Tuesday, December 21, 2010

Sajjana Daridra

इतोपि एकस्य दूरदर्शनस्य कार्यक्रम-विषयस्य अनुवाद:-

अद्यतन कथा आसीत् कश्चन लोभी धनिकस्य विषये । एकदा अयं धनिक: रू-१०,००० स्यूते संस्थाप्य नगरं प्रति गतवान् । अभाग्यवशात्, मार्गे कुत्रापि तस्य स्यूत: नष्ट: जात:। सम्यक् विचिन्त्य, स: विज्ञापनं कृतवान् यत्, य: कोऽपि तस्य च्युतं स्यूतम् अन्विष्य, प्रत्यर्पयति, तस्मै उपायनरूपेण रू.१,००० दीयते इति । अनन्तरं यथा सर्वासु कथासु संभवति, तथैव, स्यूतमयम् एकस्य दरिद्रस्य परन्तु सज्जनस्य हस्तं प्राप्नोत् । यद्यपि तद्धनं तस्य जीवने तात्कालिकं प्रकाशम् आनेतुं शक्नोति, तथापि स: सज्जन: तं स्यूतं प्रत्यर्पयितुं निश्चयं कृतवान् , तदनुगुणं धनिकस्य गृहं गत्वा स्यूतं प्रत्यर्पितवान् च। स्यूतस्य दर्शनेन धनिक: प्रकृत्या तुषित: अभवत्, परन्तु तस्य कुबुद्धि: रू १००० उपायनस्य सञ्चयनाय रक्षणाय, उपायस्य अन्वेषणं कृतवती । तदनुगुणं धनिक: कोपेन दरिद्रं पृष्टवान्, स्यूतस्थं मौक्तिकं कुत्र गतम् इति | वराक: सत्यसन्ध: सज्जन: यद्यपि धनं विहाय स्यूते किमपि न आसीत् इत्युक्तवान्, तथापि धनिक: उपायनं निराकृतवान् ।
गत्यपरं विना सज्जन: ग्रामस्य न्यायाधीशस्य समीपं गत्वा धनिकस्य अन्यायं प्रति दुख:निवेदनं समर्पितवान् । न्यायाधीश: अपि धनिकम् आहूय यथा्विधि गवेषणं कृत्वा, यदोक्तं दरिद्राय उपायनं दातुम् आज्ञापितवान् । यदा धनिकेन पुन: उपायनं निराकृतं तदा न्यायाधीश: धनिकस्य चतुरताम् ऊहित्वा एकम् उपायम् अचिन्तयत् । तदनुगुणं स: धनिकम् उक्तवान् यत्, यत: स्यूते मौक्तिकं न विद्यते स्यूतमयम् इतरेषां भवेत् इति । अकस्मात् न्यायाधीशस्य निर्णयं श्रुत्वा किंकरणीय-संमूढतया पीडित: स: धनिक: संपूर्णं धनं नष्टं भवेत् इति भीत्या उपायनं दातुं सिद्ध: अभवत् । अन्ते, धनिकस्य असत्य / अधार्मिक आचरणाय / व्यवहरणाय तं रू-१००० दण्डम् अपि कृतवान् ।

॥ जयतु संस्कृतम्, लसतु साम्स्कृतम् ॥
अय्यर् सुब्रह्मणियम् - फ्रीमाण्ड्,कालिफोणिया – १५/८/२००८-

No comments:

Post a Comment