि एकस्या: कथाया: संस्कृतानुवाद:

मार्गे तिष्ठन्तीं व्यक्तिं दृष्ट्वा अमुक: जन: पृष्ठवान्, "कथं वा भवान् वृक्ष: इव एकस्मिन् एव स्थाने तिष्ठति" इति । उत्तरं प्राप्तं यत्, तरव: मानवानाम् अपेक्षया श्लाघनीया: यत: ते अन्यत्र न गत्वा एकस्मिन् एव स्थाने तिष्ठन्, इतरान् न पीडयन्, स्वजीवनं यापयन्त: सन्ति इति । प्रत्युत: अस्माभि: स्वजीवनार्थम् न केवलम् इतस्तत: प्रतिक्षणं भ्रमणं करणीयं भवति, अपि तु वयम् इतरान् पीडयाम: च । एतत् श्रुत्वा द्वितीय तेन श्रुताम् एकां घटनां विस्तृतवान् ।

एक: भिक्षुक: आसीत्, य:प्रतिदिनं मन्दिरस्य पुरत:पादप:/वृक्ष:इव एकस्मिन् एव स्थाने स्थित्वा भिक्षयति स्म । स:मुखेन भिक्षां याचित्वा जनान् कथापि न डयति स्म, अत: एव जना: तं मूकम् इति विचिन्त्य स्वेच्छया तस्य स्थाल्यां धनं क्षिपन्ति स्म । बहूनां दिनानाम् अनन्तरम् स: वृद्धावस्थां संप्राप्य, पञ्चत्वं अपि प्राप्तवान् । अत्रान्तरे, स:लोकप्रिय:अभूत् । परेध्यु: तस्मिन् स्थाने, भिक्षुकम् अदृष्ट्वा जना: चिन्तामग्ना: जाता: । अनन्तरं तस्य मरणवार्तां श्रुत्वा, व्याकुला: अभवन् च । यदा यदा जना: तेन मार्गेण गच्छन्ति स्म, तदा भिक्षुकस्य अनुपस्थिति: तेषु मन:क्ल्लेशं(मनसि क्लेशम्) जनयति स्म
एकस्मिन् दिने तस्य शुभचिन्तका: दिवंगताय भिक्षुकाय तस्मिन् स्थाने एकं स्मृतिचिन्हं स्थापयितुं निर्णयंकृत्वा,सत्वरं तदर्थं धनसङ्ग्रहणमपि कृतवन्त:। यदा खननकार्यम् आरब्दं, तदा तस्यां भूमौ तेषां दृष्टिगोचरे एक: घट: आगत:, तस्य उद्घाटनस्य अनन्तरं तस्मिन् घटे विपुला: सुवर्णमुद्रा: प्राप्ता: च ।
यदा विस्मयाविष्ठा: जना: चर्चां कुर्वन्त: आसन्, तदा मार्गे गच्छन् अमुक: साधु: तत्रत्य जनव्यूहं दृष्टवान् । कुतूहलेन प्रेरित: स:, तत्र आगत्य प्रश्नां कृतवान् च । प्रवृत्तां घटनां श्रुत्वा स:अद्यात्मवादी विज्ञ: घटस्य आत्मना सह तुलनां कृत्वा एकं लघु उपन्यासम्/प्रव्भाषणम् एव दत्तवान् । तस्य आशय: आसीत् यत्, यथा भूमौ स्थित: सुवर्णपूरितं घटं खनननन्तरम् अस्माकं दृष्टिगोचरे आगत: तथैव ध्यानद्वारा अन्वेषनानन्तरं वयम् अस्मासु गुप्तम् आत्मानम् अपि प्राप्तुं शक्नुम: इति
॥ जयतु संस्कृतम्, लसतु संस्कृतम् ॥

अय्यर् सुब्रह्मणिय:, फ्रीमोण्ड्, कलिफोर्णिया- २०/८/२००८

Tiger, Bear and Hunter

दूरदर्शनकार्यक्रमत: एकस्या: कथाया: संस्कृतानुवाद:

एक: व्याध: मृगयाय अरण्यं गतवान् । तदा एक: व्याघ्र: तं मारयितुं धावन् आगत: । भीत: व्याध: अपि झटिति स्वयं रक्षणार्थं समीपस्थं महाद्रुमम् आरूढ्वान् । यदा स: वृक्षस्य उपरि प्राप्तवान्, तदा तत्रत्य शाखायां तूष्णीम् उपविष्ठवन्तम् एकं भल्लूकं दृष्ठवान् । अध:तु व्याघ्र: तस्य प्रतीक्षां कुर्वन् आसीत्, उपरि भल्लूक: च | स्वस्य त्रिशङ्कु-स्तिथिं विचिन्त्य स: मृगयु: इतोपि भीत: अभवत् । बुभुक्षित: व्याघ्र: भल्लूकम् उक्तवान् यत्, व्याध: आवयो: जन्मवैरी भवति, अत: तं वृक्षत: पातय, अथवा स: त्वमपि मारयति इति परन्तु, स: भल्लूक: दयालू,धार्मिक: च आसीत् इति दृश्यते - स: उक्तवान्,अतिथि: पूजनीय:, अत अस्माभि: स: कदापि न वञ्चनीय: इति । अनन्तरं यदा भल्लूक: निद्रां गतवान्, तदा् व्याग्र: व्याधम् उक्तवान् "अहो व्याध, यदि भवान् स्वपन्तं भल्लूकम् अध: पातयति, तर्हि अहं भवन्तं न मारयामि, यत: भवान् स्वतन्त्रतया गृहं गन्तुं शक्नोति, अत: भवता एतत् सुवर्णं सन्दर्भं न त्त्यक्तव्यम्" इति । एतत् श्रुत्वा चापल्याविष्ठ: स्वार्थी मृगयु: मानवगुणानुसारं यदा स्वपन्तं भल्लूकम् अध: क्षिप्तुम्/ क्षिपितुम् उद्युक्तवान्, तदा भल्लूक: जागरूक: भूत्वा आत्मरक्षणम् अकरोत् । एतत् दृष्ट्वा आशाभङ्गित: व्याघ्र: मनुष्य: विश्वसनीय: न भवति इति मया पूर्वमेव उक्तम्, अत: कथं वा भवान् तं विश्वासघातकं इतोपि न पातयति इति पुन: पृष्टवान् । इदानीम् कृपालू भल्लूक: मनुष्या: इव अस्माभि: मृगै: न कदापि अधर्मकार्यं करणीयम् इति वदन्, पुन: सधैर्यं निद्रां गतवान्

पुन: किम् अभवत् इति कथक: न उक्तवान्, अत: अस्माभि: एव अस्माकं कल्पनानुसारं शेषं चिन्तनीयम् । मनुष्य: मृगाणम् अपेक्षया कृतघ्न: विश्वासघातक: च इति वयं वदाम: चेत्, तत्र अतिशयोक्ति: न भवेत् / भवति ॥

॥जयतु संस्कृतम्, लसतु संस्कृतम् ॥
अय्यर् सुब्रह्मणिय: – फ्रीमाण्ड्, अमेरिका – १०/८/२००८

Stunted Growth

दूरदर्शनस्य “सण् इत्यस्य नामकस्य तमिळ् प्रणाल्यां (channel) “अरट्टै अरङकम्” इति एक: साप्ताहिक: कार्यक्रम: प्रचलति, यत्र अमुके विषये गणद्वयो: मध्ये चर्चा भवति । तदा तदा आश्चर्यदायका;/विस्मय-
कारका: वास्तविका: विषया: अपि अस्मिन् कार्यक्रमे प्रसार्यन्ते ।

२७/६/०८ तमे दिनाङ्के प्रात: एतादृशी विशेष-कार्यक्रमे श्रीलडकायां जाता एका बालिका वेदिकायाम् आनीता । जन्मनि एतस्या: विलक्षणातां दृष्ट्वा पितृभ्यां सा त्यक्ता, भारत-देशस्थे पितामहस्य गृहम्प्रति प्रेषिता च । किञ्चित् कालानन्तरं वृद्धावस्थां प्राप्त: पितामह: तां बालिकाम् एकस्मिन्
अनाथशिशुभवने स्थापितवान् ।

यद्यपि एषा बालिका इदानीं १४ वर्षीया वर्तते, कस्याश्चित् नैसर्गिकी न्यूनता कारणत:, तस्या: शरीरे तावत् वृद्धि: नास्ति, परन्तु वदने १४ वर्षाणां प्रवृद्धता दृश्यते । मस्तिष्कमपि सुष्ठु वृद्धिं प्राप्नोत् इति भासते, कारणं सा स्पष्टतया, सार्थकतया च भाषणं करोति, सम्यक् गायति च । मातरम् एका वर्षीया बालिका इव तस्या: शारीरिक यष्ठि: वर्तते ।

सा उत्थातुम्, उपवेष्टुं च न शक्नोति, कारणं तस्या: अस्थित: मृदुलता न अपगता । नाम अस्माकम् अस्थिन: सदृशा काठिन्यता न प्राप्नोत् । अत: जना: तां जागरूकतया एव स्पर्शेयु: अथवा पिष्टकमिव तस्या: अस्थि: चूर्णायते इति भीति: अस्ति ।

सा सदैव शयनावस्थायां विध्यते । आवश्यकतानुसारं गृहे इतस्तत: कन्दुक: इव लुण्डनेन (rolling) एव गमनं करोति । दृश्यमयं वयं दूरदर्शने प्रत्यक्षतया दृष्टवन्त: । सा न केवलं स्वकीयां दिनचर्यां साहाय्यं विना कर्तुं शक्नोति, अपि तु इतराणां कनिष्ट शिशूनां अपि साहाय्यं कुर्वती अस्ति इति अनाथाश्रमस्य अधिकारिण: कथयन्ति ।

हन्त ! अस्या: बालिकाया: दुर्भाग्यम् । भगवत: सृष्टि: विलक्षणमेव । एतस्य प्रश्नस्य समाधानम् इहलोक-दृष्ट्या चिन्तयाम: चेत्, न प्राप्नुम:, परम् अध्यात्मिक-दृष्ट्या पश्याम: चेत् एकस्य सुभाषितस्य अनुसारं (सुभाषितानुसारम्) एषा परितापस्थिति: तस्या: बालिकाया: पूर्वजन्मकर्मस्य फलमेव इति एव वक्तव्यम् ॥ सुभाषितं कथ्यते, “यथा धेनुसहस्रेषु वत्सो विन्दति मातरं, तथा पूर्व जन्म कृतं पापं कर्तराम् अनुगच्छति”

अय्यर् सुब्रह्मण्यम्, फ्रीमोण्ड्, अमेरिका – २७/६/२००८

Shibira Vrittantam - 2

द्वादशकं शिबिर वृत्तम्

चेम्बूरस्थे शृङ्गेरमठ्स्य आश्रये, श्री वैद्यलिङ्गं महोदयस्य साहाय्येन, भारतदेशस्थं मम षष्ठं दशदिनात्मकं शिबिरं, विगतस्य वर्षस्य अन्तिमेषु दश दिनेषु (नाम डिसेम्बर् २२ तम: दिनाकत: ३१ तमं दिनाङ्कपर्यन्तं) प्राचलत् ।

यद्यपि प्रथमे दिने १३ संस्कृतार्थिन: आगतवन्त:, अन्तिमे दिने १० सहभागिन: एव आसन्। । एते श्रद्धालव: विद्यार्थिन:, (ये प्रतिदिनम् आगच्छन्ति स्म), अर्थपूर्णान् प्रश्नान् पृच्छन्ति स्म । भागगृहीतृषु, ५ महिला:, ५ पुरुषा: च आसन् । शिबिरस्य अनन्तरं सर्वे १त:-१००पर्यन्तं संख्ह्या:, समय:, दिनचर्या च संस्कृतेन स्पष्टतया आत्मविश्वासेन च वक्तुं शक्नुवन्ति । प्रथमे दिनद्वये एका बालिका अपि आगतवती, परं विरामस्य अनन्तरस्य परीक्षाया: सिद्धता करणीया इत्यस्य कारणत: अनन्तरं सा वर्गं त्यक्तवती ।

शिबिरस्य समापनदिने वैद्यलिङ्गं महोदयेन सह, शृङ्गेरि मठस्य संस्कृत ग्रन्थालयस्य निर्वाहक:, श्री रामचन्द्रन् महोदय: अपि वेदिकाम् अलङ्कृतवान् । सहभागिन: (छात्रा:) लघु शब्दकोशम्, व्यवहार साहस्री, चित्रपदकोश:, अभ्यासपुस्तकम्, पञ्चतन्त्र कथा: इत्यादीनि पुस्तकानि क्रेतुम् इष्टवन्त: । प्राय: इदानीं एतानि पुस्तकानि अत्र समये न उपलभ्यन्ते इत्यस्य कारणत: अहं साक्षात् बङ्गलूरुरस्थे संस्कृत भारती्कार्यालयत: प्राप्तुं सङ्कणकद्वारा आयोजनं कृतवान् ।

शिबिरस्य समापनस्य समनन्तरमेव, परेद्यु: (नाम जनवरी प्रथम दिनाङ्गत) साप्ताहिक मेलन वर्गस्य आरम्भमपि कृतम् । अस्मिन् मेलने संभाषणाभ्यासमपि भवति । वैद्यलिङ्गं महोदयाय कृतज्ञतार्पणेन सह अहं इदं वृत्तम् अत्र समापयामि ।

