Tuesday, December 21, 2010

धर्माचरणस्य फलम्

धर्माचरणस्य फलम्

प्राय:१९८५ तमे वर्षे, यदा अहं मुम्बैमध्ये उद्योगस्थ: आसं तदा घटित: तथ्या घटना एषा । प्रतिदिनमिव चेम्बूर् उपनगरत: प्रात: ८-२५ वादनस्य स्थानीय रेल्यानेन कार्यालयंप्रति गच्छन् आसम् । साधारणत: इव यानम् आरुह्य मम यानपेटिकाम् उपरि निधानिकायां संस्थाप्य, वातायनसमीपे उपविश्य वार्तापत्रिकां पठन्नेव अहं सुप्तवान् । रेल्यानं यदा अन्तिमं स्थानकं प्राप्तं, तदा कोऽपि सज्जन: मां उत्थापितवान् । तत्रान्तरे सर्वे प्रवासिन: अवरूढवन्त: । यदा मम यानपेटिकां उपरिष्ठात् निधानिकात् निष्कासितुं (गृह्णातुं) यतन् आसं, तदा तत्र अपरां यानपेटिकां दृष्ट्वा किंकर्तव्यसम्मूढताम् अनुभूतवान् । अन्तत: पेटिकाद्वयमपि स्वीकृत्य कार्यालयंप्रति पद्भ्यां गतवान् । रेल्स्थानत: बहि: आगमनपर्यन्तं, मम हस्तयो: पेटिकाद्वयं दृष्ट्वा आरक्षका: कदापि प्रश्नं पृच्छेयु: इति भीत्या, अहं यथाकथापि मुख्यमार्गं प्राप्तवान् । Victoria Terminus नामक अन्तिम रेल्स्थानकत: मम कार्यालयं पद्भ्यां २० कलानां दूरे आसीत् (अमेरिका देशे दूरस्य मापनं कार् यानम् एव प्रमाणीकरोति) ।
कार्यालयस्य प्राप्त्यानन्तरम् अहं यदा द्वितीयां पेटिकां उद्घाटितवान्, तदा तत: धनपत्राणां बन्धा: मांप्रति अक्षिक्षेपं कुर्वन्त: सन्त: /आसन् । अद्यावधि, मया न कदापि तावान् धनपत्र-बन्धा; न दृष्टा:, अत: दृश्यमयं मां भयाविष्ट: अकरोत् । यदा अहं मम अधिकारिणं धनपत्रबन्धा: सहित पेटिकांप्रति निवेदितवान्, स: कथं वा भवान् रेल्स्थानकस्थे आरक्षकालये द्वितीयां पेटिकां न समर्पितवानिति तर्जितवान् । यदि तथा अकरिष्यं, तर्हि कार्यालय आगमने विल्म्बम् अभविष्यत् इति भीत्या आरक्षकालयं न अग्च्छम् इति उत्तरितं मया ।
तदनन्तरं आवां तस्या: पेटिकाया: यजमानस्य दूरवाणी क्रमाङ्काय अन्वेषणं कृतवन्तौ । पेटिकात: प्राप्तस्य सङ्क्णकक्रमाङ्के तस्य सम्पर्कं न साधितम् । अन्तत: गत्वा ज्ञातं यत् स: मुस्लिम: एकस्य लघु यन्त्राकारस्य स्वामि: अस्ति, तस्य गृहं मुम्बैत: प्राय: १०० अर्धकोश(miles) दूरस्थे कल्याण् नगरे वर्तते च इति । मम अधिकारिण: उपदेशानुसारं मम मित्रेण सह, कार्यानेन अहं मध्यान्हे, पेटिकया सह कल्याण् नगरंप्रति प्रस्थितवान् । यदा सायङ्काले तत्र प्राप्तवन्तौ, तदा स: मुस्लिम: शुक्रवासर: इत्यत: यावनधर्ममन्दिरं गतवान् इति ज्ञातम् । किञ्चित् कालात् परं यदा स: आगत:, तदा स: सत्वरं मां प्रात:का्ले रेल्याने तेन दृष्ट: प्रवासी इति अभिज्ञातवान् । सर्वं व्यवस्थितं अस्ति वा पश्यतु इति वदन्, आवां तस्य हस्ते पेटिकां समर्पितवन्तौ । पेटिकां पार्श्वे स्थापयन्नेव स: उक्तवान् यत्- ”सज्जन: भवान् अद्य प्रात: रेल्याने मया विस्मृतां पेटिकां सुदूरत: आनेतुं कष्ठं स्वीकृतवान्, अत: पेटिकाया: परिशीलनं कृत्वा भवत: अवमानं कर्तुं न इच्छामि । किमपि धनं पेटिकायां अस्ति, तद् ह्य: एव अहं कर्मचारिणां वेतनाय वित्तकोशात् प्रत्याहृतवान् । धनविषये भवति(स्) मम संपूर्ण: विश्वास: अस्ति एव । मम समग्रा चिन्ता आसीत् पेटिकायां विद्यमानानां मम यन्त्रागार