Tuesday, December 21, 2010

Anasuya

चतस्र: देव्य: -अनसूया, लक्ष्मी:, सरस्वती, पार्वती च

कदाचित्, नारदमुनि: लक्ष्मीं, सरस्वतीं, पार्वतीं च न्यवेदयत् यत् भुवि अनसूया नामिका एका श्रेष्ठा पतिव्रता निवसतीति । प्रकृत्या एव स्त्रीगुणानुसारं, ता: अनसूयाया: पातिव्रत्यंप्रति श्रुत्वा असूयाविष्ठा: अभवन् । फलत: अशान्ता: देव्य: पतीन् उपगम्य तासां मनक्लेशस्य कारणं निवेदितवन्त:, अनसूयाया: परीक्षां कर्तुं तान् प्रेरयितुं सफला: अभवन् च ।

यथा इहलोकव्यवहारे घटति, तथैव एते त्रया: अपि स्त्रीवशवर्तिन:/स्त्रीजिता: (hen pecked) पतय: तेषां पत्नीनां मन्:क्लेशस्य कारणभूतां महिलां परीक्ष्कितुं भुविंप्रति प्रच्छन्न/गुप्तं ब्राह्मणरूपम् धृत्वा प्रतिष्ठवन्त:/प्रस्तितवन्त: ।

आगतान् अतिथी: दृष्ट्वा पतिव्रता अनसूया यथाविधि तेषां स्वागतं कृत्वा उपचारमपि अकरोत् । तदनन्तरं कुटीरस्य(आश्रमस्य) अन्त: गत्वा भिक्षाम् आनीतवती । तदा प्रच्छन्नरूपधारिण: ब्राह्मणा: अवदन् यत्, ते वस्तूनां भिक्षां नेच्छन्ति, परं तां आवरणेन/ वस्त्रेण विना, तस्या: नग्नरूपं निरीक्षितुम् इच्छुका: सन्तीति । तदा सर्वज्ञानी पतिव्रता अनसूया अवोचत् यत्, यदि ते तस्या: मनसि वर्तमानं स्वरूपं तस्या: पुरत: आनेष्यन्ति, तर्हि निश्चयेन सा तेषा्म् आशा: पूरयिष्यतीति । तथास्तु इति आशीर्वचनं दत्तवन्त: समनन्तरमेव अनसूयाया: पातिव्रत्यस्य प्रभावेन शिशूनां रूपं प्राप्नुवन् । प्रतिज्ञानानुसारं, अनसूया निर्वस्त्रा भूत्वा त्रय: अपि शिशून् क्रोडे स्वीकृत्य स्तनपानम् अकरोत् । तत्पश्चात्, त्रय: अपि – ब्रह्मा, विष्णु, महेश्वर: - शिशुरूपेण तस्मिन् आश्रमे एव उषितवन्त: ।

तत्र - वैकुण्ठे, शिवलोके, ब्रह्मलोके च,- देव्य: स्वपतय: इतोऽपि न प्रत्यागतवन्त: इति विचिन्त्य व्याकुला: अभवन् । केषाञ्चन दिनानाम अनन्तरम्, अन्ते गत्यन्तरं विना ता: स्वकीयानां पतीनाम् अन्वेषणाय आश्रमं प्राप्तवत्य: । तत्र शिशूणांरुपे स्वपतीन् दृष्ट्वा सत्यम् अवगम्य, तान् प्रत्यर्पयितुं अनसूयां अभ्यर्थितवत्य: च।

एवंरीत्या तिस्रूणां देवीनां गर्वभङ्गम् अनसूयाद्वारा अभूत् ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – ६/८/०९

No comments:

Post a Comment