Sunday, October 18, 2009

(9)

संस्कृतभाषायां संभाषणसामर्थ्यप्राप्त्यर्थं केचन उपाया:

नमो नम:, अद्य दक्षिणभारतीय जनानां नूतन वर्ष: भवति । अस्मिन् शुभदिने तेभ्य: अस्माकं शुभाशया: विगते रविवासरे इन्दिरा महोदया पृष्टवती यत् सम्स्कृतेन संभाषणकौशल्यप्राप्त्यर्थं किं करणीयम् इति अस्मिन् विषये मम चिन्तनम् अत्र भवद्भि: सह भाजितुम् इच्छामि ।

संभाषणं भाषाया: जीवनाडी भवति इति विद्वांस: वदन्ति । अत: सम्भाषणेन/संभाषणं विना कापि भाषा चिरकालं जीवितुं न शक्नोति । उदाहरणार्थं तुलू भाषां स्वीकुर्म:, यस्या: लिपि: नास्ति, तथापि सा
संभाषणद्वारा अद्यापि सजीवा अस्ति ।

संभाषणस्य कृते सोपानस्य / निश्रेण्या: प्रथमं पदं भवति चिन्तनम् । आङ्गलभाषां विहाय वयं मातृभाषया एव चिन्तनं कुर्म: चेत्, न केवलम् अधिकाधिका संस्कृतशब्दा: अस्माकं स्मृतिपदे आयान्ति, अपि तु कालक्रमेण ज्ञायते यत् अवगमनेन विना वयं प्रतिदिनस्य व्यवहारे भूयिष्ट्भागेन संस्कृतशब्दान् एव उपयुज्याम: इति । वस्तुत: संस्कृतभारत्या: “Science in Sanskrit” इत्यस्य पुस्तकस्य प्रस्तावनानुसारम्,अस्माकं भारतीयानां कृते संस्कृतभाषा नूतना भाषा न, कारणं अस्मासु भाषासु ६० प्रतिशतं संस्कृतशब्दा: एव वर्तन्ते । नाम, वस्तुत: न(अ)जानन् एव वयं जन्मप्रभृति अस्माकं दैनन्दिनीये व्यवहारे भूयिष्ट भागेन संस्कृतशब्दानाम् उपयोगं कुर्वन्त: स्म: । अस्य ज्ञानेन अस्मान् संस्कृताध्ययनं सुलभं भवति इति मन्ये ॥

द्वितीयं पदं भवति शब्दसङ्ग्रहणं (vocabulary build up), यत् पुस्तक पठनद्वारा, दूरदर्शनवार्ताया: श्रवणद्वारा एव शक्यम् । नियमतया लघु बालमोदिनि सदृशेभ्य: पुस्तकेभ्य: आरभ्य संस्कृतपुस्तकानां पठनम्, दूरदर्शने संस्कृतवार्ताया: श्रवणं, सह्पाठिभि: सह संस्कृतमाद्यमेन संभाषणम् – एते शब्द सङ्ग्रहणाय उपकरणानि भवन्ति । दोषा: भवन्ति एव, तथापि निर्लज्जया व्यवहरणीयम् ।

तृतीयं पदं सम्स्कृतवातावरणस्य निर्माणं भवति । वयं सम्यक् जानीम: यत्, शिशव: गृहे मातृभाषाया: वातावरणे एव पुस्तकं / लेखनी इत्यादीनाम् उपकरणानां विना मातृ्भाषाभ्यासं कुर्वन्ति । अस्माभि: अपि नियमित साप्ताहिक संभाषण मेलन-द्वारा एतादृशं संस्कृतवातावरणं निर्मातव्यम् ।

एवं रीत्या प्राप्तान् संस्कृतशब्दान् एकस्मिन् पुस्तके लिखित्वा पौनपुन्येन/पुन:पुन:/वारं वारं पठनीयम्। तदनन्तरम् एतान् शब्दान् उपयुज्य, अन्यस्मिन् स्वयंलेखन नामके पुस्तके लघु संस्कृतवाक्यानां रचनं करणीयम् । एवं विधेन, कालक्रमेण अस्माकं मस्तिष्के अक्षरश: न केवलं संस्कृतशब्दकोशस्य निर्माणं भवति, अपि तु अस्माकम् आत्मविश्वासं वर्धते, शब्दानाम् आत्मसात्करणं जायते च । एवं प्रकारेण, संभाषणसमये, अनायासेन संस्कृतशब्दा: अस्मत् मुखात् निर्गच्छन्ति ।

यथा पर्याप्त धनेन विना वयम् अस्माकं वित्तकोषस्य लेखात:/लेखाया: धनं प्रत्याहर्तुं न शक्नुम:, तथैव, पर्याप्त शब्दसङ्ग्रहणं विना अस्माकं मस्तिष्क नामक शब्दकोषात् संस्कृतशब्दानां प्रत्याहरणं
कर्तुं न शक्नुम: ।

मम अनुभव: प्रमाणीकरोति यत् सरल सम्स्कृत संभाषणस्य कृते, स्नातक पदवी किंवा उपाध्या: आवश्यकता नास्ति । वस्तुत: प्राप्त स्नातकोत्तर पदवीका: अपि संस्कृतेन सम्भाषणं कर्तुं क्लेशम् अनुभवन्ति इति श्रूयते । दृढ संकल्पं, पर्याप्त समयव्ययं, किञ्चित् सुखत्यागम्, एतेषाम् उपकरणानां साहाय्येन कष्टकार्यमपि सुलभसाध्यं भवति । अत: इदानीम् एव धाराप्रवाह संस्कृतसंभाषणस्य
लक्ष्यंप्रति वयम् अग्रे सराम: ।

॥ जयतु संस्कृतम् लसतु संस्कृतम् ॥

अय्यर् सुभ्रह्मणिय:, चेम्बूर् – १२/ ४/ २००८
(1)

२००५ तमस्य वर्षस्य डिसम्बेर् मासे प्रवृत्ता घटना एषा | तत्समये चेम्बूरस्थे शृङ्गेरिमठे संस्कृतभारत्या: सुप्रिया षेणाय् भगिनी एकं दशदिनात्मकं शिबिरं चालयति स्म । सायं ७ वादनत: ८-३० वादन पर्यन्तं चलति शिबिरेस्मिन् अह-
मपि भागं स्वीकृतवान् । शिबिरस्थलं मम गृहत: पद्भ्यां केवलं दश निमिषाणां
दूरे एव आसीत्, इत्यत: अहं प्रतिदिनं पद्भ्याम् एव गच्छामि स्म ।
शिबिरस्थलस्य मार्गे आचार्य (डायमण्ड्)) उद्यानं वर्तते । तस्य वामभाग्४ए
मुख्यमार्गस्य समीचीनकार्यं प्रचलति स्म । खननस्य परिणामत: मार्गस्य मध्ये तत्र तत्र गभीरा: गर्ता: आसन् । अत: अत्र वाहनानां नियन्त्रणं भवति स्म । गर्तस्य दक्षिण-भागेन लोकयानानि इत्यादीनि बृहद् वाहनानि, वाममार्गेण त्रिचक्रिका: इत्यादीनि लघुयानानि च धावन्ति स्म । एतस्मात् कारणात् जनानां पथिक मार्गस्य उपयोगं अनिवार्यम् आसीत् । अहमपि प्रतिदिनं एतेन पथिकमार्गेण एव गच्छामि स्म । एतस्य पदिकमार्गस्य मध्ये, तमाखू नाली, नागवल्लीदलं, पिष्टकं, चाक्लेहम् इत्यादीनि वस्तूनि विक्रयमाण: एक: लघु आपण: आसीत् (इदानीमपि तत्र वर्तते) । अत: अस्य आपणस्य समीपे आगत्य जनानां मुख्यमार्गे अवतरणम् आवश्यकम् आसीत्।
यथा अहम् एकस्मिन् दिने अत्र आगत्य मार्गे अवरूढवान्, तथा अकस्मात् / सहसा एका त्रिचक्रिका आगत्य मम शरीरस्य दक्षिण भागेन सह संघट्टनं कृत्वा मां पथिकमार्गस्थम् आपणं प्रति क्षिप्तवती । आपणस्य कटिपरिमितस्य औन्नत्तस्य द्वारं त्रुटित्वा अहम् आपणस्य अन्त: पतितवान् च । भाग्यवशात्, केवलं, मम पादरक्षाया: छेदम् अभवत् – न तु शरीरस्य कापि हानि: ।
तथैव उत्थाय, दूलीं निष्कास्य तत: अहं पादरक्षां विना शिबिरस्थानं प्राप्य कार्यक्रमे भागम् ऊढवान् च । अविस्मरणीयम् अयम् अनुभवं मम पुनर्जन्मम् एव इतिअहं मन्ये ।
॥ जयतु संस्कृतम्, लसतु संस्कृतम् ॥
अय्यर् सुब्रह्मणिय:, कलिफोर्णिया – डिसेम्बेर् २००५
(4)
विगते रविवासरे (१५/१०/२००६) भोजनानन्तरं वयं गृहात् १.३० वादने निर्गत्य/म्य "म्युर् वुड्स्" नामकं वनंप्रति गतवन्त:। तस्मिन् निबिडे आरण्ये घटाद्वयम् अटित्वा ६-३० वादने गृहं प्रत्यागतवन्त: ।

