Tuesday, December 21, 2010

Narendra

नरेन्द्र:अश्वशकट: च

नरेन्द्र: कस्मिन्चित् आङ्गलेय माध्यमिके विद्यालये पठति स्म । अध्यापक: सर्वान् छात्रान्, भविष्यकाले, ते किं भवितुं इच्छन्ति इति अपृच्छत् । कश्चन वैद्य: भवितुं, कश्चन गायक: भवितुं, कश्चन क्रीडालू भवितुं, पुन: कश्चन विमानचालक: भवितुं, कश्चन, विज्ञानी भवितुं, , कश्चन सैनिक:, कश्चन व्योमयात्रिक: भवितुम् इति उत्तरितवन्त: । नरेन्द्रेण उक्तं यत् स: अश्वशकटचालक: भवितुं इच्छतीति । तस्य विचित्रम् आग्रहं श्रुत्वा न केवलं शिक्षक: तं भृशं तर्जितवान्, अपि तु सहपाठिन: परिहासध्वन्या हसितवन्त: ।

दु:खित: नरेन्द्र: अवनमशिरसा गृहंप्रति आगतवान् । यदा उन्मेषहीनं स्वपुत्रं माता कारणं पृष्ठवती, तदा स: विद्यालये घटितं सर्वं विवृणतवान्/व्यावृणोत् । माता तं क्रोडे स्वीकृत्य सान्त्वनं कुर्वती तं पूजाप्रोकष्ठं नीत्वा तत्र संस्थापितस्य गीतोपदेशपटं/प्रतिमां दर्शयित्वा, निश्चयेन भाविकाले नरेन्द्र: गीतोपदेशस्थे कृष्ण: इव अश्वयुक्तं शकटं चालयिष्यतीति आश्वासं कृतवती ।

मातु: भविष्यवाणी तथ्यम् अभूत् । स: नरेन्द्र: एव अनन्तरकाले विवेकानन्दस्वामि्रूपेण
समग्रे विश्वे तस्य वाक्चातुर्येण महत्वम् अप्राप्नोत् इति वयं सर्वे जानन्ति एव ।


अय्यर् सुब्रह्मणियं, चेम्बूर्, मुम्बै \ २/८/२००९

No comments:

Post a Comment