Tuesday, September 29, 2009

ॐ श्री गुरुभ्यो नम-:महासरस्वत्यै नम:-,भाषारूपिण्यै नम:-नम: सर्वेभ्य:
सर्वेभ्य: नवरात्री पर्वस्य शुभाशया:

पप्रथमम्, अत्र संस्कृत भारत्यै गीताशिक्षणवर्गं चालयितुं अनुमतिं दत्तवद्भ्य: अत्रत्य
अधिकारिभ्य:, प्रत्येकतया श्री वैद्यलिङ्गं महोदयाय अस्माकं कृतज्ञतां न प्रकटयाम: चेत्, वयं
कृतघ्ना: भवाम:॥ तेषाम् अस्माकं हृद्य धन्यवादा: ।
वैद्यलिङ्गं महोदय: संस्कृतस्य प्रचाराय भगीरतप्रयत्नमेव कुर्वन् अस्ति । शृङ्गेरि
मठस्य छात्राणां कृते स:विगते वर्षद्वये द्विवारं संम्भाषणवर्गस्य आयोजनं कृतवान्, परन्तु नियमतया केऽपि् वर्गं न आगच्छन्ति स्म । प्राय: ते मुखम् उद्घाट्य संस्कृतेन वक्तुं लज्जां अनुभवन्ति इति दृश्यते ।
सप्ताहे एकवारं आयो्जित: अयं वर्ग: छात्राणां अनुपस्थित्यात् कालक्रमेण अन्तर्धानं अभूत् ॥
जूलै मासस्य नवमे दिनाङ्के आरब्दस्य गीताशिक्षणकेन्द्रस्य प्रथमं चक्रं प्राय: नोवेम्बर
मासपर्यन्त्सं समाप्तिं प्राप्स्यति । तदनन्तरं डिसेम्बर मासे परीक्षा् भविष्यति । अस्मिन् वर्गे १५
विद्यर्थिन: सन्ति, एतेषु मीनाक्षी नाम्नी छात्रा बान्द्रात:, अपरा कावेरी नाम्नी छात्रा वाषीत:
नियमतया आगच्छत: । जनवरि मासात् आरभ्य अस्य पाठ्यपद्धत्या: द्वितीयं चक्रं आरप्स्यते ।
युगपत् नूतनानां छात्राणां कृते प्रथम चक्रस्य(वर्गस्य) आयोजनमपि करिष्याम: ।यथा द्वितीयं वर्गं अहं चालयिष्यामि, नूतनं प्रथमं वर्गं इदानीन्तनौ छात्रौ श्रीमान् राधाकृष्ण:, कुमारि सुधा सुन्दरं च चालयिष्यत: । तत्पूर्वं नूतनेभ्य: छात्रेभ्य: १० दिनात्मकं शिबिरमेकम् अपि आयोजयिष्याम:, यत्र संस्कृत-भाषया सह् तेषां परिचयं भविष्यति।
१५ वर्षेभ्य: पूर्वम् अत्र अभिनवविद्यातीर्थवेदपाठशालाया:, ग्रन्थालयस्य च उद्घाटनं शृङ्गेरि मठाधीशै:भारतीर्थस्वामिभि: कृतम् । तदवसरे, अनुग्रहभाषणं कुर्वाणा: स्वामिन: अवाचन्/अब्रुवन्/ऊचु: यत् संस्कृता्ध्ययनं सर्वेषां भारतीयानां कर्तव्यं वर्तते इति । तथैव संस्कृतस्य अनद्ययनं संस्कृतमातु: अनादर: अपमान: च भवत: इति ।अहं वदामि, वयम् आचार्याणां दर्शनार्थं युतकं निष्कास्य, पञ्चगच्छं धृत्वा/धरित्वा, बद्धाञ्जल्या नम्रतया च सह तेषां समक्षं गच्छाम: । परन्तु तेषाम् आज्ञानुसारं/ इच्छानु-गुणम् /मार्गदर्शनानुसारं न कदापि व्यवहराम: इत्येतत्: कटुसत्यमेव । अस्मिन् विषये अस्माभि: चिन्तनीयम् ॥
:
॥ जयतु संस्कृतम्, लसतु संस्कृतम् ॥-------- ॥ संस्कृतेन सम्भाषणं कुरु, जीवनस्य परिवर्तनं कुरु ॥