तत्रत्य बृहद् (३७० पदं यावत् उन्नतस्य, २७ पाद व्यासस्य) पुरातनान् (१००० वर्षाणाम् अधिकम्) महाद्रुमान् दृष्ट्वा वयं सर्वे विस्मयाकुला: (विस्मयाविष्टा:) अभवन् । गहन-वनमिदं वृक्षेभ्य: पूरितं, सम्प्लुतम् (वृक्षमयम्) अस्ति । तत्र १००० वर्षीयस्य पुरातनस्य महाद्रुमस्य खण्डम् एकं प्रदर्शनाय स्थापितम् अस्ति, यत्र अधोलिखितं विवरणम् अपि उल्लिखितम् अस्ति:-

१)वर्तुल रेखा: (रिन्ग्स्) वृक्षस्य आयु:/कालं सूचयति
२)समीपस्ता: वर्तुल रेषा: सूचयन्ति यत् वृक्ष: बहु उष्ण
बाधा अनुभूतवान् इति - दूरस्था रेखा सूचयति यत् अयं वृक्ष:
अतीव शीतबाधया पीडितवान् इति
३)एतस्य वृक्षस्य दग्ध्खाण्डे अधिका: कृष्ण्वर्णीय भागा:/अंशा:
दृश्यन्ते चेत् वृक्षमयम् अनलॆन अतीव बाधितवान् इति
ज्ञातव्यम् ।

अय्यर् सुब्रह्मणिय: फ्रीमोण्ड्, कालिफोर्णिया
छात्राणां कृते संस्कृत श्लोकस्पर्धा
विगते रविवासरे ( ४-१-२००९) चेम्बूरस्थे P L Lokhande मार्गे विद्यमानस्य हरिहरपुत्र भजन समाजं इति नामकया संस्थया छात्राणां कृते संस्कृतश्लोकानां स्पर्धा आयोजिता आसीत् । तत्र १४ विद्यालयेभ्य: KG वर्गस्य ३० छात्रा: गुरुस्तोत्र्स्य, प्राथमिक/द्वितीय वर्गस्य २४ छात्रा: कृष्णाष्ठकस्य, तृतीय/चतुर्थ वर्गस्य १४ छा्त्रा: गणपतिस्तवस्य, पञ्चम, षष्ठ, सप्तम वर्गीया: ४१ छात्रा: कालभैरवाष्टकस्य, अष्ठम, नवम, दशम वर्गस्य ४० छात्रा: मीनाक्षीपञ्चरत्नस्य च श्लोकान् उदाहृदवन्त: ।
प्रात: १० वादनत: रात्रौ ८ वादनपर्यन्तं प्राचलितायां अस्यां स्पर्धायां आहत्य १४० छात्रा: भागम् ऊढवन्त:, यत्र अहं न्यायाधीशरूपेण उपस्स्थितवान् । यद्यपि भूयिष्ट्भागा: छात्रा: श्लोकान् कण्ठस्थीकृत्य उदाहृतवन्त:, प्राय: संस्कृतभाषाया: अनभ्यासात् उच्छारणे केचन दोषा: आसन् । इमे दोषा:, ये शिशून् पाठितवन्त:, तेषाम् एव । किञ्चित् संस्कृतज्ञानेन सह, तेषाम् उच्छारणे परिष्कारम् आनेतुं शक्यते इति अहं मन्ये । अत: एव, स्पर्धाया: समापनस्य अनन्तरं यदा अहं तान् सम्बोधितवान्, तदा मया प्रोक्तं यत्, पप्रथमं एकं संभाषणशिबिरद्वारा संस्कृतभाषया सह तेषां परिचयं कारयित्वा, तदनन्तरं ते इच्छन्ति चेत्, अग्रे वर्गमपि चालयितुं शक्नोमि इति ।
येषु विद्यालयेषु इदानीं संस्कृताभ्यासं वर्तते, तेषां छात्रा: स्वपरिचयं संस्कृतेन एव कृतवन्त: सर्वेषु विद्यालयेषु संस्कृतभाषाया: पाठनं कृतं चेत् छात्राणां वर्धनेन सह भाषाया: एधनमपि जायते इति मम मतं तत्र उपस्थापितवान् ।
इत:पूर्वं चेम्बूर् उपनगरे एव विगते वर्षद्वये, भगवद्गीताया: स्पर्धायाम् अहं न्यायाधीशरूपेण उपस्तिथवान् । तत्रापि मया संस्कृतप्रचारस्य कार्यं कृतम् ।
जयतु संस्कृतम् – लसतु संस्क्रुतम्
अय्यर् सुब्रह्मणियम्, चेम्बूर्, मुम्बै ४०००७१ – जनवरि ६, २००९
-
(27) धर्माचरणस्य फलम्

