Tuesday, December 21, 2010

Rajarshi Janaka

अमेरिका देशे, प्रतिदिनं प्रात:काले SUN इत्यस्य दूरदर्शनप्रणाल्याम् एक:स्वामिनाथन् नामक: विज्ञ: धार्मिककथा: कथयति । अमुक् दिने मया श्रुताया: कथाया: भाषान्तरम् अध: ददामि । यदा यदा एतादृशा: कथा: शृणोमि, तदा तदा भाषान्तरं कृत्वा प्रेषयामि ॥

जनक: एक: राजर्षि: आसीत् । एकदा, केचन "कथं वा भवान् राज्यपालनेन सह ऋषे: वृत्तिम् अपि आचरितुं शक्नोति" इति तं पृष्टवन्त: | तदा जनक: तान् परेद्यु: भोजनार्थम् आमन्त्र्य, तस्मिन् समये प्रश्नस्य उत्तरम् उपलभ्यते इत्युक्तवान् । यदा अपरेद्यु: निश्चितसमये अतिथय: आगत्य भोजनपीठे उपविष्टवन्त:, तदा ते एकैकस्यापि भोजन-स्थाल्या: उपरि / उपरिष्टात् दोलायमानं केशं दृष्टवन्त: । कदापि लंबमानं केशं स्थाल्यां पतेत् इत्यस्य भीत्या, ते केशं प्रति वीक्षयन् एव, मौनेन यथा कथापि भोजनं समापितवन्त: । भोजनानन्तरं, जनकस्य प्रश्नस्य उत्तर-रूपेण भोजनम् अतीव रुचिकरम् आसीत् इति कथितवन्त: च ।

परंन्तु जनक: तेषां वदनेषु केचित्त् भ्रान्तिम् उद्वेगतां च अवलोक्य कारणम् अपृच्छत् । तदा एव, ते दोलायमानस्य केशं प्रति तेषां भ्रान्ते: प्रस्तावनं कृतवन्त: । तदा जनक: "यथा भवन्त: दोलायमाने केशे वीक्षणं स्थापयन्त: एव भोजनमपि कृतवन्त:, तथैव अहमपि "आत्मनि" मन: संस्थाप्य, राज्यपालनमपि कुर्वन् अस्मि" इति उक्तवान् । नष्टभ्रान्ता: अतिथय: तत: निश्चिन्तया निर्गतवन्त: ॥
॥ जयतु संस्कृतम्, लसतु संस्कृतम् ॥

अय्यर् सुब्रह्मणिय:, फ्रीमण्ड्/१/८/२००८

No comments:

Post a Comment