यदा अहं द्विवारं – २००६ तमे वर्षे, २००८ तमे वर्षे च - प्रवासाय अमेरिका देशे आसम्, तदा क्यालिफोर्णिया राज्यस्य फ्रीमोण्ड् इति नामके नगरे आहत्य ६ शिबिराणि, प्रथमदीक्षाया:, द्वितीय दीक्षाया: वर्गान् च चालितवान् । भारतदेशेऽपि अद्यावदि ६ शिबिराणि, प्रथम दीक्षाया: वर्गद्वयमपि चालितवान् । आहत्य विगते वर्षद्वये द्वादशकानि शिबिराणि मया चालितानि । वाणी देव्या: आशिषा, मुम्बैस्थे संस्कृत भारत्या: कार्यकर्तॄणां, संस्कृतबन्धूनां साहाय्येन मार्गदर्शनेन च एव एतत् संस्कृतसेवा साधिता इति अहं मन्ये ।

॥ संस्कृतमातु: सेवायां - अय्यर् सुब्रमणियम्, चेम्बुर्, मुम्बै ४०००७१ – १/१/२००९ ॥

विचित्रं दण्डनम्

विचित्रं दण्डनम्

एकदा एक: मानव: विनाकारणं सारमेयंप्रति शिलाखण्डं न्यक्षिपत् । वयं सर्वे
जानीम:यत् यदा शुनक: शिलाखण्डं च युगपत् दृश्येते, मानव: स्वभावदोषेण कुक्कुरं
शिलाखण्डेन ताडयतीति । दु:खित: श्वान: ईश्वरं प्रति स्वकीयं व्यसनं आक्षेपरूपेण
निवेदित्वा न्यायं प्रार्थितवान् च ।विधाता यदाविधि मानवं आहूय सम्यक् विचारणं
अकरोत् । मानवेन उक्तं यत् तस्य भोजनसमये, शुनक: तस्स् स्थालिकांप्रति एव
पश्यन् आसीत्, अत: एव कोपेन मया तथा कृतम् इति । परन्तु, भगवता पृष्ठं यत् किमर्थं
कुक्कुराय लवलेशमपि न दत्वा स्वयमेव सर्वं खादितम् इति । अत: एतस्य अमानुष्य
व्यवहाराय तेन उचितं दण्डनम् अनुभूतव्यम् । इदानीम् ईश्वर: शुनकं पृष्ठवान् मानवाय
किं दण्डनं दातव्यम् इति । सारमेयेन उक्तम् अयं मानवं भवान् भुवि कस्मिन्नपि आढ्य
मन्दिरे धनाधिकारिस्थाने नियोजयतु इति । भगवता पृष्ठं किमर्थम् एवं विचित्रस्य दण्डनस्य
उपस्थापनं करोति इति । शुनकेन उत्तरितम् “अहं स्वयं पूर्वजन्मनि एकस्मिन् देवालये
कोषाधिकारि आसम्, तत्र मया कृतम् अधर्माचरण कारणत: एव अस्मिन् अवतारे शुनकरूपेण जनितवान् ” इति |

शेषं चिन्त्यम् ।


अय्यर् सुब्रहमणिय: चेम्बूर्, मुम्बै – १२/१०/२००९

विधिरहो महान्

विधिरहो महान्

पूर्णमास गर्भिण्या पत्न्या सह अमुक: बीहार् प्रान्ते कुत्रापि रेल्यानेन रुग्णालयं प्रति
गच्छति स्म । रात्रौ प्राय:११ वादनसमये, यदा सहप्रवासिन: निद्रावस्थायां आसन्, तदा
एषा महिला यानपेटिकाया: शौचालयं गतवती, प्रसाधनसमये युगपत् शिशो: प्रसूति:
अपि अभवत् । किं जातं इति ज्ञानात् पूर्वमेव, शिशु: चलत: रेल्यानस्य शौचालस्य
बिलद्वारा अधस्थने रेल्मार्गे पतित: च । प्रज्ञां प्राप्ता माता घटनां अवगम्य,यदा शिशो:
अनुपस्थितिं लक्षितवती, तदा रेल्यानं इतोऽपि १ किलोमीटेर् अग्रे गतम् आसीत् । किंकर्तव्य-
मूढतया बाधिता सा माता क्षिप्रं/द्रुतगत्या् प्रसाधनत: बहि: आगत्य, धावन्ती एव यान-
पेटिकाया: प्रवेशद्वारं उद्घाट्य चलत: रेल्यानत: अन्तरे कूर्दितवती, रेल्मार्गे पतिता च ।
आरवारं श्रुत्वा यदा सहयात्रिण: निद्रात् उत्थितवन्त:, तदा ते पेटिकाया: उद्घाटितं द्वारं
गर्भिण्या: अनुपऽस्थितिं च लक्षितवन्त: । सा आत्महत्या कृता स्यात् इति विचिन्त्य, ते
यदा रेल्यानस्य स्थगनाय शृङ्खलां कर्षितवन्त: किञ्चित् दूरं गत्वा रेल्यानं स्थगितम् । सर्वे
अध: अवरुह्य इतस्तत: अन्वेषणं कृतवन्त:, १०/१५ निमेषानन्तरं तत्र रेल्मार्गे मातु: क्रोडे
स्तनपानं कुर्वन्तं शिशुं दृष्ट्वा आश्चर्यचकिता: अभवन् । अनन्तरं मातरं शिशुं च तत: नीत्वा,
समीपस्थे रेल्वे रुग्णालये प्रवेशनं कारितवन्त: च । तत्र उभयोऽपि सद्य कुशलपरिस्थित्यां
वर्तेते इति वार्तापत्रा: कथ्यन्ते । मात्रा प्रकृत्या: लीलावोनोदा: विचित्रा:अविश्वास्या: एव ।

अय्यर् सुब्रह्मणियम्, चेम्बूर्, मुम्बै – १०/१०/।०९

सम्भाषणशिबिरवृत्तम्

सम्भाषणशिबिरवृत्तम् –(१०/५/०९ त: २०/५/०९ पर्यन्तम्)

मुम्बै नगरर्स्थे, चेम्बूर् उपनगरे, मे मासस्य दशमदिनाङ्कत: २० तम-
दिनाङ्कपर्यन्तं संस्कृतसम्भाषणशिबिरं प्राचलत् । अय्यर् सुब्रह्मणिय:
शिबिरमिदं सञ्चालितवान् । शिबिरस्य समापनकार्यक्रमे श्री वैद्यलिङ्गम्
महोदय: मार्गदर्शनम् अकरोत् । संस्कृताध्ययनस्य प्रशस्तिं कुर्वन्, स:
संस्कृतभाषाया: पुरोगमनाय सम्भाषणस्य आवश्यकता अस्तीति उक्तवान् ।

तत्र संस्कृतभारत्या: मुम्बै महानगरस्य संयोजक:, श्री मितेश् कतीरा महोदय:
मुख्याति्थि: आसीत् । तेन - शिबिरस्य अनन्तरं, साप्ताहिकमेलनस्य अत्याव-
श्यकता, पत्रालयद्वारा संस्कृतस्वाध्यायाय सौकर्यं, सम्भाषणसन्देश सदृशानां
पुस्तकानां पठनस्य् प्रयोजनं, संस्कृतभाषाया: प्रचारम् अस्माकं कर्तव्यम् -,
इत्यादी: विषया: उपस्थापिता: । संस्कृतभारत्या: नूतन पाठ्यपद्धत्यानुसारं
अचिरादेव, भगवद्गीताद्वारा संस्कृतपाठनम् आरभ्यते इत्यपि तेन सूचितम् ।
सम्भाषणमेव सर्वासां भाषाणां जीवनाडी वर्तते इति सोऽपि उक्तवान् । संस्कृतस्य
भविष्यत् संस्कृतप्रेमिन: अस्मत् हस्ते एव विद्यते इत्यस्य सत्यस्य प्रतिपादनाय स: ज्योतिषविषयकाम् एकां लघु कथां कथित्वा तस्य भाषणस्य समापनं अकरोत् ।

शृङ्गेरिमठसंस्थया आयोजिते अस्मिन् शिबिरे, ५ महिला:, ८ पुरुषा: इति
आहत्य १३ सहभागिन: आसन् । छात्रेषु अन्यतमा, कुमारि सुधा सुन्दरं
कार्यक्रम- सूत्रचालनं कृतवती ।

अय्यर् सुब्रह्मणिय: - २१/ ५/ २००९

Sloka Contest

छात्राणां कृते संस्कृत श्लोकस्पर्धा
विगते रविवासरे ( ४-१-२००९) चेम्बूरस्थे P L Lokhande मार्गे विद्यमानस्य हरिहरपुत्र-भजन समाजं इति नामक्या संस्थया छात्राणां कृते संस्कृतश्लोकानां स्पर्धा आयोजिता आसीत् । तत्र १४ विद्यालयेभ्य: KG वर्गस्य ३० छात्रा: गुरुस्तोत्र्स्य, प्राथमिक/द्वितीय-वर्गस्य २४ छात्रा: कृष्णाष्ठकस्य, तृतीय/चतुर्थ वर्गस्य १४ छा्त्रा: गणपतिस्तवस्य, पञ्चम, षष्ठ, सप्तम वर्गीया: ४१ छात्रा: कालभैरवाष्टकस्य, अष्ठम, नवम, दशम वर्गस्य ४० छात्रा: मीनाक्षीपञ्चरत्नस्य च श्लोकान् उदाहृदवन्त: ।
प्रात: १० वादनत: रात्रौ ८ वादनपर्यन्तं प्राचलितायां अस्यां स्पर्धायां आहत्य १४० छात्रा: भागम् ऊढवन्त:, यत्र अहं न्यायाधीशरूपेण उपस्स्थितवान् । यद्यपि भूयिष्ट्भागा: छात्रा: श्लोकान् कण्ठस्थीकृत्य उदाहृतवन्त:, प्राय: संस्कृतभाषाया: अनभ्यासात् उच्छारणे केचन दोषा: आसन् । इमे दोषा:, ये शिशून् पाठितवन्त:, तेषाम् एव । किञ्चित् संस्कृतज्ञानेन सह, तेषाम् उच्छारणे परिष्कारम् आनेतुं शक्यते इति अहं मन्ये । अत: एव, स्पर्धाया: समापनस्य अनन्तरं यदा अहं तान् सम्बोधितवान्, तदा मया प्रोक्तं यत्, पप्रथमं एकं संभाषणशिबिरद्वारा संस्कृतभाषया सह तेषां परिचयं कारयित्वा, तदनन्तरं ते इच्छन्ति चेत्, अग्रे वर्गमपि चालयितुं शक्नोमि इति ।
येषु विद्यालयेषु इदानीं संस्कृताभ्यासं वर्तते, तेषां छात्रा: स्वपरिचयं संस्कृतेन एव कृतवन्त: सर्वेषु विद्यालयेषु संस्कृतभाषाया: पाठनं कृतं चेत् छात्राणां वर्धनेन सह भाषाया: एधनमपि जायते इति मम मतं तत्र उपस्थापितवान् ।
इत:पूर्वं चेम्बूर् उपनगरे एव विगते वर्षद्वये, भगवद्गीताया: स्पर्धायाम् अहं न्यायाधीशरूपेण उपस्तिथवान् । तत्रापि मया संस्कृतप्रचारस्य कार्यं कृतम् ।
जयतु संस्कृतम् – लसतु संस्क्रुतम्
अय्यर् सुब्रह्मणियम्, चेम्बूर्, मुम्बै ४०००७१ – जनवरि ६, २००९