प्राय:१९८५ तमे वर्षे, यदा अहं मुम्बैमध्ये उद्योगस्थ: आसं तदा घटित: तथ्या घटना एषा । प्रतिदिनमिव चेम्बूर् उपनगरत: प्रात: ८-२५ वादनस्य स्थानीय रेल्यानेन कार्यालयंप्रति गच्छन् आसम् । साधारणत: इव यानम् आरुह्य मम यानपेटिकाम् उपरि निधानिकायां संस्थाप्य, वातायनसमीपे उपविश्य वार्तापत्रिकां पठन्नेव अहं सुप्तवान् । रेल्यानं यदा अन्तिमं स्थानकं प्राप्तं, तदा कोऽपि सज्जन: मां उत्थापितवान् । तत्रान्तरे सर्वे प्रवासिन: अवरूढवन्त: । यदा मम यानपेटिकां उपरिष्ठात् निधानिकात् निष्कासितुं (गृह्णातुं) यतन् आसं, तदा तत्र अपरां यानपेटिकां दृष्ट्वा किंकर्तव्यसम्मूढताम् अनुभूतवान् । अन्तत: पेटिकाद्वयमपि स्वीकृत्य कार्यालयंप्रति पद्भ्यां गतवान् । रेल्स्थानत: बहि: आगमनपर्यन्तं, मम हस्तयो: पेटिकाद्वयं दृष्ट्वा आरक्षका: कदापि प्रश्नं पृच्छेयु: इति भीत्या, अहं यथाकथापि मुख्यमार्गं प्राप्तवान् । Victoria Terminus नामक अन्तिम रेल्स्थानकत: मम कार्यालयं पद्भ्यां २० कलानां दूरे आसीत् (अमेरिका देशे दूरस्य मापनं कार् यानम् एव प्रमाणीकरोति) ।
कार्यालयस्य प्राप्त्यानन्तरम् अहं यदा द्वितीयां पेटिकां उद्घाटितवान्, तदा तत: धनपत्राणां बन्धा: मांप्रति अक्षिक्षेपं कुर्वन्त: सन्त: /आसन् । अद्यावधि, मया न कदापि तावान् धनपत्र-बन्धा; न दृष्टा:, अत: दृश्यमयं मां भयाविष्ट: अकरोत् । यदा अहं मम अधिकारिणं धनपत्रबन्धा: सहित पेटिकांप्रति निवेदितवान्, स: कथं वा भवान् रेल्स्थानकस्थे आरक्षकालये द्वितीयां पेटिकां न समर्पितवानिति तर्जितवान् । यदि तथा अकरिष्यं, तर्हि कार्यालय आगमने विल्म्बम् अभविष्यत् इति भीत्या आरक्षकालयं न अग्च्छम् इति उत्तरितं मया ।
तदनन्तरं आवां तस्या: पेटिकाया: यजमानस्य दूरवाणी क्रमाङ्काय अन्वेषणं कृतवन्तौ । पेटिकात: प्राप्तस्य सङ्क्णकक्रमाङ्के तस्य सम्पर्कं न साधितम् । अन्तत: गत्वा ज्ञातं यत् स: मुस्लिम: एकस्य लघु यन्त्राकारस्य स्वामि: अस्ति, तस्य गृहं मुम्बैत: प्राय: १०० अर्धकोश(miles) दूरस्थे कल्याण् नगरे वर्तते च इति । मम अधिकारिण: उपदेशानुसारं मम मित्रेण सह, कार्यानेन अहं मध्यान्हे, पेटिकया सह कल्याण् नगरंप्रति प्रस्थितवान् । यदा सायङ्काले तत्र प्राप्तवन्तौ, तदा स: मुस्लिम: शुक्रवासर: इत्यत: यावनधर्ममन्दिरं गतवान् इति ज्ञातम् । किञ्चित् कालात् परं यदा स: आगत:, तदा स: सत्वरं मां प्रात:का्ले रेल्याने तेन दृष्ट: प्रवासी इति अभिज्ञातवान् । सर्वं व्यवस्थितं अस्ति वा पश्यतु इति वदन्, आवां तस्य हस्ते पेटिकां समर्पितवन्तौ । पेटिकां पार्श्वे स्थापयन्नेव स: उक्तवान् यत्- ”सज्जन: भवान् अद्य प्रात: रेल्याने मया विस्मृतां पेटिकां सुदूरत: आनेतुं कष्ठं स्वीकृतवान्, अत: पेटिकाया: परिशीलनं कृत्वा भवत: अवमानं कर्तुं न इच्छामि । किमपि धनं पेटिकायां अस्ति, तद् ह्य: एव अहं कर्मचारिणां वेतनाय वित्तकोशात् प्रत्याहृतवान् । धनविषये भवति(स्) मम संपूर्ण: विश्वास: अस्ति एव । मम समग्रा चिन्ता आसीत् पेटिकायां विद्यमानानां मम यन्त्रागार संबद्धितानां मुख्य पत्रकाणां(documents) विषये एव । यदा चेम्बूर्मध्ये अहं मम परिवारेण सह यानं प्रविष्टवान्, पप्रथमं वार्तापत्रं पठत: भवत: वदनम् एव मम दृष्टिगोचरे पतितम् । तत् दृश्यम् इतोपि मम पुरत: वर्तते । मम यानपेटिकाम् उपरि निधानिकायां स्थापनस्य आवश्यकता नासीत्, कारणं अग्रिमे रेल्स्थानके एव अवरूढ्य अपरेण यानेन कल्याण् प्रति गमनीयम् आसीत् । चेम्बूरत: यानस्य निर्गमनानन्तरं आवयो: शिशु: रोधनम् आरब्दवान्, अत: अहं द्वारं प्रति तं नीतवान्, युगपत् अग्रिमं स्थानम् अपि आगतम्, अहं परिवारेण सह मम पेटिकां याने विस्मृत्य अवरूढवान् च । तत: यानस्य निर्गमनानन्तरं एव स्मृतवान् यत्, मम पेटिका याने एव अस्तीति । सत्वरं तत्रत्य स्थानक रेल् आरक्षकालये आक्षेपं(complaint) समर्पितुं गतवान्, परं तेन उक्तं यत् अस्मिन् कलियुगे भुवि कोऽपि हरिश्चन्द्र: न वर्तते य: मार्गे प्राप्तानि अपरस्य वस्तूनि प्रत्यर्पयति । अत: पेटिकां कदापि न प्राप्स्यामि इत्येव चिन्तितवान् ”॥
एतां घटनां श्रुत्वा मम तदानीन्तनानि मित्राणि मां मूर्ख:, हरिश्चन्द्र: इत्यादीनि नामानि आहूय परिहासं कृतवन्त: । पेटिकात: धनेन एकं दूरदर्शनं क्रेतुं शक्यते भवान् इत्यपि सूचितवन्त: (तस्मिन् समये अस्माकं गृहे द्रदर्शनं न आसीत् ) । परं, अद्यावधि अहं न जानामि तस्यां पेटिकायां कति रूप्यकाणां बन्धा: आसन् इति ।
समनन्तरमेव, अपरा घटना घटिता । मम धर्मपत्नी, एकस्य विवाहकार्यक्रमार्थ
विशेष लोकयानेन गच्छन्ती आसीत् । कानिचन आभूषणानि धरित्वा, इतोपि अवशिष्टानि हस्तस्यूते एव स्थापितवती । यथा केचन हस्तस्यूतं कक्षाक्षे/भुजकोटरे(armpit)स्थापयति, प्राय: सापि तथैब कृतवती इति मन्ये । लोकयाने आरोहणसमये, तस्या: हस्तात् स्यूत: अध: स्थानके एव पतित: इति सा न जानाति स्म । (तस्मिन् हस्तस्यूते प्राय: ८/९ सुवर्णमुद्रा परिमितानि आभरणानि आसन् । अद्यतन सुवर्णस्य मूल्यानुसारं स्यूतस्थानाम् आभरणानां मूल्यं प्राय:रू-७०,००० यावत् भवेत्)। तस्या: लोकयाने आरोहणात्परं तत्रत्य बान्धवै: सह वार्तालापम् आरब्दम् । यदा सा् सभागृ्हं प्राप्तवती तदा एव स्यूतस्य चिन्तनम् आगतम् । सहसैव, कार्यानेन कैश्चन मित्रै: सह सा चेम्बूरस्थे लोकयानस्थानकं प्राप्य स्यूतस्य अन्वेषणं कुर्वती स्म । तदा कुत: अपि एक: सज्जन: तत्र आगत्य किम् अभवत् इति पृष्टवान् । घटनां श्रुत्वा स: मम पत्नीं समीपे विद्यमानं तस्य कुटीरं (hut) प्रति नीतवान्, स्यूतं प्रदर्शितवान् च । तेन उक्तं यत्, तस्य बालक: प्रात: लोकयानस्थानकस्य समीपे क्रीडनसमये तं स्यूतं दृष्टवान् आनीतवान् च । धन्यवादार्पणेन सह, यदा मम पत्नी बालकस्य हस्ते उपायनरूपेण रूप्यकाणि स्थापितुम् उद्युक्तवती, तदा सज्जन: पिता उपायनं निराकृतवान् ।
अस्मिन् सन्दर्भे, “यदा धेनुसहस्रेषु वत्सो विन्दति मातरं, तदा पूर्वकृतं कर्म कर्तारम् अनुगच्छति” इति समुचितं सुभाषितं स्मृतिपदे आयाति । अस्मिन् सुभाषिते, कर्म: इत्यस्य पदस्य अर्थ: पुण्यकर्म उत पापकर्म भवेत् ।

अय्यर् सुब्रह्मणियम्, कलेन्डा कम्मोन्, कलिफोर्णिया, २२/१०/०८
(2)
सुब्रमणिय अय्यर्, फ्रीमोण्ड्, अमेरिका
To: miteshkatira@gmail.com
Date: Monday, May 29, 2006, 11:29 PA
Sub: कुशलम्
नमस्ते मितेष् महोदय,,

भवाब् शिबिरात् इदानीम् प्रत्यागतवान् इति मन्ये । अहं मम पत्न्या सह मै मासस्य १६ दिनाङ्के मध्याह्ने SFO विमानपत्तनं प्राप्तवान् । भारतदेशम् अमेरिका देशस्य समयस्य अपेक्षया १२।३० घण्टा: यावत् अग्रे व्रतते ।एतस्य कारणात् मुम्बै नगरात् मङ्गल वासरे प्रात: ३।३० वादने प्रस्ताय तस्मिन्नेव दिने अत्रत्य मध्यान्हे प्राप्तवन्तौ । अस्माकं कनिष्ठ पुत्र: तस्य पात्ब्या सह आवयो: स्वागतार्थं विमानदलम् आगतवान् ।.

