Tuesday, December 21, 2010

Dog and Man

कठोरमनस्क: मानव:

एकदा एक: मानव: विनाकारणं एकं सारमेयं शिलाखण्डं निक्षिप्य व्रणितवान् ।
दु:खित: शुनक: ईश्वरं प्रति स्वकीयं व्यसनं निवेदित्वा न्यायं प्रार्थित्वान् । महेश: यथाविधि
विचराणाय तं मनुष्यं आहूतवान् । मानवेन उक्तं यत् स: श्वान: तस्य भोजनसमये परिसरे
पौनपुन्येन आगत्य पीडितवान्, अत:गत्यन्तरंविना कोपात् तं पलायितुम् एवं करणीयं
आपतितम् । परन्तु भगवता पृष्ठं यत् तेन किमर्थं तस्मै वराकाय शुनकाय अतिथि: इति
मत्वा किञ्चिदपि न दत्वा,स्वयमेव सर्वं खादितम्, इति । अत: एतस्य अधर्माचरणाय
तेन निश्चयेन दण्डनम् अनुभवितव्यम् इति । अस्मिन् विषये शुनकस्य अभिप्राय: अपि
भगवता प्रष्ठ: । कुक्कुर: अवदत् यत् भवान् अयं मानवं भुवि एकस्मिन् आढ्यतमे
मन्दिरस्य धनकोषे दण्डनरूपेण नियोजयताम् इति । एतत् श्रुत्वा आश्चर्यचकित: ईश्वर:
सारमेयं किमर्थं भवान् एवं विचित्रं द्ण्डनं सूचितवान् इति । तदा श्वान: उत्तरितवान् यत्
स: स्वयं पूर्वजन्मनि एकस्मिन् मन्दिरे धनपाल: आसीत् । तत्र कृतम् अधर्माचरणस्य
कारणात्/फलत: एव इहजन्मनि शुनकरूपेण जात: इति । अत: एव अहम् उक्तवान् तं
मानवं भुवि एकस्मिन् मन्दिरे धनेश्वररूपेण नियोजयतु यत: सोऽपि अत्याचारं
कृत्वा शुनकरूपेण पुन:पृथ्वींप्रति प्रत्यागच्छेत् इति ।

अय्यर् सुब्रह्मण्य:, चेम्बूर्, मुम्बै – १९/९/२००९

No comments:

Post a Comment