Tuesday, December 21, 2010

MathruBhagini

श्रद्धा्ञ्जलि:- (मम मातृभगिनी)

मीनाक्षि (मीना) मम मातु: द्वितीया कनिष्ठभगिनी आसीत् | सा जन्मना एव
एडमूका । यद्यपि सा सम्पूर्णतया अशिक्षिता/निरक्षरी, तथापि सा सर्वथा निपुणतया
व्यवहरति स्म । संज्ञाभाषया तस्या: चिन्तनम् अपरान्:/अपरेभ्य: सुष्ठु प्रकटयति
स्म, सा । शास्त्रमार्गानुसारिणौ मम मातृपितरौ बाल्यकाले एव शास्त्ररीत्या तस्या:
विवाहं कारितवन्तौ परं सा पत्या सह न कदापि उषितवती, कारणं श्वशुरगृहे तस्या:
पीडा भवेत् इति भीत्या तस्या: मातुपितरौ तां तत्र न प्रेषितवन्तौ ।
मम बाल्यकाले, वयं संयुक्ते कुटुम्बे/परिवारे निवसितवन्त:, यत्र सा सर्वेषां साहाय्यकृत् भवति स्म/साहाय्यं करोति स्म । पाककलायाम् अति्निपुणा सती
, खण्डितान् शाखान् दृष्ट्वा एव तद्दिनस्य भोजनस्यकृते किं किं करणीयम् इति सा सम्यक् जानाति स्म । अपरा: स्त्रिय: इव स्वकीयं कुढुम्बं, स्वकीया: शिशव: इति
तस्या: मनसि विद्यमानाया: आशाया: प्रकटनं सा बहूवारं आङ्गिकभाषया मां निवेदयति स्म । परन्तु विधिवशात् तस्या: एताया: इच्छाया: पूर्त्या विना एव तया अस्य मासस्य
१२ दिनाङ्के इहलोकत: निर्गन्तव्यम् आपतितम् इति विचिन्त्य मनसि अतीव व्यधा भवत्येव । तस्या: मरणं मुम्बै नगरस्थे, कोपर्करणे उपनगरे विद्यमानस्य एकस्मिन् रुग्णालये अभुत् ।
तस्या: मातृपितॄणां निधनानन्तरं सा तस्या: समग्रं जीवनं ललिताम्बाळ् इति नामिकाया: तस्या: अपरया कनिष्ठभगिन्या सह एव यापितवती । मम कुढुम्बपरिस्थित्या: कारणत: कदापि तां मम गृहं नीत्वा पालयितुं सन्दर्भं न प्राप्तम् इति मयि खेदं भवत्येव । तस्या: मनसि किं किं प्रचलति स्म इति वयं कदापि वक्तुं न शक्नुम:, परं मूकताया: कारणात् सा न केवलं किमपि असमीचीनं वदति स्म, वाचा अपरेभ्य: दु:खं च न यच्छति स्म, अपि तु बधिरताकारणत: अपराणाम् असमीचीना: शब्दा: तस्यां मन:क्लेशं जनयितुम् असफला: अभवन् ।
एतस्य लेखनद्वारा अहं तस्या: आत्मानंप्रति मम श्रद्धाञ्जलिं समर्पयामि ।
अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – आगस्ट् १३-८-२००९

”सा आजीवनम् इतरेषां सुखस्य मात्रमेव नितरां प्रयतति स्म इति भासते । यदपि कार्यं तया कृतं, तत्सर्वं बन्धुजनानां कुशलम् उद्धिश्य, तस्या: कर्तव्यमिति विचिन्त्य च सा करोति स्म । तस्या: निष्काम्यभावनाया: कारणत: वयं दिवङ्गतां ताम् एका कर्मयोगिनी इति आह्वयाम: चेत्, तत्र कापि अतिशयोक्ति: न भवेत् ।
तस्या: आत्मानंप्रति इयं श्रद्धाञ्जलिं समर्पयामि - मणी “(मम अनुज:)-१७/८/२००९

No comments:

Post a Comment