Tuesday, December 21, 2010

विधिरहो महान्

विधिरहो महान्

पूर्णमास गर्भिण्या पत्न्या सह अमुक: बीहार् प्रान्ते कुत्रापि रेल्यानेन रुग्णालयं प्रति
गच्छति स्म । रात्रौ प्राय:११ वादनसमये, यदा सहप्रवासिन: निद्रावस्थायां आसन्, तदा
एषा महिला यानपेटिकाया: शौचालयं गतवती, प्रसाधनसमये युगपत् शिशो: प्रसूति:
अपि अभवत् । किं जातं इति ज्ञानात् पूर्वमेव, शिशु: चलत: रेल्यानस्य शौचालस्य
बिलद्वारा अधस्थने रेल्मार्गे पतित: च । प्रज्ञां प्राप्ता माता घटनां अवगम्य,यदा शिशो:
अनुपस्थितिं लक्षितवती, तदा रेल्यानं इतोऽपि १ किलोमीटेर् अग्रे गतम् आसीत् । किंकर्तव्य-
मूढतया बाधिता सा माता क्षिप्रं/द्रुतगत्या् प्रसाधनत: बहि: आगत्य, धावन्ती एव यान-
पेटिकाया: प्रवेशद्वारं उद्घाट्य चलत: रेल्यानत: अन्तरे कूर्दितवती, रेल्मार्गे पतिता च ।
आरवारं श्रुत्वा यदा सहयात्रिण: निद्रात् उत्थितवन्त:, तदा ते पेटिकाया: उद्घाटितं द्वारं
गर्भिण्या: अनुपऽस्थितिं च लक्षितवन्त: । सा आत्महत्या कृता स्यात् इति विचिन्त्य, ते
यदा रेल्यानस्य स्थगनाय शृङ्खलां कर्षितवन्त: किञ्चित् दूरं गत्वा रेल्यानं स्थगितम् । सर्वे
अध: अवरुह्य इतस्तत: अन्वेषणं कृतवन्त:, १०/१५ निमेषानन्तरं तत्र रेल्मार्गे मातु: क्रोडे
स्तनपानं कुर्वन्तं शिशुं दृष्ट्वा आश्चर्यचकिता: अभवन् । अनन्तरं मातरं शिशुं च तत: नीत्वा,
समीपस्थे रेल्वे रुग्णालये प्रवेशनं कारितवन्त: च । तत्र उभयोऽपि सद्य कुशलपरिस्थित्यां
वर्तेते इति वार्तापत्रा: कथ्यन्ते । मात्रा प्रकृत्या: लीलावोनोदा: विचित्रा:अविश्वास्या: एव ।

अय्यर् सुब्रह्मणियम्, चेम्बूर्, मुम्बै – १०/१०/।०९

No comments:

Post a Comment