Tuesday, December 21, 2010

Shibira Vrittantam - 2

द्वादशकं शिबिर वृत्तम्

चेम्बूरस्थे शृङ्गेरमठ्स्य आश्रये, श्री वैद्यलिङ्गं महोदयस्य साहाय्येन, भारतदेशस्थं मम षष्ठं दशदिनात्मकं शिबिरं, विगतस्य वर्षस्य अन्तिमेषु दश दिनेषु (नाम डिसेम्बर् २२ तम: दिनाकत: ३१ तमं दिनाङ्कपर्यन्तं) प्राचलत् ।

यद्यपि प्रथमे दिने १३ संस्कृतार्थिन: आगतवन्त:, अन्तिमे दिने १० सहभागिन: एव आसन्। । एते श्रद्धालव: विद्यार्थिन:, (ये प्रतिदिनम् आगच्छन्ति स्म), अर्थपूर्णान् प्रश्नान् पृच्छन्ति स्म । भागगृहीतृषु, ५ महिला:, ५ पुरुषा: च आसन् । शिबिरस्य अनन्तरं सर्वे १त:-१००पर्यन्तं संख्ह्या:, समय:, दिनचर्या च संस्कृतेन स्पष्टतया आत्मविश्वासेन च वक्तुं शक्नुवन्ति । प्रथमे दिनद्वये एका बालिका अपि आगतवती, परं विरामस्य अनन्तरस्य परीक्षाया: सिद्धता करणीया इत्यस्य कारणत: अनन्तरं सा वर्गं त्यक्तवती ।

शिबिरस्य समापनदिने वैद्यलिङ्गं महोदयेन सह, शृङ्गेरि मठस्य संस्कृत ग्रन्थालयस्य निर्वाहक:, श्री रामचन्द्रन् महोदय: अपि वेदिकाम् अलङ्कृतवान् । सहभागिन: (छात्रा:) लघु शब्दकोशम्, व्यवहार साहस्री, चित्रपदकोश:, अभ्यासपुस्तकम्, पञ्चतन्त्र कथा: इत्यादीनि पुस्तकानि क्रेतुम् इष्टवन्त: । प्राय: इदानीं एतानि पुस्तकानि अत्र समये न उपलभ्यन्ते इत्यस्य कारणत: अहं साक्षात् बङ्गलूरुरस्थे संस्कृत भारती्कार्यालयत: प्राप्तुं सङ्कणकद्वारा आयोजनं कृतवान् ।

शिबिरस्य समापनस्य समनन्तरमेव, परेद्यु: (नाम जनवरी प्रथम दिनाङ्गत) साप्ताहिक मेलन वर्गस्य आरम्भमपि कृतम् । अस्मिन् मेलने संभाषणाभ्यासमपि भवति । वैद्यलिङ्गं महोदयाय कृतज्ञतार्पणेन सह अहं इदं वृत्तम् अत्र समापयामि ।

यदा अहं द्विवारं – २००६ तमे वर्षे, २००८ तमे वर्षे च - प्रवासाय अमेरिका देशे आसम्, तदा क्यालिफोर्णिया राज्यस्य फ्रीमोण्ड् इति नामके नगरे आहत्य ६ शिबिराणि, प्रथमदीक्षाया:, द्वितीय दीक्षाया: वर्गान् च चालितवान् । भारतदेशेऽपि अद्यावदि ६ शिबिराणि, प्रथम दीक्षाया: वर्गद्वयमपि चालितवान् । आहत्य विगते वर्षद्वये द्वादशकानि शिबिराणि मया चालितानि । वाणी देव्या: आशिषा, मुम्बैस्थे संस्कृत भारत्या: कार्यकर्तॄणां, संस्कृतबन्धूनां साहाय्येन मार्गदर्शनेन च एव एतत् संस्कृतसेवा साधिता इति अहं मन्ये ।

॥ संस्कृतमातु: सेवायां - अय्यर् सुब्रमणियम्, चेम्बुर्, मुम्बै ४०००७१ – १/१/२००९ ॥

No comments:

Post a Comment