द्वादशकं शिबिर वृत्तम्
चेम्बूरस्थे शृङ्गेरि मठ्स्य आश्रये, श्री वैद्यलिङ्गं महोदयस्य साहाय्येन, भारतदेशस्थं मम षष्ठं दशदिनात्मकं शिबिरं, विगतस्य वर्षस्य अन्तिमेषु दश दिनेषु (नाम २००८ डिसेम्बर् २२ तम: दिनाकत: ३१ तमं दिनाङ्कपर्यन्तं) प्राचलत् ।
यद्यपि प्रथमे दिने १३ संस्कृतार्थिन: आगतवन्त:, अन्तिमे दिने १० सहभागिन: एव आसन्। । एते श्रद्धालव: विद्यार्थिन:, (ये प्रतिदिनम् आगच्छन्ति स्म), अर्थपूर्णान् प्रश्नान् पृच्छन्ति स्म । भागगृहीतृषु, ५ महिला:, ५ पुरुषा: च आसन् । शिबिरस्य अनन्तरं सर्वे
१-१०० संख्ह्या:, समय:, दिनचर्या च संस्कृतेन स्पष्टतया आत्मविश्वासेन च वक्तुं शक्नुवन्ति प्रथमे दिनद्वये एका बालिका अपि आगतवती, परं विरामस्य अनन्तरस्य परीक्षाया: सिद्धता करणीया इत्यस्य कारणत: अनन्तरं सा वर्गं त्यक्तवती ।
शिबिरस्य समापनदिने वैद्यलिङ्गं महोदयेन सह, शृङ्गेरि मठस्य संस्कृत ग्रन्थालयस्य
निर्वाहक:, श्री रामचन्द्रन् महोदय: अपि वेदिकाम् अलङ्कृतवान् । सहभागिन: (छात्रा:) लघु शब्दकोशम्, व्यवहार साहस्री, चित्रपदकोश:, अभ्यासपुस्तकम्, पञ्चतन्त्र-कथा: इत्यादीनि पुस्तकानि क्रेतुम् इष्टवन्त: । प्राय: इदानीं एतानि पुस्तकानि अत्र समये न उपलभ्यन्ते इत्यस्य कारणत: अहं बङ्गलूरुरस्थे संस्कृत भारती्कार्यालयत: प्राप्तुं सङ्कणकद्वारा आयोजनं कृतवान् ।
शिबिरस्य समापनस्य समनन्तरमेव, परेद्यु: (नाम जनवरी प्रथम दिनाङ्गत:)
साप्ताहिक-मेलनवर्गस्य आरब्दम् अपि कृतम् । अस्मिन् मेलने संभाषणाभ्यासमपि भवति वैद्यलिङ्गं महोदयाय कृतज्ञतार्पणेन सह अहं इदं वृत्तम् अत्र समापयामि ।
यदा अहं द्विवारं – २००६ तमे वर्षे, २००८ तमे वर्षे च - प्रवासाय अमेरिका-देशं गतवान्, तदा क्यालिफोर्णिया राज्यस्य फ्रीमोण्ड् इति नामके नगरे आहत्य ६ शिबिराणि (प्रथम दीक्षाया:, द्वितीय दीक्षाया: वर्गान् विहाय) चालितवान् । भारतदेशेऽपि अद्यावदि ६ शिबिराणि, प्रथम दीक्षाया: वर्गद्वयमपि चालितवान् । आहत्य विगते वर्षद्वये द्वादशकानि शिबिराणि मया चालितानि । वाणी देव्या: आशिषा, मुम्बैस्थे संस्कृतभारत्या: कार्यकर्तॄणां, संस्कृतबन्धूनां साहाय्येन मार्गदर्शनेन च एव एतत् संस्कृतसेवा साधिता इति अहं मन्ये ।
॥ संस्कृतमातु: सेवायां - अय्यर् सुब्रमणिय:, चेम्बुर्, मुम्बै ४०००७१ – १/१/२००९ ॥
Tuesday, December 21, 2010
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment