Tuesday, December 21, 2010

Saint and Two Youths

दूरदर्शनात् श्रूताया: एकस्या:तमिल् कथाया: संस्कृतानुवाद:

एकस्मिन् ग्रामस्य प्रान्ते एक: क्षपणक: (बौद्ध सन्यासिन्) तस्य कुटीरे निवसति स्म ।
एकदा द्वौ युवानौ तम् उपगम्य/अभिगम्य धनरूपेण भिक्षां याचितवन्तौ । तदा मुनि: तौ
आश्रमात् किञ्चित्त् दूरे वर्तमानस्य वृक्षस्य समीपं नीत्वा तस्य अध: खननं कर्तुं प्रेरितवान् ।
किञ्चित् खननेन एव ताभ्यां तत्र एक: घट: प्राप्त: । तस्मिन् घटे विपुलानि अमूल्यानि
आभरणानि, मौक्तिकानि च आसन् । मुने: अनुमोदेन सह/आज्ञानुसारं तौ तं घटं गृहं प्रति
नीतवन्तौ । मार्गे तयो: कुमति: अवदत् यत् मुने: समीपम् इतोऽपि अधिका धनराशि:
स्यात्, अथवा स: एतानि अमूल्यानि आभरणानि न अदास्यत् इति । एवं विचिन्त्य,तौ
पुन:मुनिं समुपगम्य तम् इतोऽपि अधिकाय धनाय प्रार्थिवन्तौ च । मुनि:तस्य समीपे
वर्तमाना: अवशिष्ठा: सम्पद: अपि दातुम् सम्मति: प्रकटितवान्, परन्तु नियम: आसीत्,
ताभ्यां तस्य आश्रमे दिनत्रयं स्थित्वा तस्य आज्ञाया: पालनं करणीम् इति । धनाशया
पीडितवन्तौ तौ अपि सहमतिं दत्तवन्तौ ।
तयो: दिनचर्या एवम् आसीत्- उष:काले, नाम प्रात:४ वादने उत्थानम् अनन्तरम्
एका घण्टा यावत् ध्यानं, पश्चात् योगाभ्यासं, तत्पश्चात् आश्रमं परित: दशवारं भ्रमणं,
तत्रत्यानां पादपानां (सस्यानां, वृक्षाणां च) जलेन सिञ्चनम्, समीपस्थ: वनत: पाकाय
इन्धनस्य कृते काष्ठानाम् आनयनं, मध्याह्ने विश्रान्ति:, अनन्तरं अद्ययनं, सायङ्काले पुन:
ध्यानम् इति । एवं रीत्या आदिनस्य धार्मिक-कार्यक्रमेण तयो: मन:स्थित्यां परिवर्तनं अभूत् ।
फलत: इहलोकजीवने तयो: अभिरुचि: नष्ठा भूत्वा तौ आश्रमे एव अवशिष्ठं जीवनं मुने: सेवने
यापितवन्तौ इति कथा वदति ।

अय्यर् सुब्रह्मणियम्, चेम्बूर्, मुम्बई- १२/९/०९

No comments:

Post a Comment