Tuesday, December 21, 2010

खच्छु- खच्छू

खच्छु- खच्छू

पक्षात् पूर्वमेव सामान्य:पीनस: मां अत्यजत् । विगतेभ्य: सप्तदिनेभ्य: अहम् एतेन
त्वग्रोगेण पीडित:अस्मि । आङ्गलभाषायां एतस्य नाम अस्ति herpes/shingles
इति । अयं वेदनदायक: रोग: मसूरी/मसूरिका व्याधि परिवारस्य सदस्य:/अङ्ग: इति
श्रूयते । बाल्यकाले chicken-pox इति नाम्ना व्याधिना पीडितस्य मानवस्य शरीरे
गुप्त-रूपेण वर्तमाना एषा कृमि:, तस्य पश्चिमे वयसि, यदा शरीरस्य रोग-निरोधशक्ति:
क्षीयते, तदा पुन: आक्रम्यते इति कथ्यते।
पप्रथमं बाधितस्थाने, वेदना उष्णता च भासते, कदा कदा ज्वर: भवेत्, वेदना
स्पन्दनरूपेण सूचीयातनारूपेण वा पर्यायेण भवेत्। दिनद्वयानन्तरं तत्र रक्तवर्ण-रेखा:/रेषा:
दृश्यन्ते, या: तदनन्तरं विस्फोटकरूपं प्राप्यन्ते । सप्ताहपर्यन्तं वर्धमान: अयं खच्छूरोग: खण्डूयेन
सह क्षीयते, विस्फोटका: न्यूनीभूत्वा शम्यन्ते च । यद्यपि सप्ताहद्वयस्य अनन्तरं रोग: सम्पूर्णतया
अदृश्यं भवति, तथापि बाधितस्थाने लघु वेदना अनुवर्तते एव इति बाधिता: रोगिण: वदन्ति ।
मम विषये, अद्य सप्तमं दिनं प्रचलति, प्राय: श्व: आरभ्य पीडाया:/व्याधे: क्षीणदशा आरप्स्यते इति् मन्ये । शारीरिक -उष्णताया: जात: रोग: इत्यस्य कारणात्, प्रतिदिनं स्नानं कर्तुं शक्यते -ज्वरं न वर्तते तर्हि । परं आहार-विहार विषये नियन्त्रणं आवश्यकम् अस्ति इति वैद्या: अनुमोदन्ति । क्षीणदशायां, तत्पश्चात् च वेदना न्यूना भवति, किन्तु अमुक कालावधिपर्यन्तं सा तस्या: उपस्थितिम् अस्मान् स्मारयति एव ।
इयं पीडा धमनीं(nerve) प्रथमं बाधयते, अत: (यथा भेरीवादनेन सह वेदिकायां / मञ्चे नट-नटीनां प्रवेशनं भवति) तथा वेदनया सह अस्माकं शरीरे रोगस्य प्रवेश: अपि भवति इति वदाम: चेत् तत्र न अतिशयोक्ति: । शरीरस्य मध्यभागे, वलयमिव, अथवा दक्षिणस्कन्धत: वामकटिप्रदेशापर्यन्तं प्राचीनावीति इव, उत वामस्कन्धत: दक्षिणकटिप्रदेशपर्यन्तम् उपवीतरूपेण बाधयते । कदाचित्, शिरः, ललाटं वा रोगस्य लक्ष्यं भवति ।
भगवत: गीताचार्याणां आशिषा सप्ताहे दिनत्रयं गीताशिक्षण वर्गमपि विना विरामं चालयितुं शक्तवान्, यत: बाधा शरीरस्य पृष्ठभागे आसीत् । अस्मिन् सप्ताहे, गीतासोपानस्य प्रथमभागस्य समाप्ति: भवति । तदनन्तरं डिसेम्बेर् मासपर्यन्तं पुनरावृत्तिवर्गं चालयिष्यामि इति कल्पना वर्तते । मध्यन्तरे, अस्य मासस्य २०तितम: दिनाङ्कत: २७ तम दिनाङ्क पर्यन्तं यदा अहं गोवा गन्मिष्यामि, तदा मम वरिष्ठ छात्राद्वयंपुनरावृत्तिवर्गं चालयिष्यतीति सङ्कल्पमस्ति ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै, - ५/१०/२००९

No comments:

Post a Comment