Tuesday, December 21, 2010

Father Rat

मूषकवध्वा: पिता

कश्चन पर्वतस्य छिद्रे/बिले कश्चन मूषक: स्वपरिवारेण सह सुखेन निवसति स्म । यदा तस्य एकाकिनी पुत्री विवाहप्रायं प्राप्तवती, तदा तस्या: कृते, सुयोग्याय वराय अन्वेषणम् आरब्दवान् । कस्यचन मित्रस्य सूचनानुसारं स: पप्रथमं विधातारंप्रति अगच्छत् । ब्रह्मदेवेन उक्तं यत्, तस्य अपेक्षया सूर्यदेव: तस्य पुत्र्यै योग्य: वर: भवेत् इति,। अत: आखु; (मूषक:)
आदित्यम् उपगम्य स्वपुत्र्या: विवाहविषयं प्रस्थापितवान् । भास्करेण उक्तम् यत्, तस्य अपेक्षया मेघ: शक्तिमान् वर्तते, यत: “स: माम् आवरणं कृत्वा मम प्रकाशं एव नष्टं कर्तुं शक्नोति, ”अत: मेघ: एव भवत: योग्य: जामाता भवितुम् अर्हति इति । उंदूरु: (मूषक:) इदानीं जलमुच्: गृहंप्रति प्रस्थितवान्, तत्र विवाहस्य प्रस्थापनं कृतवान् च । मेघेन उक्तं यत् अनिल: (वायु:) तस्य अपेक्षया बलवान् भवति, यत: पवन: तस्य गतिनिरोधनं कर्तुं/
निरोद्धुं, / विभ्रामयितुं (परिवर्तनं कर्तुं) च शक्नोति इति । अत: गत्यन्तरं विना खनक: (मूषक:) वायुम् उपगम्य विवाहविषयं निवेदितवान् । अनिलेन उक्तं यत्, पर्वत: तस्य अपेक्षया बलवान्/महान् च विद्यते, यत: स: वायो: गमनस्य रोधनं/प्रबन्धनं कर्तुं शक्नोति, अत: शैल:/अद्रि:/गिरि: एव तस्य जामातु: भवितुम् अर्हति इति । इदानीं अस्माकं विषण्ण: मूषकपिता स्ववासस्थलं गत्वा पर्वतं उपगम्य स्वपुत्र्या: परिणयविषयं तस्य पुरत: संस्थापितवान् । गिरिणा उक्तं यत् तस्य अनुभवं वदति यत्, मूषक: एव तस्य अपेक्षया महान्, यत: स: पर्वतस्य कस्मिन्नपि भागे सुलभेन छिद्रं निर्माय तं धूलीं कर्तुं शक्नोति इति । शेषं किम् अभवत् इत्ति कोऽपि न जानाति ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – ४/२/२००९

No comments:

Post a Comment