अत्र वातावरणं बहु शैत्यम् अस्ति । साप्ताहे तदा तदा लघु वृष्ट्या सह मध्ये ,मध्ये सूर्यप्रकाशमपि दृश्यते भारतदेशे इव उष्णं, स्वेद: वा किञ्चिदपि न वर्तते, अत: अत्र स्वेदकस्य आवश्यकता नास्ति । इत:परं सूर्यप्रकाशं वर्धते इति अत्रत्य जना: वदन्ति ।
.
मम् कुमार: विगते साप्ताहे एव samskritham 98 iइति मुदुपण्यं (fon t) मम सङ्कणकयन्त्त्रे स्थापितवान्, परं अनभ्यासकारणत: अहम् एवमेव नागरिलिप्या सन्देशं प्रेषयितुम् न शक्नोमि । एतस्य कृते कि्ञ्चित् पूर्वाभ्यासम् आवश्यकमस्ति ।. मम पुत्रस्य गृहे न केवलं सङ्कणकद्वयम् अस्ति, अपि तु Cannon नामकं Xerox-fax-scanner मिश्रितं यन्ब्त्रमपि वर्तते ।..

मे मासस्य २० तमे दिनाङ्के फ्रीमोण्ड् नगरे चिन्मया संस्थाया: वार्षिक बालोत्सवं प्राचलत्, यत्र अस्माकं अष्ट वर्षीया पौत्री अपि एकस्मिन् कार्यक्रमे भागं ऊढवती । कार्यक्रमस्य अन्ते नूतनानां संस्कृत छात्राणाम् एकं लघु नाटकम;पि अभूत् । एतत् नाटकम् एतेषां छात्राणां शिक्षणस्य दृष्ट्या सम्यक् आसीत् इति मन्ये । अस्माकं संसकृतभारत्या: शिक्षका: एव अत्र पाठयन्ति इति अहं श्रुतवान् ।.

संस्कृतभाषाया: प्रचाराय यावच्छक्यम् उद्यमं करोमि । प्राय: अचिरादेव एकं लघु शिबिरं चालयितुं सन्दर्भं(अवसरं) उपल्भ्यते इति मम मन: वदति । भवतां सर्वेषां शुभेच्छया सह मम स्वप्नं साकारं भवेत् इति मन्ये ।.

मम लेखने दोषा: भवन्ति एव ॥ कृपया मा हसतु । भवत: पत्सङ्केतं प्रेषयति वा? शीघ्रमेव नागरिलिप्या सन्देशं प्रेषयामि ।

स्वस्तिरस्तु, भवदीय: सुब्रह्मणिय:
सम्भाषणशिबिरवृत्तम् –(१०/५/०९ त: २०/५/०९ पर्यन्तम्)

मुम्बै नगरर्स्थे, चेम्बूर् उपनगरे, मे मासस्य दशमदिनाङ्कत: २० तम
दिनाङ्कपर्यन्तं संस्कृतसम्भाषणशिबिरं प्राचलत् । अय्यर् सुब्रह्मणिय:
शिबिरमिदं सञ्चालितवान् । शिबिरस्य समापनकार्यक्रमे श्री वैद्यलिङ्गम्
महोदय: मार्गदर्शनम् अकरोत् । संस्कृताध्ययनस्य प्रशस्तिं कुर्वन्, स:
संस्कृतभाषाया: पुरोगमनाय सम्भाषणस्य आवश्यकता अस्तीति उक्तवान् ।

तत्र संस्कृतभारत्या: मुम्बै महानगरस्य संयोजक:, श्री मितेश् कतीरा महोदय:
मुख्याति्थि: आसीत् । तेन - शिबिरस्य अनन्तरं, साप्ताहिकमेलनस्य अत्याव-
श्यकता, पत्रालयद्वारा संस्कृतस्वाध्यायाय सौकर्यं, सम्भाषणसन्देश सदृशानां
पुस्तकानां पठनस्य् प्रयोजनं, संस्कृतभाषाया: प्रचारम् अस्माकं कर्तव्यम् -,
इत्यादी: विषया: उपस्थापिता: । संस्कृतभारत्या: नूतन पाठ्यपद्धत्यानुसारं
अचिरादेव, भगवद्गीताद्वारा संस्कृतपाठनम् आरभ्यते इत्यपि तेन सूचितम् ।
सम्भाषणमेव सर्वासां भाषाणां जीवनाडी वर्तते इति सोऽपि उक्तवान् । संस्कृतस्य
भविष्यत् संस्कृतप्रेमिन: अस्मत् हस्ते एव विद्यते इत्यस्य सत्यस्य प्रतिपादनाय स: ज्योतिषविषयकाम् एकां लघु कथां कथित्वा तस्य भाषणस्य समापनं अकरोत् ।

शृङ्गेरिमठसंस्थया आयोजिते अस्मिन् शिबिरे, ५ महिला:, ८ पुरुषा: इति
आहत्य १३ सहभागिन: आसन् । छात्रेषु अन्यतमा, कुमारि सुधा सुन्दरं
कार्यक्रम- सूत्रचालनं कृतवती ।

अय्यर् सुब्रह्मणिय: - २१/ ५/ २००९
विधिरहो महान् (२)

पूर्णमास गर्भिण्या पत्न्या सह अमुक: बीहार् प्रान्ते कुत्रापि रेल्यानेन रुग्णालयंप्रति
गच्छति स्म । रात्रौ प्राय:११ वादनसमये, यदा सहप्रवासिन: निद्रावस्थायां आसन्, तदा
एषा महिला यानपेटिकाया: शौचालयं गतवती, प्रसाधनसमये युगपत् शिशो: प्रसूति:
अपि अभवत् । किं जातं इति ज्ञानात् पूर्वमेव, शिशु: चलत: रेल्यानस्य शौचालस्य
बिलद्वारा अधस्थने रेल्मार्गे पतित: च । प्रज्ञां प्राप्ता माता घटनां अवगम्य,यदा शिशो:
अनुपस्थितिं लक्षितवती, तदा रेल्यानं इतोऽपि १ किलोमीटेर् अग्रे गतम् आसीत् । किंकर्तव्य-
मूढतया बाधिता सा माता क्षिप्रं/द्रुतगत्या् प्रसाधनत: बहि: आगत्य, धावन्ती एव यान-
पेटिकाया: प्रवेशद्वारं उद्घाट्य चलत: रेल्यानत: अन्तरे कूर्दितवती, रेल्मार्गे पतिता च ।
आरवारं श्रुत्वा यदा सहयात्रिण: निद्रात् उत्थितवन्त:, तदा ते पेटिकाया: उद्घाटितं द्वारं
गर्भिण्या: अनुपऽस्थितिं च लक्षितवन्त: । सा आत्महत्या कृता स्यात् इति विचिन्त्य, ते
यदा रेल्यानस्य स्थगनाय शृङ्खलां कर्षितवन्त: किञ्चित् दूरं गत्वा रेल्यानं स्थगितम् । सर्वे
अध: अवरुह्य इतस्तत: अन्वेषणं कृतवन्त:, १०/१५ निमेषानन्तरं तत्र रेल्मार्गे मातु: क्रोडे
स्तनपानं कुर्वन्तं शिशुं दृष्ट्वा आश्चर्यचकिता: अभवन् । अनन्तरं मातरं शिशुं च तत: नीत्वा,
समीपस्थे रेल्वे रुग्णालये प्रवेशनं कारितवन्त: च । तत्र उभयोऽपि सद्य कुशलपरिस्थित्यां
वर्तेते इति वार्तापत्रा: कथ्यन्ते । मात्रा प्रकृत्या: लीलावोनोदा: विचित्रा:अविश्वास्या: एव ।