-

धर्माचरणस्य फलम्

धर्माचरणस्य फलम्

प्राय:१९८५ तमे वर्षे, यदा अहं मुम्बैमध्ये उद्योगस्थ: आसं तदा घटित: तथ्या घटना एषा । प्रतिदिनमिव चेम्बूर् उपनगरत: प्रात: ८-२५ वादनस्य स्थानीय रेल्यानेन कार्यालयंप्रति गच्छन् आसम् । साधारणत: इव यानम् आरुह्य मम यानपेटिकाम् उपरि निधानिकायां संस्थाप्य, वातायनसमीपे उपविश्य वार्तापत्रिकां पठन्नेव अहं सुप्तवान् । रेल्यानं यदा अन्तिमं स्थानकं प्राप्तं, तदा कोऽपि सज्जन: मां उत्थापितवान् । तत्रान्तरे सर्वे प्रवासिन: अवरूढवन्त: । यदा मम यानपेटिकां उपरिष्ठात् निधानिकात् निष्कासितुं (गृह्णातुं) यतन् आसं, तदा तत्र अपरां यानपेटिकां दृष्ट्वा किंकर्तव्यसम्मूढताम् अनुभूतवान् । अन्तत: पेटिकाद्वयमपि स्वीकृत्य कार्यालयंप्रति पद्भ्यां गतवान् । रेल्स्थानत: बहि: आगमनपर्यन्तं, मम हस्तयो: पेटिकाद्वयं दृष्ट्वा आरक्षका: कदापि प्रश्नं पृच्छेयु: इति भीत्या, अहं यथाकथापि मुख्यमार्गं प्राप्तवान् । Victoria Terminus नामक अन्तिम रेल्स्थानकत: मम कार्यालयं पद्भ्यां २० कलानां दूरे आसीत् (अमेरिका देशे दूरस्य मापनं कार् यानम् एव प्रमाणीकरोति) ।
कार्यालयस्य प्राप्त्यानन्तरम् अहं यदा द्वितीयां पेटिकां उद्घाटितवान्, तदा तत: धनपत्राणां बन्धा: मांप्रति अक्षिक्षेपं कुर्वन्त: सन्त: /आसन् । अद्यावधि, मया न कदापि तावान् धनपत्र-बन्धा; न दृष्टा:, अत: दृश्यमयं मां भयाविष्ट: अकरोत् । यदा अहं मम अधिकारिणं धनपत्रबन्धा: सहित पेटिकांप्रति निवेदितवान्, स: कथं वा भवान् रेल्स्थानकस्थे आरक्षकालये द्वितीयां पेटिकां न समर्पितवानिति तर्जितवान् । यदि तथा अकरिष्यं, तर्हि कार्यालय आगमने विल्म्बम् अभविष्यत् इति भीत्या आरक्षकालयं न अग्च्छम् इति उत्तरितं मया ।
तदनन्तरं आवां तस्या: पेटिकाया: यजमानस्य दूरवाणी क्रमाङ्काय अन्वेषणं कृतवन्तौ । पेटिकात: प्राप्तस्य सङ्क्णकक्रमाङ्के तस्य सम्पर्कं न साधितम् । अन्तत: गत्वा ज्ञातं यत् स: मुस्लिम: एकस्य लघु यन्त्राकारस्य स्वामि: अस्ति, तस्य गृहं मुम्बैत: प्राय: १०० अर्धकोश(miles) दूरस्थे कल्याण् नगरे वर्तते च इति । मम अधिकारिण: उपदेशानुसारं मम मित्रेण सह, कार्यानेन अहं मध्यान्हे, पेटिकया सह कल्याण् नगरंप्रति प्रस्थितवान् । यदा सायङ्काले तत्र प्राप्तवन्तौ, तदा स: मुस्लिम: शुक्रवासर: इत्यत: यावनधर्ममन्दिरं गतवान् इति ज्ञातम् । किञ्चित् कालात् परं यदा स: आगत:, तदा स: सत्वरं मां प्रात:का्ले रेल्याने तेन दृष्ट: प्रवासी इति अभिज्ञातवान् । सर्वं व्यवस्थितं अस्ति वा पश्यतु इति वदन्, आवां तस्य हस्ते पेटिकां समर्पितवन्तौ । पेटिकां पार्श्वे स्थापयन्नेव स: उक्तवान् यत्- ”सज्जन: भवान् अद्य प्रात: रेल्याने मया विस्मृतां पेटिकां सुदूरत: आनेतुं कष्ठं स्वीकृतवान्, अत: पेटिकाया: परिशीलनं कृत्वा भवत: अवमानं कर्तुं न इच्छामि । किमपि धनं पेटिकायां अस्ति, तद् ह्य: एव अहं कर्मचारिणां वेतनाय वित्तकोशात् प्रत्याहृतवान् । धनविषये भवति(स्) मम संपूर्ण: विश्वास: अस्ति एव । मम समग्रा चिन्ता आसीत् पेटिकायां विद्यमानानां मम यन्त्रागार संबद्धितानां मुख्य पत्रकाणां(documents) विषये एव । यदा चेम्बूर्मध्ये अहं मम परिवारेण सह यानं प्रविष्टवान्, पप्रथमं वार्तापत्रं पठत: भवत: वदनम् एव मम दृष्टिगोचरे पतितम् । तत् दृश्यम् इतोपि मम पुरत: वर्तते । मम यानपेटिकाम् उपरि निधानिकायां स्थापनस्य आवश्यकता नासीत्, कारणं अग्रिमे रेल्स्थानके एव अवरूढ्य अपरेण यानेन कल्याण् प्रति गमनीयम् आसीत् । चेम्बूरत: यानस्य निर्गमनानन्तरं आवयो: शिशु: रोधनम् आरब्दवान्, अत: अहं द्वारं प्रति तं नीतवान्, युगपत् अग्रिमं स्थानम् अपि आगतम्, अहं परिवारेण सह मम पेटिकां याने विस्मृत्य अवरूढवान् च । तत: यानस्य निर्गमनानन्तरं एव स्मृतवान् यत्, मम पेटिका याने एव अस्तीति । सत्वरं तत्रत्य स्थानक रेल् आरक्षकालये आक्षेपं(complaint) समर्पितुं गतवान्, परं तेन उक्तं यत् अस्मिन् कलियुगे भुवि कोऽपि हरिश्चन्द्र: न वर्तते य: मार्गे प्राप्तानि अपरस्य वस्तूनि प्रत्यर्पयति । अत: पेटिकां कदापि न प्राप्स्यामि इत्येव चिन्तितवान् ”॥
एतां घटनां श्रुत्वा मम तदानीन्तनानि मित्राणि मां मूर्ख:, हरिश्चन्द्र: इत्यादीनि नामानि आहूय परिहासं कृतवन्त: । पेटिकात: धनेन एकं दूरदर्शनं क्रेतुं शक्यते भवान् इत्यपि सूचितवन्त: (तस्मिन् समये अस्माकं गृहे द्रदर्शनं न आसीत् ) । परं, अद्यावधि अहं न जानामि तस्यां पेटिकायां कति रूप्यकाणां बन्धा: आसन् इति ।
समनन्तरमेव, अपरा घटना घटिता । मम धर्मपत्नी, एकस्य विवाहकार्यक्रमार्थ
विशेष लोकयानेन गच्छन्ती आसीत् । कानिचन आभूषणानि धरित्वा, इतोपि अवशिष्टानि हस्तस्यूते एव स्थापितवती । यथा केचन हस्तस्यूतं कक्षाक्षे/भुजकोटरे(armpit)स्थापयति, प्राय: सापि तथैब कृतवती इति मन्ये । लोकयाने आरोहणसमये, तस्या: हस्तात् स्यूत: अध: स्थानके एव पतित: इति सा न जानाति स्म । (तस्मिन् हस्तस्यूते प्राय: ८/९ सुवर्णमुद्रा परिमितानि आभरणानि आसन् । अद्यतन सुवर्णस्य मूल्यानुसारं स्यूतस्थानाम् आभरणानां मूल्यं प्राय:रू-७०,००० यावत् भवेत्)। तस्या: लोकयाने आरोहणात्परं तत्रत्य बान्धवै: सह वार्तालापम् आरब्दम् । यदा सा् सभागृ्हं प्राप्तवती तदा एव स्यूतस्य चिन्तनम् आगतम् । सहसैव, कार्यानेन कैश्चन मित्रै: सह सा चेम्बूरस्थे लोकयानस्थानकं प्राप्य स्यूतस्य अन्वेषणं कुर्वती स्म । तदा कुत: अपि एक: सज्जन: तत्र आगत्य किम् अभवत् इति पृष्टवान् । घटनां श्रुत्वा स: मम पत्नीं समीपे विद्यमानं तस्य कुटीरं (hut) प्रति नीतवान्, स्यूतं प्रदर्शितवान् च । तेन उक्तं यत्, तस्य बालक: प्रात: लोकयानस्थानकस्य समीपे क्रीडनसमये तं स्यूतं दृष्टवान् आनीतवान् च । धन्यवादार्पणेन सह, यदा मम पत्नी बालकस्य हस्ते उपायनरूपेण रूप्यकाणि स्थापितुम् उद्युक्तवती, तदा सज्जन: पिता उपायनं निराकृतवान् ।
अस्मिन् सन्दर्भे, “यदा धेनुसहस्रेषु वत्सो विन्दति मातरं, तदा पूर्वकृतं कर्म कर्तारम् अनुगच्छति” इति समुचितं सुभाषितं स्मृतिपदे आयाति । अस्मिन् सुभाषिते, कर्म: इत्यस्य पदस्य अर्थ: पुण्यकर्म उत पापकर्म भवेत् ।

अय्यर् सुब्रह्मणियम्, कलेन्डा कम्मोन्, कलिफोर्णिया, २२/१०/०८

Dog and Man

कठोरमनस्क: मानव:

एकदा एक: मानव: विनाकारणं एकं सारमेयं शिलाखण्डं निक्षिप्य व्रणितवान् ।
दु:खित: शुनक: ईश्वरं प्रति स्वकीयं व्यसनं निवेदित्वा न्यायं प्रार्थित्वान् । महेश: यथाविधि
विचराणाय तं मनुष्यं आहूतवान् । मानवेन उक्तं यत् स: श्वान: तस्य भोजनसमये परिसरे
पौनपुन्येन आगत्य पीडितवान्, अत:गत्यन्तरंविना कोपात् तं पलायितुम् एवं करणीयं
आपतितम् । परन्तु भगवता पृष्ठं यत् तेन किमर्थं तस्मै वराकाय शुनकाय अतिथि: इति
मत्वा किञ्चिदपि न दत्वा,स्वयमेव सर्वं खादितम्, इति । अत: एतस्य अधर्माचरणाय
तेन निश्चयेन दण्डनम् अनुभवितव्यम् इति । अस्मिन् विषये शुनकस्य अभिप्राय: अपि
भगवता प्रष्ठ: । कुक्कुर: अवदत् यत् भवान् अयं मानवं भुवि एकस्मिन् आढ्यतमे
मन्दिरस्य धनकोषे दण्डनरूपेण नियोजयताम् इति । एतत् श्रुत्वा आश्चर्यचकित: ईश्वर:
सारमेयं किमर्थं भवान् एवं विचित्रं द्ण्डनं सूचितवान् इति । तदा श्वान: उत्तरितवान् यत्
स: स्वयं पूर्वजन्मनि एकस्मिन् मन्दिरे धनपाल: आसीत् । तत्र कृतम् अधर्माचरणस्य
कारणात्/फलत: एव इहजन्मनि शुनकरूपेण जात: इति । अत: एव अहम् उक्तवान् तं
मानवं भुवि एकस्मिन् मन्दिरे धनेश्वररूपेण नियोजयतु यत: सोऽपि अत्याचारं
कृत्वा शुनकरूपेण पुन:पृथ्वींप्रति प्रत्यागच्छेत् इति ।

अय्यर् सुब्रह्मण्य:, चेम्बूर्, मुम्बै – १९/९/२००९

Sambhashana Kaushalyam

संस्कृतभाषायां संभाषणसामर्थ्यप्राप्त्यर्थं केचन उपाया:

नमो नम:, अद्य दक्षिणभारतीय-जनानां नूतन-वर्ष: भवति । अस्मिन् शुभदिने तेभ्य: अस्माकं शुभाशया: विगते रविवासरे इन्दिरा महोदया पृष्टवती यत् सम्स्कृतेन संभाषणकौशल्यप्राप्त्यर्थं किं करणीयम् इति अस्मिन् विषये मम चिन्तनम् अत्र भवद्भि: सह भाजितुम् इच्छामि ।

संभाषणं भाषाया: जीवनाडी भवति इति विद्वांस: वदन्ति । अत: सम्भाषणेन/संभाषणं विना कापि भाषा चिरकालं जीवितुं न शक्नोति । उदाहरणार्थं तुलू भाषां स्वीकुर्म:, यस्या: लिपि: नास्ति, तथापि सा
संभाषणद्वारा अद्यापि सजीवा अस्ति ।

संभाषणस्य कृते सोपानस्य / निश्रेण्या: प्रथमं पदं भवति चिन्तनम् । आङ्गलभाषां विहाय वयं मातृभाषया एव चिन्तनं कुर्म: चेत्, न केवलम् अधिकाधिका संस्कृतशब्दा: अस्माकं स्मृतिपदे आयान्ति, अपि तु कालक्रमेण ज्ञायते यत् अवगमनेन विना वयं प्रतिदिनस्य व्यवहारे भूयिष्ट्भागेन संस्कृतशब्दान् एव उपयुज्याम: इति । वस्तुत: संस्कृतभारत्या: “Science in Sanskrit” इत्यस्य पुस्तकस्य प्रस्तावनानुसारम्,अस्माकं भारतीयानां कृते संस्कृतभाषा नूतना भाषा न, कारणं अस्मासु भाषासु ६० प्रतिशतं संस्कृतशब्दा: एव वर्तन्ते । नाम, वस्तुत: न(अ)जानन् एव वयं जन्मप्रभृति अस्माकं दैनन्दिनीये व्यवहारे भूयिष्ट-भागेन संस्कृतशब्दानाम् उपयोगं कुर्वन्त: स्म: । अस्य ज्ञानेन अस्मान् संस्कृताध्ययनं सुलभं भवति इति मन्ये ॥

द्वितीयं पदं भवति शब्दसङ्ग्रहणं (vocabulary build up), यत् पुस्तक पठनद्वारा, दूरदर्शनवार्ताया: श्रवणद्वारा एव शक्यम् । नियमतया लघु बालमोदिनि सदृशेभ्य: पुस्तकेभ्य: आरभ्य संस्कृतपुस्तकानां पठनम्, दूरदर्शने संस्कृतवार्ताया: श्रवणं, सह्पाठिभि: सह संस्कृतमाद्यमेन संभाषणम् – एते शब्द सङ्ग्रहणाय उपकरणानि भवन्ति । दोषा: भवन्ति एव, तथापि निर्लज्जया व्यवहरणीयम् ।

तृतीयं पदं सम्स्कृतवातावरणस्य निर्माणं भवति । वयं सम्यक् जानीम: यत्, शिशव: गृहे मातृभाषाया: वातावरणे एव पुस्तकं / लेखनी इत्यादीनाम् उपकरणानां विना मातृ्भाषाभ्यासं कुर्वन्ति । अस्माभि: अपि नियमित साप्ताहिक संभाषण मेलन-द्वारा एतादृशं संस्कृतवातावरणं निर्मातव्यम् ।

