Tuesday, December 21, 2010

Debate Between Senses

एकस्य दूरदर्शन कार्यक्रमस्य संस्कृत्तानुवाद:-

एकदा पञ्चेन्द्रियाणां मध्ये चर्चा संभूता / उद्भूता यत्, शरीरस्य निर्वाहण / निर्वहण विषये कस्य भूमिका महत्वं वहतीति । युगलम्(pairs) इत्यत: कर्णौ, नेत्रे, नासिका छिद्रे च, तेषामेव भूमिका: श्रेष्ठा: इति दृढतया तर्कितवन्त: । तदा रसनया उक्तं यत्त्, सापि कार्यद्वयं कुर्वती अस्तीति – भाषणम्, भोजनस्य आस्वादनं च । एतत् श्रुत्वा, त्वचा उक्तं यत् मानवस्य सम्पूर्णं शरीरं, नख-शिख पर्यन्तं (केशादिपादं) तया एव व्यापितम् अस्ति, अत: शरीरव्यवहारे तस्या: एव भूमिका महत्वं वहति इति ।
समरसस्य अभावात्, सर्वाणि इन्द्रियाणि अन्तिम निर्णयाय ब्रह्मदेवं प्रति गतवन्त:, तस्य समक्षं समस्यां समर्पितवन्त: च । पर्यालोचनानन्तरं, विधाता आदिशत् यत्, एकैकेन अपि शरीरस्य व्यवहारात् एकस्य दिनस्य विरामं स्वीकरणीयम् इति । तथैव सर्वम्(each) इन्द्रियम एकैकस्य दिनस्य अवकाशं स्वीकृतवन्त: ।
पप्रथमं कर्णौ, अनन्तरे दिने नेत्रे, इति क्रमेण सर्वाणि इन्द्रियाणि शरीरव्यवहारात् विरामं स्वीकृतवन्त: । यदा नासिका विरामं स्वीकृतवती, तस्मिन् दिने तस्या: श्वासोच्छ्वास कार्यं मुखेन कृतम् । एवं रीत्या एकस्य इन्द्रियस्य अनुपस्थित्याम् इतराणाम इन्द्रियाणां साहाय्येन, शरीरव्यवहारं यथाविधि केनापि अवरोधेन/विघ्नेन विना सम्यक् प्रचलति स्म - नाम, पुन: किमपि निर्णयं न जातम् ।
तस्मिन् समये, कुतोऽ अपि हास: श्रुत:। इन्द्रियाणि इतस्तत: अवलोकितवन्त: । हास: आसीत् "आत्मन:" –एकता / ऐक्य रहिते शरीरे अहम् उषितुं न् इच्छामि इति वदन् आत्मा अपि नित्यविरामं स्वीकृतवान् | शेषं चिन्त्यम् |
॥ जयतु संस्कृतं, लसतु संस्कृतम्॥
अय्यर् सुब्रह्मणियम्, फ्रिमोण्ड्, कलिफोर्णिय

No comments:

Post a Comment