अय्यर् सुब्रह्मणियम्, चेम्बूर्, मुम्बै – १०/१०/।०९
भगवान्, धनिक: च
(दूरदर्शन कार्यक्रमात् श्रुता एकस्या: कथाया: अनुवाद:)

कश्चन आढ्यतम: मनुष्य: कस्यचित् मन्दिरस्य विग्रहाय ४५ कोटि
रूप्यकाणां मूल्यवत् वज्रेण अलङ्कृतं किरीटं अर्पयितुम् इच्छां प्रकटी-
कृतवान् । परन्तु, मन्दिरस्य अधिकारिण: धनिकं न्यवेदयन् यत्
एतावत् भारयुक्तं किरीटम् उत्थाय विग्रहस्य शिरसि स्थापयितुं प्राय::
१० जना: आवश्यका:, किन्तु गर्भगृहे १० जनानाम् एकत्र प्रवर्तितुं पर्याप्तं
,स्थलं न विद्यते, अत: तेन एतादृशस्य किरीटस्य दानस्य कल्पना त्यजनीया ।

एतां घटनां श्रुत्वा कोऽपि प्राज्ञेन कथितं यत् एतावत् महार्घस्य किरीटस्य अर्पण-
द्वारा आढ्यत्वस्य प्रकटनस्य अपेक्षया तत् धनं दरिद्राणां कृते एकस्या: शालाया:
उत रुग्णालस्य निर्माणाय व्ययं कृतं चेत्, भगवान् अतीव सन्तुष्ठ: भवेत् इति ।
यदुक्तं तत् सत्यमेव ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै- १५/८/२००९
श्रद्धा्ञ्जलि:- (मम मातृभगिनी)

मीनाक्षि (मीना) मम मातु: द्वितीया कनिष्ठभगिनी आसीत् | सा जन्मना एव
एडमूका । यद्यपि सा सम्पूर्णतया अशिक्षिता/निरक्षरी, तथापि सा सर्वथा निपुणतया
व्यवहरति स्म । संज्ञाभाषया तस्या: चिन्तनम् अपरान्:/अपरेभ्य: सुष्ठु प्रकटयति
स्म, सा । शास्त्रमार्गानुसारिणौ मम मातृपितरौ बाल्यकाले एव शास्त्ररीत्या तस्या:
विवाहं कारितवन्तौ परं सा पत्या सह न कदापि उषितवती, कारणं श्वशुरगृहे तस्या:
पीडा भवेत् इति भीत्या तस्या: मातुपितरौ तां तत्र न प्रेषितवन्तौ ।
मम बाल्यकाले, वयं संयुक्ते कुटुम्बे/परिवारे निवसितवन्त:, यत्र सा सर्वेषां साहाय्यकृत् भवति स्म/साहाय्यं करोति स्म । पाककलायाम् अति्निपुणा सती
, खण्डितान् शाखान् दृष्ट्वा एव तद्दिनस्य भोजनस्यकृते किं किं करणीयम् इति सा सम्यक् जानाति स्म । अपरा: स्त्रिय: इव स्वकीयं कुढुम्बं, स्वकीया: शिशव: इति
तस्या: मनसि विद्यमानाया: आशाया: प्रकटनं सा बहूवारं आङ्गिकभाषया मां निवेदयति स्म । परन्तु विधिवशात् तस्या: एताया: इच्छाया: पूर्त्या विना एव तया अस्य मासस्य
१२ दिनाङ्के इहलोकत: निर्गन्तव्यम् आपतितम् इति विचिन्त्य मनसि अतीव व्यधा भवत्येव । तस्या: मरणं मुम्बै नगरस्थे, कोपर्करणे उपनगरे विद्यमानस्य एकस्मिन् रुग्णालये अभुत् ।
तस्या: मातृपितॄणां निधनानन्तरं सा तस्या: समग्रं जीवनं ललिताम्बाळ् इति नामिकाया: तस्या: अपरया कनिष्ठभगिन्या सह एव यापितवती । मम कुढुम्बपरिस्थित्या: कारणत: कदापि तां मम गृहं नीत्वा पालयितुं सन्दर्भं न प्राप्तम् इति मयि खेदं भवत्येव । तस्या: मनसि किं किं प्रचलति स्म इति वयं कदापि वक्तुं न शक्नुम:, परं मूकताया: कारणात् सा न केवलं किमपि असमीचीनं वदति स्म, वाचा अपरेभ्य: दु:खं च न यच्छति स्म, अपि तु बधिरताकारणत: अपराणाम् असमीचीना: शब्दा: तस्यां मन:क्लेशं जनयितुम् असफला: अभवन् ।
एतस्य लेखनद्वारा अहं तस्या: आत्मानंप्रति मम श्रद्धाञ्जलिं समर्पयामि ।
अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – आगस्ट् १३-८-२००९

”सा आजीवनम् इतरेषां सुखस्य मात्रमेव नितरां प्रयतति स्म इति भासते । यदपि कार्यं तया कृतं, तत्सर्वं बन्धुजनानां कुशलम् उद्धिश्य, तस्या: कर्तव्यमिति विचिन्त्य च सा करोति स्म । तस्या: निष्काम्यभावनाया: कारणत: वयं दिवङ्गतां ताम् एका कर्मयोगिनी इति आह्वयाम: चेत्, तत्र कापि अतिशयोक्ति: न भवेत् ।
तस्या: आत्मानंप्रति इयं श्रद्धाञ्जलिं समर्पयामि - मणी “(मम अनुज:)-१७/८/२००९
नमो नम:

संस्कृतदिनं पुरस्कृत्य आयोजितस्य वक्तृत्व स्पर्धायै माम् आमन्त्रितवन्त: इत्यस्यकृते संस्कृतभारत्या: घाट्कोपर् केन्द्रस्य सर्वेभ्य: सदस्द्भ्य: मम धन्यवादा: ।

संस्कृतभाषा मृता इति चिन्तनं जनानांमध्ये वर्तते, परं सा मृता न, केवलं पालन-
पोषणस्य अभावात्, तस्या: स्वास्थ्यं किञ्चित् न्यूनं जातम् इत्येव । एतस्य मुख्य कारणम् आङ्गल सर्वकार:, येषां शासनकाले एव तै: अस्माकं संस्कृतभाषां पाठ्यपद्धत्या: निष्कासिता । इदानीं सम्स्कृतमातु: पुनरुत्थानम् अस्माकं उत्तरदायित्वं भवति ।
एतस्य कृते, पप्रथमं प्राथमिक विद्यालयस्य पाठ्यपद्धत्यां संस्कृतस्य निवेशनम् करणीयम् । संभाषणशिबिरमपि इतोऽपि तीव्रतया चालनीयम्, यतोहि संभाषणं कापि भाषाया: जीवनाडी वर्तते । मातृपितृभि: अपि स्वकीया: शिशव: संस्कृताध्ययनाय प्रेरणीया:, प्रेषणीया: च ।

एवंरीत्या, कालक्रमेण संस्कृतं पुन: भारतदेशस्य दैनन्दिनीया व्यवहारिका भाषा भवितुं अर्हति । अन्यच्छ, संस्कृतस्य माद्यमेन एव देशस्य संस्कृते: रक्षणं कर्तुं शक्नुम: । संस्कृतस्य प्रसाराय/प्रचाराय अखिलभारतीयसंस्कृतभारत्या: विश्वस्थरीयं भगीरतप्रयत्नं अति श्लाघनीयम् अस्ति ।

॥ जयतु संस्कृतम्, लसतु संस्कृतम् ॥

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै १५/८/२००७
चतस्र: देव्य: -अनसूया, लक्ष्मी:, सरस्वती, पार्वती च