एवं रीत्या प्राप्तान् संस्कृतशब्दान् एकस्मिन् पुस्तके लिखित्वा पौनपुन्येन/पुन:पुन:/वारं वारं पठनीयम्। तदनन्तरम् एतान् शब्दान् उपयुज्य, अन्यस्मिन् स्वयंलेखन-नामके पुस्तके लघु संस्कृतवाक्यानां रचनं करणीयम् । एवं विधेन, कालक्रमेण अस्माकं मस्तिष्के अक्षरश: न केवलं संस्कृतशब्दकोशस्य निर्माणं भवति, अपि तु अस्माकम् आत्मविश्वासं वर्धते, शब्दानाम् आत्मसात्करणं जायते च । एवं प्रकारेण, संभाषणसमये, अनायासेन संस्कृतशब्दा: अस्मत् मुखात् निर्गच्छन्ति ।

यथा पर्याप्त धनेन विना वयम् अस्माकं वित्तकोषस्य लेखात:/लेखाया: धनं प्रत्याहर्तुं न शक्नुम:, तथैव, पर्याप्त शब्दसङ्ग्रहणं विना अस्माकं मस्तिष्क नामक शब्दकोषात् संस्कृतशब्दानां प्रत्याहरणं
कर्तुं न शक्नुम: ।

मम अनुभव: प्रमाणीकरोति यत् सरल सम्स्कृत संभाषणस्य कृते, स्नातक पदवी किंवा उपाध्या: आवश्यकता नास्ति । वस्तुत: प्राप्त स्नातकोत्तर पदवीका: अपि संस्कृतेन सम्भाषणं कर्तुं क्लेशम् अनुभवन्ति इति श्रूयते । दृढ संकल्पं, पर्याप्त समयव्ययं, किञ्चित् सुखत्यागम्, एतेषाम् उपकरणानां साहाय्येन कष्टकार्यमपि सुलभसाध्यं भवति । अत: इदानीम् एव धाराप्रवाह संस्कृतसंभाषणस्य
लक्ष्यंप्रति वयम् अग्रे सराम: ।

॥ जयतु संस्कृतम् लसतु संस्कृतम् ॥

अय्यर् सुभ्रह्मणिय:, चेम्बूर् – १२/ ४/ २००८

Punarjanmam

२००५ तमस्य वर्षस्य डिसम्बेर् मासे प्रवृत्ता घटना एषा | तत्समये चेम्बूरस्थे शृङ्गेरिमठे संस्कृतभारत्या: सुप्रिया षेणाय् भगिनी एकं दशदिनात्मकं शिबिरं चालयति स्म । सायं ७ वादनत: ८-३० वादन पर्यन्तं चलति शिबिरेस्मिन् अह-
मपि भागं स्वीकृतवान् । शिबिरस्थलं मम गृहत: पद्भ्यां केवलं दश निमिषाणां
दूरे एव आसीत्, इत्यत: अहं प्रतिदिनं पद्भ्याम् एव गच्छामि स्म ।
शिबिरस्थलस्य मार्गे आचार्य (डायमण्ड्)) उद्यानं वर्तते । तस्य वामभाग्४ए
मुख्यमार्गस्य समीचीनकार्यं प्रचलति स्म । खननस्य परिणामत: मार्गस्य मध्ये तत्र तत्र गभीरा: गर्ता: आसन् । अत: अत्र वाहनानां नियन्त्रणं भवति स्म । गर्तस्य दक्षिण-भागेन लोकयानानि इत्यादीनि बृहद् वाहनानि, वाममार्गेण त्रिचक्रिका: इत्यादीनि लघुयानानि च धावन्ति स्म । एतस्मात् कारणात् जनानां पथिक मार्गस्य उपयोगं अनिवार्यम् आसीत् । अहमपि प्रतिदिनं एतेन पथिकमार्गेण एव गच्छामि स्म । एतस्य पदिकमार्गस्य मध्ये, तमाखू नाली, नागवल्लीदलं, पिष्टकं, चाक्लेहम् इत्यादीनि वस्तूनि विक्रयमाण: एक: लघु आपण: आसीत् (इदानीमपि तत्र वर्तते) । अत: अस्य आपणस्य समीपे आगत्य जनानां मुख्यमार्गे अवतरणम् आवश्यकम् आसीत्।
यथा अहम् एकस्मिन् दिने अत्र आगत्य मार्गे अवरूढवान्, तथा अकस्मात् / सहसा एका त्रिचक्रिका आगत्य मम शरीरस्य दक्षिण भागेन सह संघट्टनं कृत्वा मां पथिकमार्गस्थम् आपणं प्रति क्षिप्तवती । आपणस्य कटिपरिमितस्य औन्नत्तस्य द्वारं त्रुटित्वा अहम् आपणस्य अन्त: पतितवान् च । भाग्यवशात्, केवलं, मम पादरक्षाया: छेदम् अभवत् – न तु शरीरस्य कापि हानि: ।
तथैव उत्थाय, दूलीं निष्कास्य तत: अहं पादरक्षां विना शिबिरस्थानं प्राप्य कार्यक्रमे भागम् ऊढवान् च । अविस्मरणीयम् अयम् अनुभवं मम पुनर्जन्मम् एव इतिअहं मन्ये ।
॥ जयतु संस्कृतम्, लसतु संस्कृतम् ॥
अय्यर् सुब्रह्मणिय:, कलिफोर्णिया – डिसेम्बेर् २००५

Super Rich

भगवान्, धनिक: च
(दूरदर्शन कार्यक्रमात् श्रुता एकस्या: कथाया: अनुवाद:)

कश्चन आढ्यतम: मनुष्य: कस्यचित् मन्दिरस्य विग्रहाय ४५ कोटि
रूप्यकाणां मूल्यवत् वज्रेण अलङ्कृतं किरीटं अर्पयितुम् इच्छां प्रकटी-
कृतवान् । परन्तु, मन्दिरस्य अधिकारिण: धनिकं न्यवेदयन् यत्
एतावत् भारयुक्तं किरीटम् उत्थाय विग्रहस्य शिरसि स्थापयितुं प्राय::
१० जना: आवश्यका:, किन्तु गर्भगृहे १० जनानाम् एकत्र प्रवर्तितुं पर्याप्तं
,स्थलं न विद्यते, अत: तेन एतादृशस्य किरीटस्य दानस्य कल्पना त्यजनीया ।

एतां घटनां श्रुत्वा कोऽपि प्राज्ञेन कथितं यत् एतावत् महार्घस्य किरीटस्य अर्पण-
द्वारा आढ्यत्वस्य प्रकटनस्य अपेक्षया तत् धनं दरिद्राणां कृते एकस्या: शालाया:
उत रुग्णालस्य निर्माणाय व्ययं कृतं चेत्, भगवान् अतीव सन्तुष्ठ: भवेत् इति ।
यदुक्तं तत् सत्यमेव ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै- १५/८/२००९

Swabhava Dosha

स्वभावदोष:
(दूरदर्शनात् श्रुता्या: एकस्या: मलयालकथाया: भाषान्तरं)

कस्मिंश्चित् नगरे पादकन्दुकस्पर्धा प्रतिसंवस्तरे आयोजनं भवति स्म ।
अमुकाया: स्पर्धाया: दिनद्वयात् पूर्वं, क-गणस्य कन्दुकरक्षकस्य (goalkeeper)
एकस्मिन् पादे अस्थिभङ्गं अभूत् । अत: क्-गणस्य प्रबन्धक: अपरस्य
क्रीडकस्य अन्वेषणाय प्रतिष्ठवान् । मार्गे चलन् प्रभन्धक: एकस्मात् भारवाहिन्यात् कूष्माण्डान् समीपस्थं पण्यागारंप्रति निपुणतया निक्षिपन्तं कर्मकरं दृष्ट्वा, तस्य हस्तकौशलेन प्रभावितवान्,। स: निर्णितवान् यत् अयं मनुष्य::एव क-गणस्य
कन्दुकरक्षकं भवितुंम् अर्हतीति, तत्रैव तं नियुक्तवान् च । अन्तिमसमये अपेक्षित:
क्रीडक:सुलभेन उपलब्दवान् इति आनन्दात् उद्भूतात् उद्वेगकारणत: प्रबन्धक:
क्रीडकस्य क्रीडाविषयकस्य कौशल्यस्य परीक्षणं कर्तुं विस्मृतवान् एव ।

स्पर्धाया: निश्चितदिने यदा क्रीडक: क्रीडाक्षेत्रं प्रविष्ठवान्, तत्र तस्य स्थानं कुत्र
भवतीत्यपि स: न जानाति स्म । तस्य गणस्य प्रशिक्षक: सर्वं व्यवृणोत्, पश्चात्
क्षेत्रे क्-गणस्य विभागस्य कन्दुक-जालस्य पुरत: तं संस्थापितवान् च । स्पर्धाया:
प्रारंभत: १५ निमेषाणां यावत्, सौभाग्यवशात् तस्य सहक्रीडकानां करुणया च, कन्दुकं नूतनस्य क्रीडकस्य समीपे न आगत: एव । परन्तु, तदनन्तरस्य घटनया क-गण-
सदस्या: विद्युतया ताडिता: इव अभवन् । यदा यदा कन्दुकं नूतनस्य क्रीडकस्य समीपम् आगतं, तदा स्वभाव-दोषेण स:कन्दुकं कूष्माण्ड्म् इव स्वीकृत्य पार्श्वस्थे स्वजाले एव न्यक्षिपति स्म । पौन पुन्येन आगतान् कन्दुकान् एवंरीत्या स्वीकृत्य जाले एव क्षिपति स्म स: । कन्दुकं हस्ते स्वीकृत्य क्रीडाक्षेत्रे सुरक्षिते स्थले क्षिप्तव्यम् इति नियमं स: विस्मृतवान् इति दृश्यते ।

स्पर्धाया: समापने, क: गण: विजयं प्राप्नोत् इति वक्तव्यं वा?। अपर: गण: अधिका-
धिकेन अङ्केन विजयीभूता:, कारणं अस्माकं पटु: अजानन्नेव प्रतिपक्षाय क्रीडति स्म । नाम, अक्षरश: क-गणे १० क्रीडका: एव आसन्, प्रत्युत: प्रतिपक्षे अस्माकं पटुना सह १२ क्रीडका: आसन् ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै ४०००७१ – १०/८/२००९

MathruBhagini

श्रद्धा्ञ्जलि:- (मम मातृभगिनी)

मीनाक्षि (मीना) मम मातु: द्वितीया कनिष्ठभगिनी आसीत् | सा जन्मना एव
एडमूका । यद्यपि सा सम्पूर्णतया अशिक्षिता/निरक्षरी, तथापि सा सर्वथा निपुणतया
व्यवहरति स्म । संज्ञाभाषया तस्या: चिन्तनम् अपरान्:/अपरेभ्य: सुष्ठु प्रकटयति
स्म, सा । शास्त्रमार्गानुसारिणौ मम मातृपितरौ बाल्यकाले एव शास्त्ररीत्या तस्या:
विवाहं कारितवन्तौ परं सा पत्या सह न कदापि उषितवती, कारणं श्वशुरगृहे तस्या:
पीडा भवेत् इति भीत्या तस्या: मातुपितरौ तां तत्र न प्रेषितवन्तौ ।
मम बाल्यकाले, वयं संयुक्ते कुटुम्बे/परिवारे निवसितवन्त:, यत्र सा सर्वेषां साहाय्यकृत् भवति स्म/साहाय्यं करोति स्म । पाककलायाम् अति्निपुणा सती
, खण्डितान् शाखान् दृष्ट्वा एव तद्दिनस्य भोजनस्यकृते किं किं करणीयम् इति सा सम्यक् जानाति स्म । अपरा: स्त्रिय: इव स्वकीयं कुढुम्बं, स्वकीया: शिशव: इति
तस्या: मनसि विद्यमानाया: आशाया: प्रकटनं सा बहूवारं आङ्गिकभाषया मां निवेदयति स्म । परन्तु विधिवशात् तस्या: एताया: इच्छाया: पूर्त्या विना एव तया अस्य मासस्य
१२ दिनाङ्के इहलोकत: निर्गन्तव्यम् आपतितम् इति विचिन्त्य मनसि अतीव व्यधा भवत्येव । तस्या: मरणं मुम्बै नगरस्थे, कोपर्करणे उपनगरे विद्यमानस्य एकस्मिन् रुग्णालये अभुत् ।
तस्या: मातृपितॄणां निधनानन्तरं सा तस्या: समग्रं जीवनं ललिताम्बाळ् इति नामिकाया: तस्या: अपरया कनिष्ठभगिन्या सह एव यापितवती । मम कुढुम्बपरिस्थित्या: कारणत: कदापि तां मम गृहं नीत्वा पालयितुं सन्दर्भं न प्राप्तम् इति मयि खेदं भवत्येव । तस्या: मनसि किं किं प्रचलति स्म इति वयं कदापि वक्तुं न शक्नुम:, परं मूकताया: कारणात् सा न केवलं किमपि असमीचीनं वदति स्म, वाचा अपरेभ्य: दु:खं च न यच्छति स्म, अपि तु बधिरताकारणत: अपराणाम् असमीचीना: शब्दा: तस्यां मन:क्लेशं जनयितुम् असफला: अभवन् ।
एतस्य लेखनद्वारा अहं तस्या: आत्मानंप्रति मम श्रद्धाञ्जलिं समर्पयामि ।
अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – आगस्ट् १३-८-२००९

”सा आजीवनम् इतरेषां सुखस्य मात्रमेव नितरां प्रयतति स्म इति भासते । यदपि कार्यं तया कृतं, तत्सर्वं बन्धुजनानां कुशलम् उद्धिश्य, तस्या: कर्तव्यमिति विचिन्त्य च सा करोति स्म । तस्या: निष्काम्यभावनाया: कारणत: वयं दिवङ्गतां ताम् एका कर्मयोगिनी इति आह्वयाम: चेत्, तत्र कापि अतिशयोक्ति: न भवेत् ।
तस्या: आत्मानंप्रति इयं श्रद्धाञ्जलिं समर्पयामि - मणी “(मम अनुज:)-१७/८/२००९

