Tuesday, December 21, 2010

नरक: स्वर्ग: च

नरक: स्वर्ग: च
(दूरदर्शनात् अद्य श्रुताया: मलयाल कथाया: संस्कृत भाषान्तरम्)

कदाचित् नारदमुनि: नरकं द्रष्टुकाम: सन् ब्रह्माणं अनुज्ञार्थं उपगतवान् । पित्रा उक्तं यत् नरकेन
सह स्वर्गमपि तेन द्रष्ठव्यमिति, यत: स्वर्गनरगयो: जीवनशैल्या: तुलना कर्तुं शक्यते इति ।
पप्रथमं, तौ नरगं गतवन्तौ, यदा तत्र भोजनवेला आसीत् । भोजनात्पूर्वं सर्वे नरकवासिन:
हस्तप्रक्षालनं कृत्वा भोजनप्रकोष्ठं प्रति गमनसमये, मार्गे सर्वेषां हस्तयो: एकमेकं चमसं
तत्रत्य सेवकै: खचितं(बन्धीकृतम्) । नाम, ते इहलोके इव हस्तेन अश्नातुमपि न शक्तवन्त:
तेषां कूर्परे, कण्ठे च किमपि प्रतिबन्धकं आसीत्, अत: ते मानवा: इव कूर्परं कण्ठं वा नमित्वा
स्वतन्त्रतया हस्तेन अश्नातुमपि अशक्तवन्त: । अस्यां परिस्थित्यां चमसेन उद्धृतं खाद्यं साक्षात्
मुखे स्थापयितुम् अशक्यत्वात्, दूरत: मुखं प्रति क्षेपणीयं आसीत् । फलत:खाद्यं मुखात् ऋते अन्यत्र
पतत् आसीत् । नाम, यद्यपि विपुलं भोज्यं उपलब्दं आसीत्, तथापि केऽपि तृप्त्या उदरपूर्ति: कर्तुं न अशक्नुवन् । अत्र एकं मलयालं सुभाषितं मम स्मृतिपदे आयाति । यद्यपि नदी जलपूरिता भवति,
, तथापि शुनकेन जिह्वया एव नद्या: जलं अवलेहनीयम्/पातव्यं भवतीति ।
इदानीम् विधाता स्वपुत्रं स्वर्गं प्रति नीतवान् । तत्रापि भोजनप्रकोष्ठे इयमेव प्रथा – नाम
हस्तप्रक्षालनानन्तरं चमसबन्धनं इत्यादि – प्रचलति स्म । परन्तु, अत्रत्य निवासिन: नरक-वासिन: अपेक्षया बुद्धिमन्त: इव दृश्यते, कारणं एकैक: अपि चमसेन स्वीकृतं खाद्यं स्वकीये मुखे स्थापनस्य अपेक्षया पुरत: उपविष्टत: जनस्य मुखे स्थापयन्ति स्म । एवं विधेन सर्वे परस्परं भोजयन्त: आसन्, यत: विनाक्लेशं सर्व: तृप्तिपूर्वकं आहारं स्वीकरोति स्म ।
एतेन आदानप्रदानद्वारा स्वर्गवासिन: कूर्परेषु कण्ठेषु च विद्यमानान् प्रतिबन्धान्
पराजित्य सम्यक् अश्नातुं शक्तवन्त: इति दूरदर्शनात् श्रूता एष कथा वदति ।

अय्यर् सुब्रह्मणिय:,
चेम्बूर्, मुम्बै – १८/९/२००९

No comments:

Post a Comment