Tuesday, December 21, 2010

Gita Kendra

चेम्बूर् गीता शिक्षणकेन्द्र उद्घाटकार्यक्रमस्य वृत्तम्

जूलै मासस्य नवमे दिनाङ्के चेम्बूर् उपनगरस्थे शृङ्गेरि मठे, गीतोपदेशस्य, भारतमातु:
च भावचित्रयो: सन्निधौ/समक्षं, चेम्बूर् गीताशिक्षण केन्द्रस्य सवैभवम् उद्घाटनम् अभूत् । मुख्यातिथिरूपेण अत्रत्य शारदा विद्याकेन्द्रस्य वरिष्ठा संस्क्रुताध्यापिका, श्रीमति इन्दिरा मुरलीधरन्, उपस्थिता आसीत् । शृङ्गेरि मठस्य कार्यकर्ता श्री वैद्यलिङम् कार्यक्रमस्य मार्गदर्शनम् अकरोत् । गीताकेन्द्रस्य सञ्चालक:, अय्यर् सुब्रह्मणिय: संस्कृतभारत्या: परिचयं कारयित्वा, गीताद्वारा संस्कृतम् इत्यस्य नूतनाया: पाठ्यपद्धत्या: पुस्तकश:
विवरणं कृतवान् । तदनन्तरं मुख्यातिथि: दीपं प्रज्वाल्य केन्द्रस्य उद्घाटनं अकरोत् मुख्यातिथि: अपरा: वक्तार: च गीताद्वारा संस्कृतम् इति पाठ्यपद्धतीं, संस्कृतस्य प्रचाराय संस्कृतभारत्या क्रियमाणस्य प्रयत्नस्य च भृशं प्रस्तुतिं कृतवन्त: । कार्यक्रमे उप २५ संस्कृत अभिलाषिण: उपस्थिता: आसन्, १४ शिक्षार्थिन: गीताशिक्षण वर्गाय पञ्चीकरणं कृतवन्त: च । श्री सन्जीव शेट्टी महोदय: धन्यवादर्पणम् अकरोत् । तस्मिन्नेव दिने गीतावर्गमपि आरब्दम् ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै - १०/७/२००९

No comments:

Post a Comment