Narendra

नरेन्द्र:अश्वशकट: च

नरेन्द्र: कस्मिन्चित् आङ्गलेय माध्यमिके विद्यालये पठति स्म । अध्यापक: सर्वान् छात्रान्, भविष्यकाले, ते किं भवितुं इच्छन्ति इति अपृच्छत् । कश्चन वैद्य: भवितुं, कश्चन गायक: भवितुं, कश्चन क्रीडालू भवितुं, पुन: कश्चन विमानचालक: भवितुं, कश्चन, विज्ञानी भवितुं, , कश्चन सैनिक:, कश्चन व्योमयात्रिक: भवितुम् इति उत्तरितवन्त: । नरेन्द्रेण उक्तं यत् स: अश्वशकटचालक: भवितुं इच्छतीति । तस्य विचित्रम् आग्रहं श्रुत्वा न केवलं शिक्षक: तं भृशं तर्जितवान्, अपि तु सहपाठिन: परिहासध्वन्या हसितवन्त: ।

दु:खित: नरेन्द्र: अवनमशिरसा गृहंप्रति आगतवान् । यदा उन्मेषहीनं स्वपुत्रं माता कारणं पृष्ठवती, तदा स: विद्यालये घटितं सर्वं विवृणतवान्/व्यावृणोत् । माता तं क्रोडे स्वीकृत्य सान्त्वनं कुर्वती तं पूजाप्रोकष्ठं नीत्वा तत्र संस्थापितस्य गीतोपदेशपटं/प्रतिमां दर्शयित्वा, निश्चयेन भाविकाले नरेन्द्र: गीतोपदेशस्थे कृष्ण: इव अश्वयुक्तं शकटं चालयिष्यतीति आश्वासं कृतवती ।

मातु: भविष्यवाणी तथ्यम् अभूत् । स: नरेन्द्र: एव अनन्तरकाले विवेकानन्दस्वामि्रूपेण
समग्रे विश्वे तस्य वाक्चातुर्येण महत्वम् अप्राप्नोत् इति वयं सर्वे जानन्ति एव ।


अय्यर् सुब्रह्मणियं, चेम्बूर्, मुम्बै \ २/८/२००९

Deva Bhasha

नमो नम:

संस्कृतदिनं पुरस्कृत्य आयोजितस्य वक्तृत्व स्पर्धायै माम् आमन्त्रितवन्त: इत्यस्यकृते संस्कृतभारत्या: घाट्कोपर् केन्द्रस्य सर्वेभ्य: सदस्द्भ्य: मम धन्यवादा: ।

संस्कृतभाषा मृता इति चिन्तनं जनानांमध्ये वर्तते, परं सा मृता न, केवलं पालन-
पोषणस्य अभावात्, तस्या: स्वास्थ्यं किञ्चित् न्यूनं जातम् इत्येव । एतस्य मुख्य कारणम् आङ्गल सर्वकार:, येषां शासनकाले एव तै: अस्माकं संस्कृतभाषां पाठ्यपद्धत्या: निष्कासिता । इदानीं सम्स्कृतमातु: पुनरुत्थानम् अस्माकं उत्तरदायित्वं भवति ।
एतस्य कृते, पप्रथमं प्राथमिक विद्यालयस्य पाठ्यपद्धत्यां संस्कृतस्य निवेशनम् करणीयम् । संभाषणशिबिरमपि इतोऽपि तीव्रतया चालनीयम्, यतोहि संभाषणं कापि भाषाया: जीवनाडी वर्तते । मातृपितृभि: अपि स्वकीया: शिशव: संस्कृताध्ययनाय प्रेरणीया:, प्रेषणीया: च ।

एवंरीत्या, कालक्रमेण संस्कृतं पुन: भारतदेशस्य दैनन्दिनीया व्यवहारिका भाषा भवितुं अर्हति । अन्यच्छ, संस्कृतस्य माद्यमेन एव देशस्य संस्कृते: रक्षणं कर्तुं शक्नुम: । संस्कृतस्य प्रसाराय/प्रचाराय अखिलभारतीयसंस्कृतभारत्या: विश्वस्थरीयं भगीरतप्रयत्नं अति श्लाघनीयम् अस्ति ।

॥ जयतु संस्कृतम्, लसतु संस्कृतम् ॥

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै १५/८/२००७

Gita Kendra Inauguration

भाषारूपिण्यै नम:, वाग्देव्यै नम:, महासरस्वत्यै नम:, नम: सर्वेभ्य:
***************
अद्य अत्र संस्कृतभारत्या:चेम्बूर् गीता शिक्षण केन्द्रस्य उद्घाटनकार्यक्रमसमारम्भे भवतां सर्वेषां सुस्वागतम् । अयं कार्यक्रमं संस्कृतभारत्या न केवलं समग्रे भारतदेशे, अपितु विदेशेऽपि आयोजितम् अस्ति ।
संस्कृतभारती सप्तविंशद्भ्य: वर्षेभ्य: पूर्वं कैश्चन संस्कृतप्रेमिभि: संस्कृतभाषाया: प्रचाराय संस्थापिता संस्था भवति । न केवलं भारतदेशे सर्वेषु राज्येषु अपि तु विदेशे १२ राज्येषु तस्या: शिक्षणकेन्द्रा: वर्तन्ते । संस्कृतभारत्या: सर्वेषानुसारं अध्यावधि विश्वस्तरे ८० लक्षं जना: संस्कृतभारतीद्वारा संस्कृताध्ययनं प्राप्तवन्त: ।
इदानीं संस्कृतभारत्या भगवद्गीताद्वारा संस्कृत्ताध्ययनं, संस्कृतद्वारा गीताभ्यासं इति नूतना पाठ्यपद्धति रचिता अस्ति । गीतासोपानम् इति भागद्वयम्, गीता प्रवेशस्य प्रथम भाग:, गीताप्रवेशस्य द्वितीय भागस्य खण्डद्वयम् इति ५ पुस्तकानि सन्ति । एतेषां पुस्तकानां अध्ययनाय १८ मासानां कालावधि: निर्णित: अस्ति । Outlook India नामकस्य मासिकानुसारं अध्यावधि ३०,००० जना: गीता शिक्षण वर्गाय पञ्चीकरणम् कृतवन्त: ।
अद्य अस्माकं मध्ये अत्रत्य श्रुङ्गेरि मठस्य वरिष्ठा संस्कृताध्यापिका श्रीमति इन्द्रा मुरलीधरन् मुख्यातिथिरूपेण उपस्थिता अस्ति । प्राय: भवन्त: जानन्ति यत् सा घाट्कोपरस्थे North Bombay Welfare School मध्ये विगतेभ्य: कतिपयेभ्य: वर्षेभ्य: संस्कृतं पाठयति इति । श्रुङ्गेरि मठेऽपि सप्ताहान्त वर्गा: सा सञ्चालयति । अहम् इन्द्रामहोदयाम् दीपं ज्वालयित्वा/प्रज्वाल्य अस्य केन्द्रस्य उद्घाटनं कर्तुं प्रार्थयामि ।
* * * * * * * * * *
धन्यवाद: - पप्रथमम् अस्माकम् आमन्त्रणं स्वीकृत्य तस्या: अमूल्यं समयं व्ययीकृत्य अत्र आगत्य कार्यक्रमाय शोभां दत्तवत्यै मुख्यातिथ्यै हृद्य धन्यवादार्पणं करोमि । अन्यच्छ, अस्मान् अत्र संस्कृतवर्गं सञ्चालयितुं अनुमतिं दत्तवद्भ्य: श्रुङ्गेरि मठस्य अधिकारिभ्य: - विशेषतया वैद्यलिङ्गम् महोदयाय, क्रुतज्ञतां न प्रकटयाम: चेत्, वयं कृतघ्ना: भवेम । संस्कृतस्य प्रसाराय स: भृशं प्रयत्नं कुर्वन् अस्ति । अन्ते अत्र आगत्य सहिष्णुतया अस्मिन् कार्यक्रमे भागम् ऊढवन्त: भवद्भ्य: सर्वेभ्य: अपि मम धन्यवादा: ।

॥ जयतु स्स्कृतम्, लसतु संस्कृतम्, जयतु भारतम् ॥

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै– ९/७/०९

Anasuya

चतस्र: देव्य: -अनसूया, लक्ष्मी:, सरस्वती, पार्वती च

कदाचित्, नारदमुनि: लक्ष्मीं, सरस्वतीं, पार्वतीं च न्यवेदयत् यत् भुवि अनसूया नामिका एका श्रेष्ठा पतिव्रता निवसतीति । प्रकृत्या एव स्त्रीगुणानुसारं, ता: अनसूयाया: पातिव्रत्यंप्रति श्रुत्वा असूयाविष्ठा: अभवन् । फलत: अशान्ता: देव्य: पतीन् उपगम्य तासां मनक्लेशस्य कारणं निवेदितवन्त:, अनसूयाया: परीक्षां कर्तुं तान् प्रेरयितुं सफला: अभवन् च ।

यथा इहलोकव्यवहारे घटति, तथैव एते त्रया: अपि स्त्रीवशवर्तिन:/स्त्रीजिता: (hen pecked) पतय: तेषां पत्नीनां मन्:क्लेशस्य कारणभूतां महिलां परीक्ष्कितुं भुविंप्रति प्रच्छन्न/गुप्तं ब्राह्मणरूपम् धृत्वा प्रतिष्ठवन्त:/प्रस्तितवन्त: ।

आगतान् अतिथी: दृष्ट्वा पतिव्रता अनसूया यथाविधि तेषां स्वागतं कृत्वा उपचारमपि अकरोत् । तदनन्तरं कुटीरस्य(आश्रमस्य) अन्त: गत्वा भिक्षाम् आनीतवती । तदा प्रच्छन्नरूपधारिण: ब्राह्मणा: अवदन् यत्, ते वस्तूनां भिक्षां नेच्छन्ति, परं तां आवरणेन/ वस्त्रेण विना, तस्या: नग्नरूपं निरीक्षितुम् इच्छुका: सन्तीति । तदा सर्वज्ञानी पतिव्रता अनसूया अवोचत् यत्, यदि ते तस्या: मनसि वर्तमानं स्वरूपं तस्या: पुरत: आनेष्यन्ति, तर्हि निश्चयेन सा तेषा्म् आशा: पूरयिष्यतीति । तथास्तु इति आशीर्वचनं दत्तवन्त: समनन्तरमेव अनसूयाया: पातिव्रत्यस्य प्रभावेन शिशूनां रूपं प्राप्नुवन् । प्रतिज्ञानानुसारं, अनसूया निर्वस्त्रा भूत्वा त्रय: अपि शिशून् क्रोडे स्वीकृत्य स्तनपानम् अकरोत् । तत्पश्चात्, त्रय: अपि – ब्रह्मा, विष्णु, महेश्वर: - शिशुरूपेण तस्मिन् आश्रमे एव उषितवन्त: ।

तत्र - वैकुण्ठे, शिवलोके, ब्रह्मलोके च,- देव्य: स्वपतय: इतोऽपि न प्रत्यागतवन्त: इति विचिन्त्य व्याकुला: अभवन् । केषाञ्चन दिनानाम अनन्तरम्, अन्ते गत्यन्तरं विना ता: स्वकीयानां पतीनाम् अन्वेषणाय आश्रमं प्राप्तवत्य: । तत्र शिशूणांरुपे स्वपतीन् दृष्ट्वा सत्यम् अवगम्य, तान् प्रत्यर्पयितुं अनसूयां अभ्यर्थितवत्य: च।

एवंरीत्या तिस्रूणां देवीनां गर्वभङ्गम् अनसूयाद्वारा अभूत् ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – ६/८/०९

Sringeri Mutt Speech

ॐ श्री गुरुभ्यो नम: भाषारूपिण्यै नम: वाग्देव्यै नम: महासरस्वत्यै नम्:
नम: सर्वेभ्य:

भवन्त: प्रमाणपत्राणि प्राप्तवन्त: । अग्रे पुन: वर्गे अध्ययनम् अनुवर्तते । भवत: संस्कृत-ज्ञानविषये अपरा: कथं जानन्ति । यदा भवन्त: संस्कृतेन सरलतया वक्तुं शक्नुम: तदा एव अन्यच्छ, संम्भाषणेन विना कापि भाषा चिरकालं न जीवति, कारणं सम्भाषणं सर्वासां भाषाणां जीवनाडी वर्तते । केचन वदन्ति संस्कृतभाषा मृता इति । सा अद्यापि सजीवा अस्ति, यत: न केवलं भारतदेशे अपि तु विदेशेषु तत्र तत्र जना: संस्कृतमाध्यमेन व्यवहरन्ति । अद्यतन केचन युवान:/युवत्य: मातृभाषया वक्तुं काठिन्यम् अनुभवन्ति,परन्तु आङ्गलभाषया धाराप्रवाहरीत्या वार्तालापं कुर्वन्ति ।
वर्षद्वयेभ्य; पूर्वं वैद्यलिङ्गमहोदय: प्रति रविवासरे संभाषणवर्गस्य आयोजनं अकरोत्
परम् उपस्थिति: कृशा भूत्वा मासद्वयाभ्यन्तरे एव वर्ग: स्थगित: अभवत् । इदानीं मास-द्वयात् पूर्वं पुन: स: सम्भाषणवर्गस्य सवैभवम् आयोजनं कृतवान् । दुर्भाग्यवशात्, छात्रेषु अस्मिन् विषये तावती आसक्ति: न दृश्यते, यत: विगते रविवासरे मया सह केवलं वैद्यलिङ्गं महोदय: राजू महोदय: च वर्गे आसन् । अस्मिन् वर्गस्य विषये, भवन्त: एव निर्णयं कर्तुम् अर्हन्ति ।
१५ वर्षेभ्य: पूर्वम् अत्र अभिनवविद्यातीर्थ वेदपाठशालाया:, ग्रन्थालयस्य च उद्घाटनं श्रूङ्गेरि मठाधीशै: भारतीर्थस्वामिभि: कृतम् । तदवसरे अनुग्रहभाषणं कुर्वाणा: स्वामिन:
अवोचन् यत संस्कृताध्ययनं सर्वेषां भारतीयानां कर्तव्यं वर्तते इति तथैव, अनध्ययनं संस्कृतमातु: अनादर: अपमान: च भवत: इत्ति । वयं आचार्याणाम् दर्शनसमये, युतकं निष्कास्य पञ्चगच्छं धरित्वा बद्धाञ्ज्ल्या नम्रतया च तेषाम् समक्षं गच्छाम:, परन्तु तेषाम् आज्ञानुसारं न कदापि व्यवहराम: इत्यस्य विषय: कटु सत्यमेव । अस्मिन् विषये अस्माभि: चिन्तनीयम् ।
जयतु संस्कृतम्, जयतु भारतम् ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – २०/६/२००९

