Tuesday, December 21, 2010

मण्डुक: इव

मण्डुक: इव

यथा मण्डूक: स्वकीयेन रटनेन शत्रून् आकर्ष्य अपायं स्वीकरोति, तथैव मानव: अपि स्वकीया: जिह्वाया: चपलताद्वारा समस्यानाम् आमन्त्रणं करोति । अस्मिन् विषये मया ह्यस्तन दूरदर्शन
कार्यक्रमात्, अधोलिखिता कथा श्रुता -

कस्मिंश्चित् नगरे एकस्य नूतन सेतो: उद्घाटनाय नगरप्रमुखा:, आरक्षकालयाधिकारिण:, गतागत-नियन्त्र्ण- अधिकारिण: सर्वे आगतवन्त: । उद्घाटनानन्तरं, घोषणं कृतं यत् तस्य सेतो: द्वारा क्रामन्तं शततमाय वाहनाय १०,००० रूप्यकाणि उपायनरूपेण दीयन्ते इति । यदा शततमं वाहनं तत् सेतुं अक्रामत्, निर्णयानुसारं तस्य चालकाय प्रतिश्रवितं (promised) धनं दत्तम् ।

तदनन्तरं, यदा अधिकारिण: एतस्य धनेन स: किं करिष्यति इति चालकं पृष्टवन्त:, तदा तेन औदासिन्येन(nonchalantly) उक्तं यत्, पप्रथमं स: यानचालनाय अनुज्ञा/अनुमति-पत्रस्य आवेदनं/आयोजनं करिष्यति इति । एतत् उद्वेककरं उत्तरं श्रुत्वा अधिकारिण: प्रकृत्या एव आघात प्रहारं प्राप्तवन्त: इव अभवन् ।

युगपत् एव चा्लकस्य पत्न्या कथितं यत् तस्या: पति: सदा सुरापानं कृत्वा किमपि जल्पनं करोति्- तेन पीत्वा कथापि यानं न चालनीयम् इति । एतत् आकर्ण्य अधिकारिण: विद्युता ताडि ता: इव अभवन् ।

अस्मिन् क्षणे यानस्य पृष्ठभागे उपविष्ट्वता चालकस्य पित्रा स्वगतं उक्ता “कथं वा मम पुत्र: चौर्यं कृतं यानं धैर्येण चालयति” इत्यस्य मर्मरध्वनि: (murmur) अधिकारिणां श्रुतिपथे अपतत् ।

इदानीम् अधिकारिण: किं कृतवन्त: इति अस्माभि: एव कल्पना करणीया । एवं रीत्या, चालक:,तस्य पत्नी, पिता च तेषां जिह्वा्या: अनवधान कारणत: एव समस्यायां पतितवन्त: ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै - ९/१२/०८

No comments:

Post a Comment