Tuesday, December 21, 2010

विचित्रं दण्डनम्

विचित्रं दण्डनम्

एकदा एक: मानव: विनाकारणं सारमेयंप्रति शिलाखण्डं न्यक्षिपत् । वयं सर्वे
जानीम:यत् यदा शुनक: शिलाखण्डं च युगपत् दृश्येते, मानव: स्वभावदोषेण कुक्कुरं
शिलाखण्डेन ताडयतीति । दु:खित: श्वान: ईश्वरं प्रति स्वकीयं व्यसनं आक्षेपरूपेण
निवेदित्वा न्यायं प्रार्थितवान् च ।विधाता यदाविधि मानवं आहूय सम्यक् विचारणं
अकरोत् । मानवेन उक्तं यत् तस्य भोजनसमये, शुनक: तस्स् स्थालिकांप्रति एव
पश्यन् आसीत्, अत: एव कोपेन मया तथा कृतम् इति । परन्तु, भगवता पृष्ठं यत् किमर्थं
कुक्कुराय लवलेशमपि न दत्वा स्वयमेव सर्वं खादितम् इति । अत: एतस्य अमानुष्य
व्यवहाराय तेन उचितं दण्डनम् अनुभूतव्यम् । इदानीम् ईश्वर: शुनकं पृष्ठवान् मानवाय
किं दण्डनं दातव्यम् इति । सारमेयेन उक्तम् अयं मानवं भवान् भुवि कस्मिन्नपि आढ्य
मन्दिरे धनाधिकारिस्थाने नियोजयतु इति । भगवता पृष्ठं किमर्थम् एवं विचित्रस्य दण्डनस्य
उपस्थापनं करोति इति । शुनकेन उत्तरितम् “अहं स्वयं पूर्वजन्मनि एकस्मिन् देवालये
कोषाधिकारि आसम्, तत्र मया कृतम् अधर्माचरण कारणत: एव अस्मिन् अवतारे शुनकरूपेण जनितवान् ” इति |

शेषं चिन्त्यम् ।


अय्यर् सुब्रहमणिय: चेम्बूर्, मुम्बै – १२/१०/२००९

No comments:

Post a Comment