Two Brahmacharis

द्वयो: ब्रह्मचारिणो::कथा

पुरा कस्याश्चित् नद्या: तीरे एका युवी स्त्री स्वकीयेन त्रयोवर्षीयेण पुत्रेण सह निवसति स्म एकस्मिन् तीव्रे ग्रीष्मकाले नद्या: जलम् अपसृतं, तस्मात् कारणात् जना: जानुपरिमितं जले चलन्त: नदीं क्रामितुं शक्तवन्त: ।

एकदा सा ग्रामपरिसरप्रदेशत: इन्धनाय काष्ठम् आनेतुं गृहात् निर्गत्य पद्भ्यां नदीम् अक्रामत् । गृहं प्रत्यागनसमये यदा सा नदीतीरं प्राप्ता, तदा जलप्लुतं नदीं दृष्ट्वा सन्त्रासा अभूत् । पर्वतप्रदेशे पतिता अतिवृष्टिकारणात्:नदी बहुलीभूता आसीत् । तस्या: त्रयोवर्षीयं पुत्रं विचिन्त्य सा चिन्तामग्ना, व्याकुला च अभवत् । गृहात् बहि: आगत्य भ्रमन्नेव बालक: निदीतीरं प्राप्य तत्रत्ये पूरे निमज्जते इति भीत्या सा भूय: चिन्ताकुला मुग्धा च अभुत् ।

तस्मिन्नेव समये द्वौ सुयष्ठियुक्तौ वटू मार्गे गच्छन्तौ आस्ताम् । रुदन्ती याचमाना च सा नदीं क्रामितुं ब्रह्मचारिणो: साहाय्यम् अयाचत । गृहस्य परिसरे क्रीडन्तं तस्या: बालकंप्रति अपि अवदत् । स्त्रिय: न स्प्रष्टव्या: इत्यस्य निष्ठूरं/कठिनं नियमंप्रति तौ ब्रह्न्मचारिणौ स्मृतवन्तौ, यत: तत् कृत्यं मनसि आशां जनयति इति । अपिच महिलाया: सङ्कत्यां नैव भवितव्यम् ।

हर्षनन्द: नाम ब्रह्मचा्री स्वयम् एतत् नियमं स्मृत्वा यून्या: महिलायै/या: साहाय्यं कर्तुं न शक्नोमि इत्युक्तवान् च । परन्तु, तस्य मित्रं देवानन्द: झटिति/सपद्येव तां मातरं स्कन्धयो:
नीत्वा/स्थापयित्वा नद्या: शक्तिमत् प्रवाहस्य विरुद्ध् तरणं कर्तुं आरब्दवान् । तां महिलां सुरक्षतया नद्या: अपरं तीरं प्राप्य प्रत्यागतवान् च । तदनन्तरं ब्रह्मचारिणौ आश्रमंप्रति
प्रवासं/प्रयाणम् अनुवर्तितवन्तौ – यत्र तौ तयो: गुरुणा सह उषितवन्तौ । हर्षानन्द:, य: महिलाया: याचनां निराकृतवान्, तस्य मित्रस्य नियमोल्लङ्कनविषयंप्रति विश्वासं कर्तुं न अशक्नोत् । मार्गे सततम् अस्मिन्विषये चिन्तयन् स्वगतं किमपि मर्मरध्वन्यां वदति स्म।

यदा तौ आश्रमं प्राप्तवन्तौ, गुरु: तौ तयो: दिनं कथं प्राचलत् इति अपृच्छत् । उत्तेजन /उत्तापशील: हर्षनन्द: झटिति निन्दनस्वरेण तस्य मित्रस्य दुराचरणंप्रति अकथयत् । यदा
गुरु:अपरं ब्रह्मचारिणम् अपृच्छत्, तदा दयानन्द: अवदत्, यद्यपि अहं मातरं नद्या:: तीरान्तरम् अनयम्, इदानीं तद्विषयं व्यस्मरम् /विस्मृतवान् च । परन्तु, मम मित्रं इतोऽपि तां महिलां तस्य मनसि वहन्नस्ति इति मन्ये ।

देवानन्दस्य ब्यवहारेण सन्तुष्ठ: गुरु: अवदत् यत्, स: तस्य विवेकस्य सदुपयोगं कृत्वा मातु: साहाय्यम् अकरोत् । भगवद्गीतायां प्रतिपादितस्य कापट्यस्य/दाम्भिकताया:अर्थमपि गुरु: व्यवृणोत् ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – १/८/०९

Gita Kendra

चेम्बूर् गीता शिक्षणकेन्द्र उद्घाटकार्यक्रमस्य वृत्तम्

जूलै मासस्य नवमे दिनाङ्के चेम्बूर् उपनगरस्थे शृङ्गेरि मठे, गीतोपदेशस्य, भारतमातु:
च भावचित्रयो: सन्निधौ/समक्षं, चेम्बूर् गीताशिक्षण केन्द्रस्य सवैभवम् उद्घाटनम् अभूत् । मुख्यातिथिरूपेण अत्रत्य शारदा विद्याकेन्द्रस्य वरिष्ठा संस्क्रुताध्यापिका, श्रीमति इन्दिरा मुरलीधरन्, उपस्थिता आसीत् । शृङ्गेरि मठस्य कार्यकर्ता श्री वैद्यलिङम् कार्यक्रमस्य मार्गदर्शनम् अकरोत् । गीताकेन्द्रस्य सञ्चालक:, अय्यर् सुब्रह्मणिय: संस्कृतभारत्या: परिचयं कारयित्वा, गीताद्वारा संस्कृतम् इत्यस्य नूतनाया: पाठ्यपद्धत्या: पुस्तकश:
विवरणं कृतवान् । तदनन्तरं मुख्यातिथि: दीपं प्रज्वाल्य केन्द्रस्य उद्घाटनं अकरोत् मुख्यातिथि: अपरा: वक्तार: च गीताद्वारा संस्कृतम् इति पाठ्यपद्धतीं, संस्कृतस्य प्रचाराय संस्कृतभारत्या क्रियमाणस्य प्रयत्नस्य च भृशं प्रस्तुतिं कृतवन्त: । कार्यक्रमे उप २५ संस्कृत अभिलाषिण: उपस्थिता: आसन्, १४ शिक्षार्थिन: गीताशिक्षण वर्गाय पञ्चीकरणं कृतवन्त: च । श्री सन्जीव शेट्टी महोदय: धन्यवादर्पणम् अकरोत् । तस्मिन्नेव दिने गीतावर्गमपि आरब्दम् ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै - १०/७/२००९

Student Thief

मोषक: छात्र: (दूरदर्शानत: श्रुताया: कथाया:
संस्कृत भाषान्तरम्)

तानि दिनानि आसन् यदा भारतदेशे अध्ययनं गुरुकुले एव प्रचलति स्म ।
अस्मिन् गुरुकुले प्राय: १५ अन्तेवासिन: पठन्ति स्म । केषाञ्चन दिनानामनन्तरं
प्रतिदिनम् एकैकस्य छात्रस्य अङ्कनी अथवा मार्जक: अदृश्यं भवति स्म । अन्वेषनानन्तरं, गुरु: चौर्यं कुर्वन्तं छात्रम् अभिज्ञाय, स: पुन: मोषणं न कुर्यात् इति उपदिष्टवान् च ।

कस्यचित् दिनानामनन्तरं पुन: चौर्यम् आरब्धम् । पुनरपि गुरो: उपदेशात्परं मोषणं
स्थगितम् । यदा तृतीयं वारं कस्यचन अन्तेवासे: वस्तु अपहृत्तं, तदा सर्वे छात्रा: गुरुं
उपगम्य कथितवन्त: यत् सम्प्रति अपि तेनैव छात्रेण मोषण: कृत:, अत: गुरु: तं
अपराधिं गुरुकुलत: न निष्कासयति चेत्, अस्या: समस्या: एकमेव परिहारमार्ग: भवति, अपरा: सर्वे गुरुकुलात् बहि: गच्छेयु: इति ।

तदा गुरुवर्य: प्रतिपादितवान् यत् तेषां निर्णयमेव वरं, कारणं यत् पठनीयम् तत् ते सर्वं
पठित्वा अवगतवन्त: इति भासते, परन्तु चौर्यं कृतेन छात्रेण इतोऽपि एष: पाठ: अधीत्य अवगमनीय:, अत: स: गुरुकुले एव तस्य सम्पूर्ण अध्ययनपर्यन्तं तिष्ठेत् इति ।

शेषं चिन्त्यम् । प्राय: तस्य सहपाठिनां(ष) निर्गमनानन्तरं तत्र मोषणाय किमपि न स्यात्, अथवा स्वस्य दोषं ज्ञात्वा चौर्यमपि त्यक्त्वा, स: छात्र: धर्ममार्गं स्वीकृतवान् स्यात्

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – १५/५/२००९

Laughing Buddha

हसन् बुद्ध:

कश्चन चीनीय सन्स्यासि/क्षपणक:, य: सहस्रेभ्य: वर्षेभ्य: पूर्वं जीवति स्म, यं च तत्रत्य जना: भविष्यकालीय: बुद्ध: इति अवलोकयन्ति स्म । स: प्रकृत्या एव दयालू, परहितेच्छु: च आसीत् । एतस्मिन् देशे स: Hotein Pu-jai इति नाम्ना ज्ञायते ।

तस्य बृहद् उदरं, सातत्य स्मेरवदनं च, तस्मै हसन् बुद्ध: इति नामदेयम् आनयत् । यदि कोऽपि अस्य हसन् बुद्ध पाञ्चाल्या: लम्बो/तुन्दिलोदरं हस्तेन मर्दयति/संघर्षयति, तर्हि तस्मै सौभाग्यं उपलभ्यते इति लोकानां मद्ये (अन्ध)विश्वास: वर्तते । एतस्य बुद्धस्य बिम्बं न केवलं चीनीय-जापनीय, पाश्चात्य देशयो:, अपि तु भारतदेशस्य मन्दिराणी, आपणान्, गृहान् च अलङ्करोति इति श्रूयते ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – ५/२/२००९

Father Rat

मूषकवध्वा: पिता

कश्चन पर्वतस्य छिद्रे/बिले कश्चन मूषक: स्वपरिवारेण सह सुखेन निवसति स्म । यदा तस्य एकाकिनी पुत्री विवाहप्रायं प्राप्तवती, तदा तस्या: कृते, सुयोग्याय वराय अन्वेषणम् आरब्दवान् । कस्यचन मित्रस्य सूचनानुसारं स: पप्रथमं विधातारंप्रति अगच्छत् । ब्रह्मदेवेन उक्तं यत्, तस्य अपेक्षया सूर्यदेव: तस्य पुत्र्यै योग्य: वर: भवेत् इति,। अत: आखु; (मूषक:)
आदित्यम् उपगम्य स्वपुत्र्या: विवाहविषयं प्रस्थापितवान् । भास्करेण उक्तम् यत्, तस्य अपेक्षया मेघ: शक्तिमान् वर्तते, यत: “स: माम् आवरणं कृत्वा मम प्रकाशं एव नष्टं कर्तुं शक्नोति, ”अत: मेघ: एव भवत: योग्य: जामाता भवितुम् अर्हति इति । उंदूरु: (मूषक:) इदानीं जलमुच्: गृहंप्रति प्रस्थितवान्, तत्र विवाहस्य प्रस्थापनं कृतवान् च । मेघेन उक्तं यत् अनिल: (वायु:) तस्य अपेक्षया बलवान् भवति, यत: पवन: तस्य गतिनिरोधनं कर्तुं/
निरोद्धुं, / विभ्रामयितुं (परिवर्तनं कर्तुं) च शक्नोति इति । अत: गत्यन्तरं विना खनक: (मूषक:) वायुम् उपगम्य विवाहविषयं निवेदितवान् । अनिलेन उक्तं यत्, पर्वत: तस्य अपेक्षया बलवान्/महान् च विद्यते, यत: स: वायो: गमनस्य रोधनं/प्रबन्धनं कर्तुं शक्नोति, अत: शैल:/अद्रि:/गिरि: एव तस्य जामातु: भवितुम् अर्हति इति । इदानीं अस्माकं विषण्ण: मूषकपिता स्ववासस्थलं गत्वा पर्वतं उपगम्य स्वपुत्र्या: परिणयविषयं तस्य पुरत: संस्थापितवान् । गिरिणा उक्तं यत् तस्य अनुभवं वदति यत्, मूषक: एव तस्य अपेक्षया महान्, यत: स: पर्वतस्य कस्मिन्नपि भागे सुलभेन छिद्रं निर्माय तं धूलीं कर्तुं शक्नोति इति । शेषं किम् अभवत् इत्ति कोऽपि न जानाति ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – ४/२/२००९