अय्यर् सुब्रह्मण्य:, चेम्बूर्, मुम्बै – २८/९/२००९

Wednesday, September 2, 2009

त्सामान्य: पीनस:

यद्यपि आङ्गलभाषया common cold इत्याहूयते, एष: पीनस: न केवलं सामान्यजजनान्, अपि तु राज्ञ:, नेतॄन्, धनवत:, शक्तिमत: दरिद्रान् भेदभावं विना पीडयति । न्यूनातिन्यूनं सप्ताहं यावत्
अस्मान् पीडयन् अयं रोग: अहिंसक (innocent) इव दृश्यते, परन्तु अतीव भयावह: पीडाजनक: च र्तते । औषधै: कोऽपि परिणाम: न भवति । एकस्या: आङ्गलेय लोकोक्त्यानुसारम्,” औषधं विना एष: अस्माभि: सह सप्त दिनानि यावत् तिष्ठति, औषधेन सह , साप्ताह्पर्यन्तम् अस्मान् न त्यजति” इति अन्यच्च, एष: अकृत्रिम: (innocent): इव दृश्यमान: पीडाजनक:, न केवलम् अपराणां रोगाणां कृते प्रवेशद्वारं भवति(कल्पते), अपि तु तेषां कृते सुदृढं पूर्वभूमिकां च सज्जीकरोति(कल्पते)। अस्माकं क्रियाशक्ते: उत्खननद्वारा, अस्मान् निरुत्साहिन:, उन्मेषहीनान् च कृत्वा, शय्यायां निक्षिपति ,। अद्यावधि, अनया पीडया विश्चस्तरे कति मानव-घण्टा: (man hours) लुप्ता:/अपहृता: इति केपि सर्वेषणं अकुर्वन् किम्?
अस्माकं तनु:(शरीरं) वेदनाया: क्रीडाक्षेत्रं भवति । एक: वदेत्, शिरोवेदना एव अपराणां वेदनानाम् अपेक्षया क्लेशदायिका इति, अन्य: वदेत्, दन्तवेदना, अपर: वदेत् उदरवेदना इति । । परन्तु कटु सत्यं भवति यत्, सर्वा(each) वेदना तत्तत्समये तीव्रतरा प्रतिभाति । किन्तु, एता: शारीरिकवेदना:, निरुपद्रवी (innocent) इव दृश्यमानं पीनसं स्थानच्युतं कर्तुं न अर्हन्ति । धनम् एतस्य रोगस्य पीडाया: कालावधिं न्यूनीकर्तुं न शक्नोति । एतस्मात् पीनसात् एव पप्रथमं कुक्कुटज्वर:, तदनन्तरम् इदानीं सू(शू)करज्वर: च सञ्जातौ इति दृश्यते ।
एतस्य लेखनस्य कारणकर्ता पीनस: एव , य: आमन्त्रणं विना इदानीं मया सह अतिथिरूपेण निवसति । यस्य गमनागमनतिथि: नास्ति, स: “अ-तिथि:” इत्युच्यते इति कुत्रापि मया पठितम् । पञ्च दिनेभ्य: पूर्वम् आगत: एष: पीनसातिथि: प्राय: द्वित्राणां दिनानामनन्तरं निर्गच्छेत् इति आशासे/ विश्वसिमि । भारतीय संस्कृत्यानुसारं उपचारा:/ अतिथिसत्कारा: च सम्यग् रीत्या प्रचलन्ति एव ।

अय्यर् सुब्रह्मणियम्, चेम्बूर्, मुम्बै – २२/८/०९