Tuesday, December 21, 2010

Sringeri Mutt Speech

ॐ श्री गुरुभ्यो नम: भाषारूपिण्यै नम: वाग्देव्यै नम: महासरस्वत्यै नम्:
नम: सर्वेभ्य:

भवन्त: प्रमाणपत्राणि प्राप्तवन्त: । अग्रे पुन: वर्गे अध्ययनम् अनुवर्तते । भवत: संस्कृत-ज्ञानविषये अपरा: कथं जानन्ति । यदा भवन्त: संस्कृतेन सरलतया वक्तुं शक्नुम: तदा एव अन्यच्छ, संम्भाषणेन विना कापि भाषा चिरकालं न जीवति, कारणं सम्भाषणं सर्वासां भाषाणां जीवनाडी वर्तते । केचन वदन्ति संस्कृतभाषा मृता इति । सा अद्यापि सजीवा अस्ति, यत: न केवलं भारतदेशे अपि तु विदेशेषु तत्र तत्र जना: संस्कृतमाध्यमेन व्यवहरन्ति । अद्यतन केचन युवान:/युवत्य: मातृभाषया वक्तुं काठिन्यम् अनुभवन्ति,परन्तु आङ्गलभाषया धाराप्रवाहरीत्या वार्तालापं कुर्वन्ति ।
वर्षद्वयेभ्य; पूर्वं वैद्यलिङ्गमहोदय: प्रति रविवासरे संभाषणवर्गस्य आयोजनं अकरोत्
परम् उपस्थिति: कृशा भूत्वा मासद्वयाभ्यन्तरे एव वर्ग: स्थगित: अभवत् । इदानीं मास-द्वयात् पूर्वं पुन: स: सम्भाषणवर्गस्य सवैभवम् आयोजनं कृतवान् । दुर्भाग्यवशात्, छात्रेषु अस्मिन् विषये तावती आसक्ति: न दृश्यते, यत: विगते रविवासरे मया सह केवलं वैद्यलिङ्गं महोदय: राजू महोदय: च वर्गे आसन् । अस्मिन् वर्गस्य विषये, भवन्त: एव निर्णयं कर्तुम् अर्हन्ति ।
१५ वर्षेभ्य: पूर्वम् अत्र अभिनवविद्यातीर्थ वेदपाठशालाया:, ग्रन्थालयस्य च उद्घाटनं श्रूङ्गेरि मठाधीशै: भारतीर्थस्वामिभि: कृतम् । तदवसरे अनुग्रहभाषणं कुर्वाणा: स्वामिन:
अवोचन् यत संस्कृताध्ययनं सर्वेषां भारतीयानां कर्तव्यं वर्तते इति तथैव, अनध्ययनं संस्कृतमातु: अनादर: अपमान: च भवत: इत्ति । वयं आचार्याणाम् दर्शनसमये, युतकं निष्कास्य पञ्चगच्छं धरित्वा बद्धाञ्ज्ल्या नम्रतया च तेषाम् समक्षं गच्छाम:, परन्तु तेषाम् आज्ञानुसारं न कदापि व्यवहराम: इत्यस्य विषय: कटु सत्यमेव । अस्मिन् विषये अस्माभि: चिन्तनीयम् ।
जयतु संस्कृतम्, जयतु भारतम् ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – २०/६/२००९

1 comment:

  1. भवान् फेसबुके वर्तते किं वा ?

    ReplyDelete