Lion and Man

बुद्धि: शक्ति: च एकत्र भवितुम् अर्हत:, परं तयो: यथार्थ उपयोगं करणीयम् । एतत् सम्बन्धी एका कथा वर्तते ।
अमुक् मनुष्य: अरण्यमार्गे गच्छन् आसीत् । तदा तस्य पुरत: एक: सिंह:
आगत: । भीत: मानव: किंकर्तव्यमूढतया तत्रैव स्थगितवान् । अनन्तरं स्वयं बुद्धि्म् उपयुज्य ध्यानस्थित्याम् तत्रैव उपविष्ठवान् । एतत् दृष्ट्वा सिंहोऽपि नयने निमील्य उपविशत् । किञ्चि्त् समयानन्तरं यदा मानव: नेत्रम् उन्मीलितवान् तदा ध्यानं कुर्वन्तं सिंहं दृष्ट्वा आनब्देन अवोचत् यत् “मया अध्य भाग्यवशात् सात्विकेन सिंहेन सह मेलनम् अभवत् इति । सिंह: हसन्नेव उक्तवान् यत् “अहं नेत्रं निमील्य अद्य भोजनार्थं भगवता भवान् दत्त:” इति भगवन्तं धन्यवादार्पणं यच्छन् आसम् इति ।

शेषं चिन्त्यम् ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – १/२/२००९

America and India

भारतीय-अमेरिका देशयो: मध्ये जीवन शैल्या: प्रतिपक्ष:/भेदभाव:

निरक्षराणां भारतीय-सामान्यजनानां मनसि अमेरिका देशंप्रति विद्यमानस्य अधस्तन भेदभावानां विषये भ्रान्ति: नैसर्गिका एव ।
) यदा भारतदेशे, सर्वे निद्रान्ति, तदा अमेरिकजना: कार्यमग्ना: भवन्ति ।
) भारतदेशे दक्षिणभागत्व यानचालनं | प्रत्युत: अमेरिकादेशे वामभागत्व यानचालनम् ।
) भारतदेशे कृष्णफलकेन सह सुधाकण्डस्य उपयोगम् – अमेरिकादेशे श्वेतफलकेन सह
वर्णलेखन्या: उपयोगम् ।
) यदा जूण् मासस्य द्वितीये/तृतीये सप्ताहे भारतदेशे शालाया: ग्रीष्मविरामस्य अनन्तरस्य
उद्घाटनं भवति, अमेरिका देशे विद्यालयानां ग्रीष्मविरामस्य आरम्भं भवति ।
) अमेरिका देशे, केचन विद्यालयेषु छात्रा: गोलाकार उत्पीठिकानां परित: उपविशन्ति, शिक्षिका
वर्गे चलन्ती एव पाठयति, विरुद्ध भारतदेशे, छात्रा: दीर्घ उत्पीठिकायां पङ्क्त्या उपविशन्ति,
अध्यापक:/अध्यापिका तस्य/तस्या: आसन्दे उपविशन्/न्ती एव पाठयति ।
) विपुल जनसङ्ख्याया: कारणत:, भारतदेशे मार्गषु, यानै: सह जनानां सम्मर्द: अपि
दृश्यते, अमेरिकादेशे जनानां न्यूनता कारणत:, मार्गे यानानां सम्मर्द: एव दृश्यते । मार्गे
चलन्त: जना: विरला: एव।
) भरतीय ग्रन्थालयेषु, पठितॄणां(वाचकानां) जनौघ: (जन+ओघ) (crowd)एव न दृश्यते, प्रत्युत: अमेरिका ग्रन्थालयेषु, यद्यपि सम्मर्द: वर्तते, तथापि कोलाहलं न विद्यते एव ।
) भारतदेशे, जनसङ्क्याया: विपुलतया सह, समयस्यापि विपुलता अस्ति, अत: अत्रत्य जना:
किंकर्तव्य्सम्मूढतया पीडिता: सन्त: समयस्य व्ययीकरणाय जल्पनं इत्यदीषु विषयेषु मग्ना: भवन्ति । प्रत्युत: अमेरिकादेशे समयस्य न्यूनता कारणत: जनेभ्य: गृहे आहारविहाराय अपि समयं न उपलभ्यते । किंबहुना, ते हस्ते चायचषकेन सह एव मार्गे चलन्ति ।
) भारतदेशे वयं प्रात: उत्थानस्य समनन्तरमेव दन्तधावनं कुर्म:, विरुद्ध पाश्च्यात्यदेशीय जना:
यदा यदा किमपि अश्नान्ति तदा धन्तधावनं कुर्वन्ति, अत: प्रात:काले, केवलं मुखप्रक्षालनम् एव कुर्वन्ति ।
) शौचालये भारतीया: जलेन मार्जनं कुर्वन्ति, परं पाश्चात्य देशेषु जना: मलमूत्र विसर्जनानन्तरं
मार्जनाय केवलं विशेष मृदु कागतस्य उपयोगम् कुर्वन्ति ।
इतोपि अपरा: भेदभावा: वर्तन्ति चेत्, अत्र योजयितुम् अर्हन्ति ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बौइ – ३०/११/०८

Janaka Yajnavalkya

जनक-याज्ञवल्क्यो: मध्ये संभाषणम्

राजर्षि: जनक: एकदा शङ्काविष्ठ: भूत्वा गुरुं याज्ञवल्क्यं पृष्टवान् यत्
समग्रं विश्वं कुत: प्रकाशं प्राप्नोति इति । उत्तरं प्राप्तम् आदित्यात् इति ।
पुन: प्रश्न: उद्बभूत: यत् यदा सूर्य: न विद्यते, तदा कुत: वयं प्रकाशं प्राप्नुम: इति याज्ञवल्क्येन उक्तं चन्द्रात् इति । अतृप्तेन जनकेन पुन पृष्टं चन्द्रस्य अनुपस्थित्याम्, उदाहरणार्थम् अमावास्यायां, केन प्रकाशं दीयते इति ।
तदा याज्ञवल्क्य: इतोपि जनकं अनिश्चितस्थित्यां त्यक्तुम् अनिच्छन्, अस्मभ्यम् आत्मन: प्रकाशम् उपलभ्यते इत्युक्त्वा जनकस्य समाधानं
अकरोत् ।

अनेन उत्तरेण जनकस्य शङ्का दूरीकृता इति अस्माभि: चिन्तनीयं,यत: पुन: जनकेन किमपि न पृष्टम् । इदम् उत्तरं प्रमाणीकरोति यत्, दृश्यमानौ सूर्यचन्द्रौ अपि अदृश्यमानात् ब्रह्मण: एव प्रकाशं प्राप्नुत: इति समासेन/ संक्षिप्तेन वक्तुं शक्नुम:

।| जयतु संस्कृतम्, लसतु संस्क्रुतम् ॥

अय्यर् सुब्रह्मणिय:, फ्रीमोण्ड्, कलिफोर्णिया, /१९/२००८

Debate Between Senses

एकस्य दूरदर्शन कार्यक्रमस्य संस्कृत्तानुवाद:-

एकदा पञ्चेन्द्रियाणां मध्ये चर्चा संभूता / उद्भूता यत्, शरीरस्य निर्वाहण / निर्वहण विषये कस्य भूमिका महत्वं वहतीति । युगलम्(pairs) इत्यत: कर्णौ, नेत्रे, नासिका छिद्रे च, तेषामेव भूमिका: श्रेष्ठा: इति दृढतया तर्कितवन्त: । तदा रसनया उक्तं यत्त्, सापि कार्यद्वयं कुर्वती अस्तीति – भाषणम्, भोजनस्य आस्वादनं च । एतत् श्रुत्वा, त्वचा उक्तं यत् मानवस्य सम्पूर्णं शरीरं, नख-शिख पर्यन्तं (केशादिपादं) तया एव व्यापितम् अस्ति, अत: शरीरव्यवहारे तस्या: एव भूमिका महत्वं वहति इति ।
समरसस्य अभावात्, सर्वाणि इन्द्रियाणि अन्तिम निर्णयाय ब्रह्मदेवं प्रति गतवन्त:, तस्य समक्षं समस्यां समर्पितवन्त: च । पर्यालोचनानन्तरं, विधाता आदिशत् यत्, एकैकेन अपि शरीरस्य व्यवहारात् एकस्य दिनस्य विरामं स्वीकरणीयम् इति । तथैव सर्वम्(each) इन्द्रियम एकैकस्य दिनस्य अवकाशं स्वीकृतवन्त: ।
पप्रथमं कर्णौ, अनन्तरे दिने नेत्रे, इति क्रमेण सर्वाणि इन्द्रियाणि शरीरव्यवहारात् विरामं स्वीकृतवन्त: । यदा नासिका विरामं स्वीकृतवती, तस्मिन् दिने तस्या: श्वासोच्छ्वास कार्यं मुखेन कृतम् । एवं रीत्या एकस्य इन्द्रियस्य अनुपस्थित्याम् इतराणाम इन्द्रियाणां साहाय्येन, शरीरव्यवहारं यथाविधि केनापि अवरोधेन/विघ्नेन विना सम्यक् प्रचलति स्म - नाम, पुन: किमपि निर्णयं न जातम् ।
तस्मिन् समये, कुतोऽ अपि हास: श्रुत:। इन्द्रियाणि इतस्तत: अवलोकितवन्त: । हास: आसीत् "आत्मन:" –एकता / ऐक्य रहिते शरीरे अहम् उषितुं न् इच्छामि इति वदन् आत्मा अपि नित्यविरामं स्वीकृतवान् | शेषं चिन्त्यम् |
॥ जयतु संस्कृतं, लसतु संस्कृतम्॥
अय्यर् सुब्रह्मणियम्, फ्रिमोण्ड्, कलिफोर्णिय

Mysore Zoo Incident

सप्तत्रिंशद्भ्य: वर्षेभ्य: पूर्वं घटिता घटना एषा । यदा, वयं मम तदानीन्तनं
मित्रं, वेंकटराव् महोदयस्य परिवारेण सह कर्णाटक राज्यस्य पर्यटनार्थं गतवन्त: ।

एकस्मिन् दिने, मैसूरु नगरस्थां वन्य जन्तु शालां (मृगशालां) द्रष्टुं गतवन्त: ।
यदा चित्रकस्य (leopard) पञ्च्ररस्य समीपं प्राप्तवन्त:, तदा अस्माकं चत्वारि वर्षीय:
द्वितीय: पुत्र: श्रीराम: (य: इदानीम् अमेरिका देशे वर्तते) सहसैव तत्रत्य लोह-वृत्तिम्\
प्राचीरम् उल्लङ्ग्य चित्रकस्य पञ्चरस्य निकटे एव गतवान् । मानवं समीपे दृष्ट्वा
चित्रक: वेगेन पलायन् आगत्य पञ्चरस्य अन्तर्भागे प्रहारं कर्तुम् आरब्दवान् ।बालक: भीत्या रुधन् वृत्तिम् उल्लङ्ग्य प्रत्यागतवान् । भाग्यवशात्,असम्भावितं किमपि न
घटितम् । अस्माकं पुत्र: इमाम् अविस्मरणीयां घटनां स्मरति वा न वा इति न जानीम: ।

तत्र् आगतवन्त:/आगता: सर्वे प्रेक्षका: अस्माकं अनवधानस्य कृते अस्मान्
भृशं तर्जितवन्त:

अय्यर् सुब्रह्मणिय:, कालेण्डा कोमण्, कलिफोर्णिया, २१/१०/०८

Thamboora

महाकायं तम्बूरवाद्यम्

कर्णाटकस्थे बङ्लूरु नगरे, विश्वस्य बृहद्कायस्य तम्बूरवाद्यस्य उद्घाटनं, विख्यात्री कलाकारी श्यामला G भावे महोदयया कृतम् । rain tree नामकात् वृक्षत: निर्मितस्य अस्य तम्बूरवाद्यस्य दैर्घ्यम् ११ पादम्, भार: १५० कि-ग्र्- च वर्तेते ।
अपर: विशेष: नाम अस्य तम्बूरवाद्यस्य मुखपुटे:-
मैसूरु दसरा पर्वोत्सव: - लक्ष्मी: - सरस्वती - गणेश: - त्यागरायस्वामिन: अमर पञ्चरत्न कीर्तनस्य प्रथमा रे(ले)खा, - मयूर: - व्याघ्र: - कमलपुष्पम् - आम्रफलम् - वट वृक्ष: - भारतस्य राष्ट्र गीतं, तदैव भारतस्य राष्ठ्र चिन्हम्, एते सर्वेऽपि उत्कीर्णा:
(चित्रिता:) सन्ति ॥

॥ जयतु संस्कृतम्, लसतु संस्कृतम्॥

अय्यर् सुब्रह्मणिय:, फ्रीमोण्ड्, कालिफोर्णिय - १८/९/०८

Marriage Incident

एका वास्तविकी घटना

सभागृहे विवाहविधि: प्रचलति स्म । माङल्यधारणमुहूर्त: सन्निहित: । सहसा वरस्य लोभी पिता गर्जितवान् यत्, यावत् पर्यन्तं वरदक्षिणाया: अवशिष्ठं भागं (रू १०,०००) न प्राप्तं, माङल्यधारणं न भविष्यति इति । एतत् श्रुत्वा वध्वा: पिता अवशेषस्य धनस्य अर्पणाय दिनद्वयस्य अवधिं प्रार्थितवान्, परन्तु तस्य याचना वरस्य दयाहीनस्य पितु: श्रुतिपथे न पतिता एव ।