कदाचित्, नारदमुनि: लक्ष्मीं, सरस्वतीं, पार्वतीं च न्यवेदयत् यत् भुवि अनसूया नामिका एका श्रेष्ठा पतिव्रता निवसतीति । प्रकृत्या एव स्त्रीगुणानुसारं, ता: अनसूयाया: पातिव्रत्यंप्रति श्रुत्वा असूयाविष्ठा: अभवन् । फलत: अशान्ता: देव्य: पतीन् उपगम्य तासां मनक्लेशस्य कारणं निवेदितवन्त:, अनसूयाया: परीक्षां कर्तुं तान् प्रेरयितुं सफला: अभवन् च ।

यथा इहलोकव्यवहारे घटति, तथैव एते त्रया: अपि स्त्रीवशवर्तिन:/स्त्रीजिता: (hen pecked) पतय: तेषां पत्नीनां मन्:क्लेशस्य कारणभूतां महिलां परीक्ष्कितुं भुविंप्रति प्रच्छन्न/गुप्तं ब्राह्मणरूपम् धृत्वा प्रतिष्ठवन्त:/प्रस्तितवन्त: ।

आगतान् अतिथी: दृष्ट्वा पतिव्रता अनसूया यथाविधि तेषां स्वागतं कृत्वा उपचारमपि अकरोत् । तदनन्तरं कुटीरस्य(आश्रमस्य) अन्त: गत्वा भिक्षाम् आनीतवती । तदा प्रच्छन्नरूपधारिण: ब्राह्मणा: अवदन् यत्, ते वस्तूनां भिक्षां नेच्छन्ति, परं तां आवरणेन/ वस्त्रेण विना, तस्या: नग्नरूपं निरीक्षितुम् इच्छुका: सन्तीति । तदा सर्वज्ञानी पतिव्रता अनसूया अवोचत् यत्, यदि ते तस्या: मनसि वर्तमानं स्वरूपं तस्या: पुरत: आनेष्यन्ति, तर्हि निश्चयेन सा तेषा्म् आशा: पूरयिष्यतीति । तथास्तु इति आशीर्वचनं दत्तवन्त: समनन्तरमेव अनसूयाया: पातिव्रत्यस्य प्रभावेन शिशूनां रूपं प्राप्नुवन् । प्रतिज्ञानानुसारं, अनसूया निर्वस्त्रा भूत्वा त्रय: अपि शिशून् क्रोडे स्वीकृत्य स्तनपानम् अकरोत् । तत्पश्चात्, त्रय: अपि – ब्रह्मा, विष्णु, महेश्वर: - शिशुरूपेण तस्मिन् आश्रमे एव उषितवन्त: ।

तत्र - वैकुण्ठे, शिवलोके, ब्रह्मलोके च,- देव्य: स्वपतय: इतोऽपि न प्रत्यागतवन्त: इति विचिन्त्य व्याकुला: अभवन् । केषाञ्चन दिनानाम अनन्तरम्, अन्ते गत्यन्तरं विना ता: स्वकीयानां पतीनाम् अन्वेषणाय आश्रमं प्राप्तवत्य: । तत्र शिशूणांरुपे स्वपतीन् दृष्ट्वा सत्यम् अवगम्य, तान् प्रत्यर्पयितुं अनसूयां अभ्यर्थितवत्य: च।

एवंरीत्या तिस्रूणां देवीनां गर्वभङ्गम् अनसूयाद्वारा अभूत् ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – ६/८/०९
द्वयो: ब्रह्मचारिणो::कथा

पुरा कस्याश्चित् नद्या: तीरे एका युवी स्त्री स्वकीयेन त्रयोवर्षीयेण पुत्रेण सह निवसति स्म एकस्मिन् तीव्रे ग्रीष्मकाले नद्या: जलम् अपसृतं, तस्मात् कारणात् जना: जानुपरिमितं जले चलन्त: नदीं क्रामितुं शक्तवन्त: ।

एकदा सा ग्रामपरिसरप्रदेशत: इन्धनाय काष्ठम् आनेतुं गृहात् निर्गत्य पद्भ्यां नदीम् अक्रामत् । गृहं प्रत्यागनसमये यदा सा नदीतीरं प्राप्ता, तदा जलप्लुतं नदीं दृष्ट्वा सन्त्रासा अभूत् । पर्वतप्रदेशे पतिता अतिवृष्टिकारणात्:नदी बहुलीभूता आसीत् । तस्या: त्रयोवर्षीयं पुत्रं विचिन्त्य सा चिन्तामग्ना, व्याकुला च अभवत् । गृहात् बहि: आगत्य भ्रमन्नेव बालक: निदीतीरं प्राप्य तत्रत्ये पूरे निमज्जते इति भीत्या सा भूय: चिन्ताकुला मुग्धा च अभुत् ।

तस्मिन्नेव समये द्वौ सुयष्ठियुक्तौ वटू मार्गे गच्छन्तौ आस्ताम् । रुदन्ती याचमाना च सा नदीं क्रामितुं ब्रह्मचारिणो: साहाय्यम् अयाचत । गृहस्य परिसरे क्रीडन्तं तस्या: बालकंप्रति अपि अवदत् । स्त्रिय: न स्प्रष्टव्या: इत्यस्य निष्ठूरं/कठिनं नियमंप्रति तौ ब्रह्न्मचारिणौ स्मृतवन्तौ, यत: तत् कृत्यं मनसि आशां जनयति इति । अपिच महिलाया: सङ्कत्यां नैव भवितव्यम् ।

हर्षनन्द: नाम ब्रह्मचा्री स्वयम् एतत् नियमं स्मृत्वा यून्या: महिलायै/या: साहाय्यं कर्तुं न शक्नोमि इत्युक्तवान् च । परन्तु, तस्य मित्रं देवानन्द: झटिति/सपद्येव तां मातरं स्कन्धयो:
नीत्वा/स्थापयित्वा नद्या: शक्तिमत् प्रवाहस्य विरुद्ध् तरणं कर्तुं आरब्दवान् । तां महिलां सुरक्षतया नद्या: अपरं तीरं प्राप्य प्रत्यागतवान् च । तदनन्तरं ब्रह्मचारिणौ आश्रमंप्रति
प्रवासं/प्रयाणम् अनुवर्तितवन्तौ – यत्र तौ तयो: गुरुणा सह उषितवन्तौ । हर्षानन्द:, य: महिलाया: याचनां निराकृतवान्, तस्य मित्रस्य नियमोल्लङ्कनविषयंप्रति विश्वासं कर्तुं न अशक्नोत् । मार्गे सततम् अस्मिन्विषये चिन्तयन् स्वगतं किमपि मर्मरध्वन्यां वदति स्म।

यदा तौ आश्रमं प्राप्तवन्तौ, गुरु: तौ तयो: दिनं कथं प्राचलत् इति अपृच्छत् । उत्तेजन /उत्तापशील: हर्षनन्द: झटिति निन्दनस्वरेण तस्य मित्रस्य दुराचरणंप्रति अकथयत् । यदा
गुरु:अपरं ब्रह्मचारिणम् अपृच्छत्, तदा दयानन्द: अवदत्, यद्यपि अहं मातरं नद्या:: तीरान्तरम् अनयम्, इदानीं तद्विषयं व्यस्मरम् /विस्मृतवान् च । परन्तु, मम मित्रं इतोऽपि तां महिलां तस्य मनसि वहन्नस्ति इति मन्ये ।

देवानन्दस्य ब्यवहारेण सन्तुष्ठ: गुरु: अवदत् यत्, स: तस्य विवेकस्य सदुपयोगं कृत्वा मातु: साहाय्यम् अकरोत् । भगवद्गीतायां प्रतिपादितस्य कापट्यस्य/दाम्भिकताया:अर्थमपि गुरु: व्यवृणोत् ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – १/८/०९

Tuesday, October 13, 2009

दूरदर्शनात् श्रूताया: एकस्या:तमिल् कथाया: संस्कृतानुवाद:

