Tuesday, December 21, 2010

Gita Kendra Inauguration

भाषारूपिण्यै नम:, वाग्देव्यै नम:, महासरस्वत्यै नम:, नम: सर्वेभ्य:
***************
अद्य अत्र संस्कृतभारत्या:चेम्बूर् गीता शिक्षण केन्द्रस्य उद्घाटनकार्यक्रमसमारम्भे भवतां सर्वेषां सुस्वागतम् । अयं कार्यक्रमं संस्कृतभारत्या न केवलं समग्रे भारतदेशे, अपितु विदेशेऽपि आयोजितम् अस्ति ।
संस्कृतभारती सप्तविंशद्भ्य: वर्षेभ्य: पूर्वं कैश्चन संस्कृतप्रेमिभि: संस्कृतभाषाया: प्रचाराय संस्थापिता संस्था भवति । न केवलं भारतदेशे सर्वेषु राज्येषु अपि तु विदेशे १२ राज्येषु तस्या: शिक्षणकेन्द्रा: वर्तन्ते । संस्कृतभारत्या: सर्वेषानुसारं अध्यावधि विश्वस्तरे ८० लक्षं जना: संस्कृतभारतीद्वारा संस्कृताध्ययनं प्राप्तवन्त: ।
इदानीं संस्कृतभारत्या भगवद्गीताद्वारा संस्कृत्ताध्ययनं, संस्कृतद्वारा गीताभ्यासं इति नूतना पाठ्यपद्धति रचिता अस्ति । गीतासोपानम् इति भागद्वयम्, गीता प्रवेशस्य प्रथम भाग:, गीताप्रवेशस्य द्वितीय भागस्य खण्डद्वयम् इति ५ पुस्तकानि सन्ति । एतेषां पुस्तकानां अध्ययनाय १८ मासानां कालावधि: निर्णित: अस्ति । Outlook India नामकस्य मासिकानुसारं अध्यावधि ३०,००० जना: गीता शिक्षण वर्गाय पञ्चीकरणम् कृतवन्त: ।
अद्य अस्माकं मध्ये अत्रत्य श्रुङ्गेरि मठस्य वरिष्ठा संस्कृताध्यापिका श्रीमति इन्द्रा मुरलीधरन् मुख्यातिथिरूपेण उपस्थिता अस्ति । प्राय: भवन्त: जानन्ति यत् सा घाट्कोपरस्थे North Bombay Welfare School मध्ये विगतेभ्य: कतिपयेभ्य: वर्षेभ्य: संस्कृतं पाठयति इति । श्रुङ्गेरि मठेऽपि सप्ताहान्त वर्गा: सा सञ्चालयति । अहम् इन्द्रामहोदयाम् दीपं ज्वालयित्वा/प्रज्वाल्य अस्य केन्द्रस्य उद्घाटनं कर्तुं प्रार्थयामि ।
* * * * * * * * * *
धन्यवाद: - पप्रथमम् अस्माकम् आमन्त्रणं स्वीकृत्य तस्या: अमूल्यं समयं व्ययीकृत्य अत्र आगत्य कार्यक्रमाय शोभां दत्तवत्यै मुख्यातिथ्यै हृद्य धन्यवादार्पणं करोमि । अन्यच्छ, अस्मान् अत्र संस्कृतवर्गं सञ्चालयितुं अनुमतिं दत्तवद्भ्य: श्रुङ्गेरि मठस्य अधिकारिभ्य: - विशेषतया वैद्यलिङ्गम् महोदयाय, क्रुतज्ञतां न प्रकटयाम: चेत्, वयं कृतघ्ना: भवेम । संस्कृतस्य प्रसाराय स: भृशं प्रयत्नं कुर्वन् अस्ति । अन्ते अत्र आगत्य सहिष्णुतया अस्मिन् कार्यक्रमे भागम् ऊढवन्त: भवद्भ्य: सर्वेभ्य: अपि मम धन्यवादा: ।

॥ जयतु स्स्कृतम्, लसतु संस्कृतम्, जयतु भारतम् ॥

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै– ९/७/०९

No comments:

Post a Comment