संबद्धितानां मुख्य पत्रकाणां(documents) विषये एव । यदा चेम्बूर्मध्ये अहं मम परिवारेण सह यानं प्रविष्टवान्, पप्रथमं वार्तापत्रं पठत: भवत: वदनम् एव मम दृष्टिगोचरे पतितम् । तत् दृश्यम् इतोपि मम पुरत: वर्तते । मम यानपेटिकाम् उपरि निधानिकायां स्थापनस्य आवश्यकता नासीत्, कारणं अग्रिमे रेल्स्थानके एव अवरूढ्य अपरेण यानेन कल्याण् प्रति गमनीयम् आसीत् । चेम्बूरत: यानस्य निर्गमनानन्तरं आवयो: शिशु: रोधनम् आरब्दवान्, अत: अहं द्वारं प्रति तं नीतवान्, युगपत् अग्रिमं स्थानम् अपि आगतम्, अहं परिवारेण सह मम पेटिकां याने विस्मृत्य अवरूढवान् च । तत: यानस्य निर्गमनानन्तरं एव स्मृतवान् यत्, मम पेटिका याने एव अस्तीति । सत्वरं तत्रत्य स्थानक रेल् आरक्षकालये आक्षेपं(complaint) समर्पितुं गतवान्, परं तेन उक्तं यत् अस्मिन् कलियुगे भुवि कोऽपि हरिश्चन्द्र: न वर्तते य: मार्गे प्राप्तानि अपरस्य वस्तूनि प्रत्यर्पयति । अत: पेटिकां कदापि न प्राप्स्यामि इत्येव चिन्तितवान् ”॥
एतां घटनां श्रुत्वा मम तदानीन्तनानि मित्राणि मां मूर्ख:, हरिश्चन्द्र: इत्यादीनि नामानि आहूय परिहासं कृतवन्त: । पेटिकात: धनेन एकं दूरदर्शनं क्रेतुं शक्यते भवान् इत्यपि सूचितवन्त: (तस्मिन् समये अस्माकं गृहे द्रदर्शनं न आसीत् ) । परं, अद्यावधि अहं न जानामि तस्यां पेटिकायां कति रूप्यकाणां बन्धा: आसन् इति ।
समनन्तरमेव, अपरा घटना घटिता । मम धर्मपत्नी, एकस्य विवाहकार्यक्रमार्थ
विशेष लोकयानेन गच्छन्ती आसीत् । कानिचन आभूषणानि धरित्वा, इतोपि अवशिष्टानि हस्तस्यूते एव स्थापितवती । यथा केचन हस्तस्यूतं कक्षाक्षे/भुजकोटरे(armpit)स्थापयति, प्राय: सापि तथैब कृतवती इति मन्ये । लोकयाने आरोहणसमये, तस्या: हस्तात् स्यूत: अध: स्थानके एव पतित: इति सा न जानाति स्म । (तस्मिन् हस्तस्यूते प्राय: ८/९ सुवर्णमुद्रा परिमितानि आभरणानि आसन् । अद्यतन सुवर्णस्य मूल्यानुसारं स्यूतस्थानाम् आभरणानां मूल्यं प्राय:रू-७०,००० यावत् भवेत्)। तस्या: लोकयाने आरोहणात्परं तत्रत्य बान्धवै: सह वार्तालापम् आरब्दम् । यदा सा् सभागृ्हं प्राप्तवती तदा एव स्यूतस्य चिन्तनम् आगतम् । सहसैव, कार्यानेन कैश्चन मित्रै: सह सा चेम्बूरस्थे लोकयानस्थानकं प्राप्य स्यूतस्य अन्वेषणं कुर्वती स्म । तदा कुत: अपि एक: सज्जन: तत्र आगत्य किम् अभवत् इति पृष्टवान् । घटनां श्रुत्वा स: मम पत्नीं समीपे विद्यमानं तस्य कुटीरं (hut) प्रति नीतवान्, स्यूतं प्रदर्शितवान् च । तेन उक्तं यत्, तस्य बालक: प्रात: लोकयानस्थानकस्य समीपे क्रीडनसमये तं स्यूतं दृष्टवान् आनीतवान् च । धन्यवादार्पणेन सह, यदा मम पत्नी बालकस्य हस्ते उपायनरूपेण रूप्यकाणि स्थापितुम् उद्युक्तवती, तदा सज्जन: पिता उपायनं निराकृतवान् ।
अस्मिन् सन्दर्भे, “यदा धेनुसहस्रेषु वत्सो विन्दति मातरं, तदा पूर्वकृतं कर्म कर्तारम् अनुगच्छति” इति समुचितं सुभाषितं स्मृतिपदे आयाति । अस्मिन् सुभाषिते, कर्म: इत्यस्य पदस्य अर्थ: पुण्यकर्म उत पापकर्म भवेत् ।

अय्यर् सुब्रह्मणियम्, कलेन्डा कम्मोन्, कलिफोर्णिया, २२/१०/०८

No comments:

Post a Comment