एकस्मिन् ग्रामस्य प्रान्ते एक: क्षपणक: (बौद्ध सन्यासिन्) तस्य कुटीरे निवसति स्म ।
एकदा द्वौ युवानौ तं उपगम्य/अभिगम्य धनरूपेण भिक्षां याचितवन्तौ । तदा मुनि: तौ
आश्रमात् किञ्चित्त् दूरे वर्तमानस्य वृक्षस्य समीपं नीत्वा तस्य अध: खननं कर्तुं प्रेरितवान् ।
किञ्चित् खननेन एव ताभ्यां तत्र एक: घट: प्राप्त: । तस्मिन् घटे विपुलानि अमूल्यानि
आभरणानि, मौक्तिकानि च आसन् । मुने: अनुमोदेन सह/आज्ञानुसारं तौ तं घटं गृहंप्रति
नीतवन्तौ । मार्गे तयो: कुमति: अवदत् यत् मुने: समीपं इतोऽपि अधिका धनराशि:
स्यात्, अथवा स: एतानि अमूल्यानि आभरणानि न अदास्यत् इति । एवं विचिन्त्य,तौ
पुन:मुनिं समुपगम्य तम् इतोऽपि अधिकाय धनाय प्रार्थिवन्तौ च । मुनि:तस्य समीपे
वर्तमाना: अवशिष्ठा: सम्पद: अपि दातुम् सम्मति: प्रकटितवान्, परन्तु नियम: आसीत्,
ताभ्यां तस्य आश्रमे दिनत्रयं स्थित्वा तस्य आज्ञाया: पालनं करणीयं इति । धनाशया
पीडितवन्तौ तौ अपि सहमतिं दत्तवन्तौ ।
तयो: दिनचर्या एवं आसीत्- उष:काले, नाम प्रात:४ वादने उत्थानम् अनन्तरम्
एका घण्टा यावत् ध्यानं, पश्चात् योगाभ्यासं, तत्पश्चात् आश्रमं परित: दशवारं भ्रमणं,
तत्रत्यानां पादपानां (सस्यानां, वृक्षाणां च) जलेन सिञ्चनम्, समीपस्थ: वनत: पाकाय
इन्धनस्य कृते काष्ठानां आनयनं, मध्याह्ने विश्रान्ति:, अनन्तरं अद्ययनं, सायङ्काले पुन:
ध्यानम् इति । एवं रीत्या आदिनस्य धार्मिक कार्यक्रमेण तयो: मन:स्थित्यां परिवर्तनं अभूत् ।
फलत: इहलोकजीवने तयो: अभिरुचि: नष्ठा भूत्वा तौ आश्रमे एव अवशिष्ठं जीवनं मुने: सेवने
यापितवन्तौ इति कथा वदति ।

अय्यर् सुब्रह्मणियम्, चेम्बूर्, मुम्बई- १२/९/०९
नरक: स्वर्ग: च
(दूरदर्शनात् अद्य श्रुताया: मलयाल कथाया: संस्कृत भाषान्तरम्)

कदाचित् नारदमुनि: नरकं द्रष्टुकाम: सन् ब्रह्माणं अनुज्ञार्थं उपगतवान् । पित्रा उक्तं यत् नरकेन
सह स्वर्गमपि तेन द्रष्ठव्यमिति, यत: स्वर्गनरगयो: जीवनशैल्या: तुलना कर्तुं शक्यते इति ।
पप्रथमं, तौ नरगं गतवन्तौ, यदा तत्र भोजनवेला आसीत् । भोजनात्पूर्व सर्वे नरकवासिन:
हस्तप्रक्षालनं कृत्वा भोजनप्रकोष्ठंप्रति गमनसमये, मार्गे सर्वेषां हस्तयो: एकमेकं चमसं
तत्रत्य सेवकै: खचितं(बन्धीकृतम्) । नाम, ते इहलोके इव हस्तेन अश्नातुमपि न शक्तवन्त:
तेषां कूर्परे, कण्ठे च किमपि प्रतिबन्धकं आसीत्, अत: ते मानवा: इव कूर्परं कण्ठं वा नमित्वा
स्वतन्त्रतया हस्तेन अश्नातुमपि अशक्तवन्त: । अस्यां परिस्थित्यां चमसेन उद्धृतं खाद्यं साक्षात्
मुखे स्थापयितुम् अशक्यत्वात्, दूरत: मुखंप्रति क्षेपणीयं आसीत् । फलत:खाद्यं मुखात् ऋते अन्यत्र
पतत् आसीत् । नाम, यद्यपि विपुलं भोज्यं उपलब्दं आसीत्, तथापि केऽपि तृप्त्या उदरपूर्ति: कर्तुं न अशक्नुवन् । अत्र एकं मलयालं सुभाषितं मम स्मृतिपदे आयाति । यद्यपि नदी जलपूरिता भवति,
, तथापि शुनकेन जिह्वया एव नद्या: जलं अवलेहनीयम्/पातव्यं भवतीति ।
इदानीम् विधाता स्वपुत्रं स्वर्गंप्रति नीतवान् । तत्रापि भोजनप्रकोष्ठे इयमेव प्रथा – नाम
हस्तप्रक्षालनानन्तरं चमसबन्धनं इत्यादि – प्रचलति स्म । परन्तु, अत्रत्य निवासिन: नरक-वासिन: अपेक्षया बुद्धिमन्त: इव दृश्यते, कारणं एकैक: अपि चमसेन स्वीकृतं खाद्यं स्वकीये मुखे स्थापनस्य अपेक्षया् पुरत: उपविष्टत: जनस्य मुखे स्थापयन्ति स्म । एवं विधेन सर्वे परस्परं भोजयन्त: आसन्, यत: विनाक्लेशं सर्व: तृप्तिपूर्वकं आहारं स्वीकरोति स्म ।
एतेन आदानप्रदानद्वारा स्वर्गवासिन: कूर्परेषु कण्ठेषु च विद्यमानान् प्रतिबन्धान्
पराजित्य सम्यक् अश्नातुं शक्तवन्त: इति दूरदर्शनात् श्रूता एष कथा वदति ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – १८/९/२००९
विचित्रं दण्डनम्

एकदा एक: मानव: विनाकारणं सारमेयंप्रति शिलाखण्डं न्यक्षिपत् । वयं सर्वे
जानीम:यत् यदा शुनक: शिलाखण्डं च युगपत् दृश्येते, मानव: स्वभावदोषेण कुक्कुरं
शिलाखण्डेन ताडयतीति । दु:खित: श्वान: ईश्वरंप्रति स्वकीयं व्यसनं आक्षेपरूपेण
निवेदित्वा न्यायं प्रार्थितवान् च ।विधाता यदाविधि मानवं आहूय सम्यक् विचारणं
अकरोत् । मानवेन उक्तं यत् तस्य भोजनसमये, शुनक: तस्स् स्थालिकांप्रति एव
पश्यन् आसीत्, अत: एव कोपेन मया तथा कृतम् इति । परन्तु, भगवता पृष्ठं यत् किमर्थं
कुक्कुराय लवलेशमपि न दत्वा स्वयमेव सर्वं खादितम् इति । अत: एतस्य अमानुष्य
व्यवहाराय तेन उचितं दण्डनम् अनुभूतव्यम् । इदानीम् ईश्वर: शुनकं पृष्ठवान् मानवाय
किं दण्डनं दातव्यम् इति । सारमेयेन उक्तम् अयं मानवं भवान् भुवि कस्मिन्नपि आढ्य
मन्दिरे धनाधिकारिस्थाने नियोजयतु इति । भगवता पृष्ठं किमर्थम् एवं विचित्रस्य दण्डनस्य
उपस्थापनं करोति इति । शुनकेन उत्तरितम् “अहं स्वयं पूर्वजन्मनि एकस्मिन् देवालये
कोषाधिकारि आसम्, तत्र मया कृतम् अधर्माचरण कारणत: एव अस्मिन् अवतारे शुनकरूपेण जनितवान् ” इति |