किंकर्तव्यमूढतया पीडित: वध्वा: वराक: पिता, गत्यन्तरं विना ऋणसंग्रणार्थं बहि: गतवान्, किञ्चित्त् समयानन्तरं टाक्सी्यानेन प्रत्यागत्य, टाक्सीं प्रेषितवान् (त्यक्तवान्) च । सभागृहं प्रत्यागतस्य तस्य दीनस्य आनन्दं स्वल्पकालानन्तरम् एव निर्गतं, कारणं, स: धनस्यूतम् उद्वेगता कारणत: टाक्सीयाने एव विस्मृतवान् । एतां वार्तां श्रुत्वा वरस्य कठोरमनस्क: पिता इतोपि कोपेन स्वपुत्रं विवाह मञ्चात् बहि: आगन्तुम् आज्ञापितवान् ।

समनन्तरमेव टाक्सीयानचालक: सभागृहम् आगत्य, वध्वा: पितरं अन्विष्य, तस्य हस्ते धनस्यूतं स्थापितवान् । एतत् दृष्ट्वा वरस्य लोभी जनक: स्मारवदन: अभूत् - स: स्वपुत्रं पुन: मञ्चे उपावेश्य माङल्यधारणं कर्तुम् आदिष्टवान् च ।

इदानीम् अकस्मात् वधू मञ्चत: उत्थाय, “सभागृहत: बहि: गच्छतु” इति वरं उक्तवती । अनन्तरं सा सुशिक्षिता वधू, तत्र घटनां पश्यन् तिष्ठन्तं टाक्सीचालकस्य समीपं गत्वा, स: विवाहित: वा इति पृष्ठवती । निर्धन:, अशिक्षित: स: चालक: स्वयं विवाहार्ह: न, इत्युक्तवान् तथापि, सा वधू, मातापितरौ अपृच्छन्ती एव, तस्य टाक्सीचालकस्य हस्तं गृहीत्वा तस्य सभ्यता, सत्यनिष्ठा च एव तस्य ऐश्वर्यम् इत्युक्त्वा तस्य हस्तेन माङ्गल्यधारणं कारितवती । अनपेक्षतया प्राप्तेन पारितोषकेन सह, टाक्सीचालक: तत: स्व-कुटीरं प्रति निर्गतवान् ॥

॥ जयतु संस्कृतम्, लसतु संस्कृतम् ॥

अय्यर् सुब्रणिय:, फ्रीमोण्ड्, कालिफोर्णिया - १८/९/०८

Mirror and Pride

दर्पण: इत्यस्मिन् शब्दे "दर्प:"(pride) इत्यपि पदम् अन्तर्गतं भवति । अत: एव, यदा यदा जना: दर्पण सविधे आयान्ति, तदा तदा निश्चयेन तेषां हस्तौ वदनम् उत केशं प्रति प्रसाध-नाय/परिष्करणाय गच्छत:। युतकस्य ग्रैवेयकम् (collar) इतरान् भागान् च समीचीनं कृत्वा,एकवारं प्रतिबिम्बम् अवलोक्य, पुन: युतकस्था: उत शाटिकाया: वली:(wrinkles) समीचीनतया संस्थाप्य, तत: शनै: सरन्ति । अन्तत: प्रसाधन उत्पीठिकात: निर्गमनात् पूर्वं पुन: एक वारम् अक्षिक्षेपं कृत्वा एव स: / सा बहि: आगच्छति । जगति, कुत्रापि गच्छाम: चेत्, वयं सर्वेषु जनेषु (विना लिङ्गभेदम्) अयं स्वभावं द्रष्ठुं शक्नुम: ।
खल्वाट:(bald) अपि दर्पणस्य पुरत: प्रकृत्या एव, ऊरुकस्य पृष्ठ कोषत: कङ्कतं स्वीकृत्य केशभूषणं करोति, यद्यपि तावान् केशान् न विद्यन्ते - कारणं यूनावस्थात: अधीतम् अभ्यासं पश्चिमे वयसि अपि ते सुलभेन त्यक्तुं न शक्नुवन्ति केषुचित् गृहेषु सर्वत्र - नाम चतुर्षु अपि भित्तिषु दर्पणा: दृश्यन्ते इति श्रूयन्ते, कारणं तत्रत्या: जना: गृहे एव इतस्तत: भ्रमण समयेऽपि स्वयं प्रतिबिम्बं द्रष्टुं शक्नुवन्ति । दर्पणस्य पुरत: खल्वाटस्य वृद्धस्य किं कार्यं भवति इति भवत: कौतूहलं भवति । प्राय: स: वदनस्था: चर्मरेखा:/वल्य: (wrinkles) एधन्ति उत न्यूनं भवन्ति इति गणयन्ति । परन्तु जना: न जानन्ति यत् दर्पण: न कदापि अस्माकं सत्यं प्रतिबिंम्बं दर्शयति इति । दर्पण: अस्माकं प्रतिबिम्बं विरुद्धतया (नाम वामभागस्य दक्षिणत्वेन, दक्षिण भागस्य वामत्वेन) दर्शयति, इति बहव: न चिन्तयन्ति । अत: अस्माकं सत्य स्वरूपम् इतरे जना: एव वक्तु्म् अर्हन्ति, कारणं, स्वयं निर्णये अस्माकं तृप्ति: न कदापि भवति । अपरस्य जनस्य मुखात् निर्गत: अभिप्रायम् एव अस्मान् मनस्तृप्तिं यच्छति ॥
॥ जयतु संस्कृतम्, लसतु संस्कृतम् ॥
अय्यर् सुब्रहमणिय:, फ्रीमोण्ड्, कालिफ्होर्णिय, आगुस्ट्, २००८



अय्यर् सुब्रह्मणियम्, फ्रीमोण्ड्, कालिफर्णिया, २५/८/२००८

Sajjana Daridra

इतोपि एकस्य दूरदर्शनस्य कार्यक्रम-विषयस्य अनुवाद:-

अद्यतन कथा आसीत् कश्चन लोभी धनिकस्य विषये । एकदा अयं धनिक: रू-१०,००० स्यूते संस्थाप्य नगरं प्रति गतवान् । अभाग्यवशात्, मार्गे कुत्रापि तस्य स्यूत: नष्ट: जात:। सम्यक् विचिन्त्य, स: विज्ञापनं कृतवान् यत्, य: कोऽपि तस्य च्युतं स्यूतम् अन्विष्य, प्रत्यर्पयति, तस्मै उपायनरूपेण रू.१,००० दीयते इति । अनन्तरं यथा सर्वासु कथासु संभवति, तथैव, स्यूतमयम् एकस्य दरिद्रस्य परन्तु सज्जनस्य हस्तं प्राप्नोत् । यद्यपि तद्धनं तस्य जीवने तात्कालिकं प्रकाशम् आनेतुं शक्नोति, तथापि स: सज्जन: तं स्यूतं प्रत्यर्पयितुं निश्चयं कृतवान् , तदनुगुणं धनिकस्य गृहं गत्वा स्यूतं प्रत्यर्पितवान् च। स्यूतस्य दर्शनेन धनिक: प्रकृत्या तुषित: अभवत्, परन्तु तस्य कुबुद्धि: रू १००० उपायनस्य सञ्चयनाय रक्षणाय, उपायस्य अन्वेषणं कृतवती । तदनुगुणं धनिक: कोपेन दरिद्रं पृष्टवान्, स्यूतस्थं मौक्तिकं कुत्र गतम् इति | वराक: सत्यसन्ध: सज्जन: यद्यपि धनं विहाय स्यूते किमपि न आसीत् इत्युक्तवान्, तथापि धनिक: उपायनं निराकृतवान् ।
गत्यपरं विना सज्जन: ग्रामस्य न्यायाधीशस्य समीपं गत्वा धनिकस्य अन्यायं प्रति दुख:निवेदनं समर्पितवान् । न्यायाधीश: अपि धनिकम् आहूय यथा्विधि गवेषणं कृत्वा, यदोक्तं दरिद्राय उपायनं दातुम् आज्ञापितवान् । यदा धनिकेन पुन: उपायनं निराकृतं तदा न्यायाधीश: धनिकस्य चतुरताम् ऊहित्वा एकम् उपायम् अचिन्तयत् । तदनुगुणं स: धनिकम् उक्तवान् यत्, यत: स्यूते मौक्तिकं न विद्यते स्यूतमयम् इतरेषां भवेत् इति । अकस्मात् न्यायाधीशस्य निर्णयं श्रुत्वा किंकरणीय-संमूढतया पीडित: स: धनिक: संपूर्णं धनं नष्टं भवेत् इति भीत्या उपायनं दातुं सिद्ध: अभवत् । अन्ते, धनिकस्य असत्य / अधार्मिक आचरणाय / व्यवहरणाय तं रू-१००० दण्डम् अपि कृतवान् ।

॥ जयतु संस्कृतम्, लसतु साम्स्कृतम् ॥
अय्यर् सुब्रह्मणियम् - फ्रीमाण्ड्,कालिफोणिया – १५/८/२००८-

Rajarshi Janaka

अमेरिका देशे, प्रतिदिनं प्रात:काले SUN इत्यस्य दूरदर्शनप्रणाल्याम् एक:स्वामिनाथन् नामक: विज्ञ: धार्मिककथा: कथयति । अमुक् दिने मया श्रुताया: कथाया: भाषान्तरम् अध: ददामि । यदा यदा एतादृशा: कथा: शृणोमि, तदा तदा भाषान्तरं कृत्वा प्रेषयामि ॥

जनक: एक: राजर्षि: आसीत् । एकदा, केचन "कथं वा भवान् राज्यपालनेन सह ऋषे: वृत्तिम् अपि आचरितुं शक्नोति" इति तं पृष्टवन्त: | तदा जनक: तान् परेद्यु: भोजनार्थम् आमन्त्र्य, तस्मिन् समये प्रश्नस्य उत्तरम् उपलभ्यते इत्युक्तवान् । यदा अपरेद्यु: निश्चितसमये अतिथय: आगत्य भोजनपीठे उपविष्टवन्त:, तदा ते एकैकस्यापि भोजन-स्थाल्या: उपरि / उपरिष्टात् दोलायमानं केशं दृष्टवन्त: । कदापि लंबमानं केशं स्थाल्यां पतेत् इत्यस्य भीत्या, ते केशं प्रति वीक्षयन् एव, मौनेन यथा कथापि भोजनं समापितवन्त: । भोजनानन्तरं, जनकस्य प्रश्नस्य उत्तर-रूपेण भोजनम् अतीव रुचिकरम् आसीत् इति कथितवन्त: च ।

परंन्तु जनक: तेषां वदनेषु केचित्त् भ्रान्तिम् उद्वेगतां च अवलोक्य कारणम् अपृच्छत् । तदा एव, ते दोलायमानस्य केशं प्रति तेषां भ्रान्ते: प्रस्तावनं कृतवन्त: । तदा जनक: "यथा भवन्त: दोलायमाने केशे वीक्षणं स्थापयन्त: एव भोजनमपि कृतवन्त:, तथैव अहमपि "आत्मनि" मन: संस्थाप्य, राज्यपालनमपि कुर्वन् अस्मि" इति उक्तवान् । नष्टभ्रान्ता: अतिथय: तत: निश्चिन्तया निर्गतवन्त: ॥
॥ जयतु संस्कृतम्, लसतु संस्कृतम् ॥

अय्यर् सुब्रह्मणिय:, फ्रीमण्ड्/१/८/२००८

Muir Woods

विगते रविवासरे (१५/१०/२००६) भोजनानन्तरं वयं गृहात् १.३० वादने निर्गत्य/म्य "म्युर् वुड्स्" नामकं वनंप्रति गतवन्त:। तस्मिन् निबिडे आरण्ये घटाद्वयम् अटित्वा ६-३० वादने गृहं प्रत्यागतवन्त: ।

तत्रत्य बृहद् (३७० पदं यावत् उन्नतस्य, २७ पाद व्यासस्य) पुरातनान् (१००० वर्षाणाम् अधिकम्) महाद्रुमान् दृष्ट्वा वयं सर्वे विस्मयाकुला: (विस्मयाविष्टा:) अभवन् । गहन-वनमिदं वृक्षेभ्य: पूरितं, सम्प्लुतम् (वृक्षमयम्) अस्ति । तत्र १००० वर्षीयस्य पुरातनस्य महाद्रुमस्य खण्डम् एकं प्रदर्शनाय स्थापितम् अस्ति, यत्र अधोलिखितं विवरणम् अपि उल्लिखितम् अस्ति:-

१)वर्तुल रेखा: (रिन्ग्स्) वृक्षस्य आयु:/कालं सूचयति
२)समीपस्ता: वर्तुल रेषा: सूचयन्ति यत् वृक्ष: बहु उष्ण
बाधा अनुभूतवान् इति - दूरस्था रेखा सूचयति यत् अयं वृक्ष:
अतीव शीतबाधया पीडितवान् इति
३)एतस्य वृक्षस्य दग्ध्खाण्डे अधिका: कृष्ण्वर्णीय भागा:/अंशा:
दृश्यन्ते चेत् वृक्षमयम् अनलॆन अतीव बाधितवान् इति
ज्ञातव्यम् ।

अय्यर् सुब्रह्मणिय: फ्रीमोण्ड्, कालिफोर्णिया