Tuesday, December 21, 2010

Marriage Incident

एका वास्तविकी घटना

सभागृहे विवाहविधि: प्रचलति स्म । माङल्यधारणमुहूर्त: सन्निहित: । सहसा वरस्य लोभी पिता गर्जितवान् यत्, यावत् पर्यन्तं वरदक्षिणाया: अवशिष्ठं भागं (रू १०,०००) न प्राप्तं, माङल्यधारणं न भविष्यति इति । एतत् श्रुत्वा वध्वा: पिता अवशेषस्य धनस्य अर्पणाय दिनद्वयस्य अवधिं प्रार्थितवान्, परन्तु तस्य याचना वरस्य दयाहीनस्य पितु: श्रुतिपथे न पतिता एव ।

किंकर्तव्यमूढतया पीडित: वध्वा: वराक: पिता, गत्यन्तरं विना ऋणसंग्रणार्थं बहि: गतवान्, किञ्चित्त् समयानन्तरं टाक्सी्यानेन प्रत्यागत्य, टाक्सीं प्रेषितवान् (त्यक्तवान्) च । सभागृहं प्रत्यागतस्य तस्य दीनस्य आनन्दं स्वल्पकालानन्तरम् एव निर्गतं, कारणं, स: धनस्यूतम् उद्वेगता कारणत: टाक्सीयाने एव विस्मृतवान् । एतां वार्तां श्रुत्वा वरस्य कठोरमनस्क: पिता इतोपि कोपेन स्वपुत्रं विवाह मञ्चात् बहि: आगन्तुम् आज्ञापितवान् ।

समनन्तरमेव टाक्सीयानचालक: सभागृहम् आगत्य, वध्वा: पितरं अन्विष्य, तस्य हस्ते धनस्यूतं स्थापितवान् । एतत् दृष्ट्वा वरस्य लोभी जनक: स्मारवदन: अभूत् - स: स्वपुत्रं पुन: मञ्चे उपावेश्य माङल्यधारणं कर्तुम् आदिष्टवान् च ।

इदानीम् अकस्मात् वधू मञ्चत: उत्थाय, “सभागृहत: बहि: गच्छतु” इति वरं उक्तवती । अनन्तरं सा सुशिक्षिता वधू, तत्र घटनां पश्यन् तिष्ठन्तं टाक्सीचालकस्य समीपं गत्वा, स: विवाहित: वा इति पृष्ठवती । निर्धन:, अशिक्षित: स: चालक: स्वयं विवाहार्ह: न, इत्युक्तवान् तथापि, सा वधू, मातापितरौ अपृच्छन्ती एव, तस्य टाक्सीचालकस्य हस्तं गृहीत्वा तस्य सभ्यता, सत्यनिष्ठा च एव तस्य ऐश्वर्यम् इत्युक्त्वा तस्य हस्तेन माङ्गल्यधारणं कारितवती । अनपेक्षतया प्राप्तेन पारितोषकेन सह, टाक्सीचालक: तत: स्व-कुटीरं प्रति निर्गतवान् ॥

॥ जयतु संस्कृतम्, लसतु संस्कृतम् ॥

अय्यर् सुब्रणिय:, फ्रीमोण्ड्, कालिफोर्णिया - १८/९/०८

No comments:

Post a Comment