शेषं चिन्त्यम् ।

अय्यर् सुब्रहमणिय: चेम्बूर्, मुम्बै – १२/१०/२००९
कृतघ्ना दृष्टिहीना कन्या

एकस्मिन् ग्रामे एका अन्धा सुन्दरी कन्यका निवसति स्म । तत्रत्य जना: तां भाग्यहीनां
सदा निन्दन्ति स्म । परन्तु अमुक: युवक: तांप्रति दयां प्रदर्शितवान्, तस्या: न्यूनतां निवा-
रयित्वा तां परिणेतुमपि वचनम् दत्तवान् । तदनुसारं ताम् अन्धां कन्यां एकस्य नेत्रतज्ञस्य
समीपं नीत्वा तस्या: शल्यचिकित्सां कारयितवान् च ।
यदा दृष्ठिं प्राप्तवती, तदा सा कन्या तस्या: शुभचिन्तकं द्रष्ठुं इतस्तत: अक्षिक्षेपं कृतवती ।
तस्या: दृष्टिगोचरे स: न पतितवान् एव । केषाञ्चित् दिनानामनन्तरं कश्चन अन्ध: तां उपगम्य
तया सह परिणेतुं आशां प्रकटितवान् । तदा तया उक्तं कथं वा अन्धेन सह विवाहं कृत्वा सुखेन
कुटुम्बजीवनं यापितुं शक्ष्यते इति । तत: निर्गमनात्पूर्वं यदा आशाभग्न: युवक: अवदत् यत् स: एव तां
नेत्रदानं कृत्वा अन्ध: अभवत् इति,तदा तस्या: मन:स्थिति: कथं अभविष्यत् इति अस्माभि: चिन्तनीयम् ।

अय्यर् सुब्रह्मणियम्, चेम्बूर्, मुम्बै – १२/१०/२००९
विधिरहो महान्
(दूरदर्शनात् श्रुतस्य एकस्या:तमिल् कथाया: संस्कृत भाषान्तरम्)

कश्चन धनिक: आसीत्, य: स्वकीयं धनं क्षेत्रेषु,भवनेषु, गृहेषु, कार्यालयेषु, यन्त्रागारेषु च
लाभार्थं (वि)नियोगम् कृतवान् । समाजसेवाया: दृष्ट्या, उत किञ्चनानां हिताय च तेन
किमपि धनं विद्यादानार्थं, रुग्णालयेषु अथवा विनामूल्य भोजनस्य व्यवस्थायां वा विनियोगं
न कृतम् । प्राय:, दैवभीत्या, प्रतिफलस्य अपेक्षया च मन्दिरेभ्य: किञ्चित् धनं दत्तवान् स्यात् ।
यथा श्रीकृष्णपरमात्मन: बाल्यमित्रं कुचेल: आसीत्, तथैव एतस्य आढ्यस्यापि एक:
दरिद्र: बाल्यवयस्य: आसीत् । एकदा मार्गे तेन एतं मित्रं मेलितुम् आपतितम् । तदा स्वमित्राय
स्वकीयं वैभवम् संपत्तिं च प्रदर्शनाय सोत्साही भूत्वा तं भोजनाय आमन्त्रितवान् । भोजनात्
पूर्वं तस्य ५० भूमिक(तल)युक्तस्य प्रासादस्य उपरि स्वमित्रं नीत्वा परिसरस्था: सर्वा: सम्पद:
एकैकाशा: तं निर्दिश्य प्रदर्शितवान् । अनन्तरं भोजनार्थम् उपरिष्ठात् गृहंप्रति तौ आगच्छन्तौ
आस्ताम् । परन्तु अवरोहणसमये एकं बृहद् भूकम्पं प्रवृत्तं, तस्य परार्ध रूप्यकाणां यावत् मूल्य् सर्वा:
सम्पद: भूमे:अन्त:/अध: अन्तर्धानं अभवन् च । परन्तु, विधे: अनुसारं तेन इतोपि कष्ठं मन:क्लेशं
च अनुभवितव्यंम् इति आसीत् । अत: स: न मृत: परं तस्य परिवारजना: दिवङ्गता: । अत: उप-जीवनाय तेन अनथाश्रमस्य पुरत: स्थालिकहस्त: भूत्वा प्रतिदिनं पङ्क्त्यां स्थातव्यम् आपतितम् ।
विधिरहो महान् । एषा घटना सर्वेभ्य: अहङ्कारविमूढात्मभ्य: पाठं कल्पयति इति मन्ये

अय्यर् सुब्रह्मणियम्, चेम्बूर्, मुम्बै – ११/९/२००९
खच्छु- खच्छू

पक्षात् पूर्वमेव सामान्य:पीनस: मां अत्यजत् । विगतेभ्य: सप्तदिनेभ्य: अहम् एतेन
त्वग्रोगेण पीडित:अस्मि । आङ्गलभाषायां एतस्य नाम अस्ति herpes/shingles
इति । अयं वेदनदायक: रोग: मसूरी/मसूरिका व्याधि परिवारस्य सदस्य:/अङ्ग: इति
श्रूयते । बाल्यकाले chicken-pox इति नाम्ना व्याधिना पीडितस्य मानवस्य शरीरे
गुप्त-रूपेण वर्तमाना एषा कृमि:, तस्य पश्चिमे वयसि, यदा शरीरस्य रोग निरोधशक्ति:
क्षीयते, तदा पुन: आक्रम्यते इति कथ्यते।
पप्रथमं बाधितस्थाने, वेदना उष्णता च भासते, कदा कदा ज्वर: भवेत्, वेदना
स्पन्दनरूपेण सूचीयातनारूपेण वा पर्यायेण भवेत्-। दिनद्वयानन्तरं तत्र रक्तवर्ण रेखा:/रेषा:
दृश्यन्ते, या: तदनन्तरं विस्फोटकरूपं प्राप्यन्ते । सप्ताहपर्यन्तं वर्धमान: अयं खच्छूरोग: खण्डूयेन
सह क्षीयते, विस्फोटका: न्यूनीभूत्वा शम्यन्ते च । यद्यपि सप्ताहद्वयस्य अनन्तरं रोग: सम्पूर्णतया
अदृश्यं भवति, तथापि बाधितस्थाने लघु वेदना अनुवर्तते एव इति बाधिता: रोगिण: वदन्ति ।
मम विषये, अद्य सप्तमं दिनं प्रचलति, प्राय: श्व: आरभ्य पीडाया:/व्याधे: क्षीणदशा आरप्स्यते इति् मन्ये । शारीरिक उष्णताया: जात: रोग: इत्यस्य कारणात्, प्रतिदिनं स्नानं कर्तुं शक्यते -ज्वरं न वर्तते तर्हि । परं आहार-विहार विषये नियन्त्रणं आवश्यकम् अस्ति इति वैद्या: अनुमोदन्ति । क्षीणदशायां, तत्पश्चात् च वेदना न्यूना भवति, किन्तु अमुक कालावधिपर्यन्तं सा तस्या: उपस्थितिं अस्मान् स्मारयति एव ।
इयं पीडा धमनीं(nerve) प्रथमं बाधयते, अत: (यथा भेरीवादनेन सह वेदिकायां / मञ्चे नट-नटीनां प्रवेशनं भवति) तथा वेदनया सह अस्माकं शरीरे रोगस्य प्रवेश: अपि भवति इति वदाम: चेत् तत्र न अतिशयोक्ति: । शरीरस्य मध्यभागे, वलयमिव, अथवा दक्षिणस्कन्धत: वामकटिप्रदेशापर्यन्तं प्राचीनावीति इव, उत वामस्कन्धत: दक्षिणकटिप्रदेशपर्यन्तम् उपवीतरूपेण बाधयते । कदाचित्, शिरस्, ललाटं वा रोगस्य लक्ष्यं भवति ।
भगवत: गीताचार्याणां आशिषा सप्ताहे दिनत्रयं गीताशिक्षण वर्गमपि विना विरामं चालयितुं शक्तवान्, यत: बाधा शरीरस्य पृष्ठभागे आसीत् । अस्मिन् सप्ताहे, गीतासोपानस्य प्रथमभागस्य समाप्ति: भवति । तदनन्तरं डिसेम्बेर् मासपर्यन्तं पुनरावृत्तिवर्गं चालयिष्यामि इति कल्पना वर्तते । मध्यन्तरे, अस्य मासस्य २०तितम: दिनाङ्कत: २७ तम दिनाङ्क पर्यन्तं यदा अहं गोवा गन्मिष्यामि, तदा मम वरिष्ठ छात्राद्वयंपुनरावृत्तिवर्गं चालयिष्यतीति सङ्कल्पमस्ति ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै, - ५/१०/२००९