Tuesday, December 21, 2010

कृतघ्ना दृष्टिहीना कन्या

कृतघ्ना दृष्टिहीना कन्या

एकस्मिन् ग्रामे एका अन्धा सुन्दरी कन्यका निवसति स्म । तत्रत्य जना: तां भाग्यहीनां
सदा निन्दन्ति स्म । परन्तु अमुक: युवक: तां प्रति दयां प्रदर्शितवान्, तस्या: न्यूनतां निवा-
रयित्वा तां परिणेतुमपि वचनं दत्तवान् । तदनुसारं ताम् अन्धां कन्याम् एकस्य नेत्रतज्ञस्य
समीपं नीत्वा तस्या: शल्यचिकित्सां कारयितवान् च ।
यदा दृष्ठिं प्राप्तवती, तदा सा कन्या तस्या: शुभचिन्तकं द्रष्ठुं इतस्तत: अक्षिक्षेपं कृतवती ।
तस्या: दृष्टिगोचरे स: न पतितवान् एव । केषाञ्चित् दिनानामनन्तरं कश्चन अन्ध: तां उपगम्य
तया सह परिणेतुं आशां प्रकटितवान् । तदा तया उक्तं कथं वा अन्धेन सह विवाहं कृत्वा सुखेन
कुटुम्बजीवनं यापितुं शक्ष्यते इति । तत: निर्गमनात्पूर्वं यदा आशाभग्न: युवक: अवदत् यत् स: एव तां
नेत्रदानं कृत्वा अन्ध: अभवत् इति,तदा तस्या: मन:स्थिति: कथं अभविष्यत् इति अस्माभि: चिन्तनीयम् ।

अय्यर् सुब्रह्मणियम्, चेम्बूर्, मुम्बै – १२/१०/२००९

विचित्रं दण्डनम्

विचित्रं दण्डनम्

एकदा एक: मानव: विनाकारणं सारमेयं प्रति शिलाखण्डं न्यक्षिपत् । वयं सर्वे
जानीम: यत् यदा शुनक: शिलाखण्डं च युगपत् दृश्येते, मानव: स्वभावदोषेण कुक्कुरं
शिलाखण्डेन ताडयतीति । दु:खित: श्वान: ईश्वरं प्रति स्वकीयं व्यसनम् आक्षेपरूपेण
निवेदित्वा न्यायं प्रार्थितवान् च ।विधाता यदाविधि मानवम् आहूय सम्यक् विचारणम्
अकरोत् । मानवेन उक्तं यत् तस्य भोजनसमये, शुनक: तस्य स्थालिकां प्रति एव
पश्यन् आसीत्, अत: एव कोपेन मया तथा कृतम् इति । परन्तु, भगवता पृष्ठं यत् किमर्थं
कुक्कुराय लवलेशमपि न दत्वा स्वयमेव सर्वं खादितम् इति । अत: एतस्य अमानुष्याय
व्यवहाराय तेन उचितं दण्डनम् अनुभूतव्यम् । इदानीम् ईश्वर: शुनकं पृष्ठवान् मानवाय
किं दण्डनं दातव्यम् इति । सारमेयेन उक्तम् इमं मानवं भवान् भुवि कस्मिन्नपि आढ्य
मन्दिरे धनाधिकारिस्थाने नियोजयतु इति । भगवता पृष्ठं किमर्थम् एवं विचित्रस्य दण्डनस्य
उपस्थापनं करोति इति । शुनकेन उत्तरितम् “अहं स्वयं पूर्वजन्मनि एकस्मिन् देवालये
कोषाधिकारी आसम्, तत्र मया कृतम् अधर्माचरणस्य कारणत: एव अस्मिन् अवतारे शुनकरूपेण जनितवान् ” इति |


शेषं चिन्त्यम् ।

अय्यर् सुब्रहमणिय: चेम्बूर्, मुम्बै – १२/१०/२००९

विधिरहो महान्

विधिरहो महान्
(दूरदर्शनात् श्रुतस्य एकस्या:तमिल् कथाया: संस्कृत भाषान्तरम्)

कश्चन धनिक: आसीत्, य: स्वकीयं धनं क्षेत्रेषु,भवनेषु, गृहेषु, कार्यालयेषु, यन्त्रागारेषु च
लाभार्थं (वि)नियोगं कृतवान् । समाजसेवाया: दृष्ट्या, उत किञ्चनानां हिताय च तेन
किमपि धनं विद्यादानार्थं, रुग्णालयेषु अथवा विनामूल्यस्य भोजनस्य व्यवस्थायां वा विनियोगं
न कृतम् । प्राय:, दैवभीत्या, प्रतिफलस्य अपेक्षया च मन्दिरेभ्य: किञ्चित् धनं दत्तवान् स्यात् ।
यथा श्रीकृष्णपरमात्मन: बाल्यमित्रं कुचेल: आसीत्, तथैव एतस्य आढ्यस्यापि एक:
दरिद्र: बाल्यवयस्कः आसीत् । एकदा मार्गे तेन एतं मित्रं मेलितुम् आपतितम् । तदा स्वमित्राय
स्वकीयं वैभवं संपत्तिं च प्रदर्शनाय सोत्साही भूत्वा तं भोजनाय आमन्त्रितवान् । भोजनात्
पूर्वं तस्य ५० भूमिक(तल)युक्तस्य प्रासादस्य उपरि स्वमित्रं नीत्वा परिसरस्था: सर्वा: सम्पद:
एकैकाशा: तं निर्दिश्य प्रदर्शितवान् । अनन्तरं भोजनार्थम् उपरिष्ठात् गृहंप्रति तौ आगच्छन्तौ
आस्ताम् । परन्तु अवरोहणसमये एकं बृहद् भूकम्पं प्रवृत्तं, तस्य परार्ध रूप्यकाणां यावत् मूल्य् सर्वा:
सम्पद: भूमे:अन्त:/अध: अन्तर्धानम् अभवन् च । परन्तु, विधे: अनुसारं तेन इतोपि कष्ठं मन:क्लेशं
च अनुभवितव्यम् इति आसीत् । अत: स: न मृत: परं तस्य परिवारजना: दिवङ्गता: । अत: उप-जीवनाय तेन अनथाश्रमस्य पुरत: स्थालिकहस्त: भूत्वा प्रतिदिनं पङ्क्त्यां स्थातव्यम् आपतितम् ।
विधिरहो महान् । एषा घटना सर्वेभ्य: अहङ्कारविमूढात्मभ्य: पाठं कल्पयति इति मन्ये

अय्यर् सुब्रह्मणियम्, चेम्बूर्, मुम्बै – ११/९/२००९

खच्छु- खच्छू

खच्छु- खच्छू

पक्षात् पूर्वमेव सामान्य:पीनस: मां अत्यजत् । विगतेभ्य: सप्तदिनेभ्य: अहम् एतेन
त्वग्रोगेण पीडित:अस्मि । आङ्गलभाषायां एतस्य नाम अस्ति herpes/shingles
इति । अयं वेदनदायक: रोग: मसूरी/मसूरिका व्याधि परिवारस्य सदस्य:/अङ्ग: इति
श्रूयते । बाल्यकाले chicken-pox इति नाम्ना व्याधिना पीडितस्य मानवस्य शरीरे
गुप्त-रूपेण वर्तमाना एषा कृमि:, तस्य पश्चिमे वयसि, यदा शरीरस्य रोग-निरोधशक्ति:
क्षीयते, तदा पुन: आक्रम्यते इति कथ्यते।
पप्रथमं बाधितस्थाने, वेदना उष्णता च भासते, कदा कदा ज्वर: भवेत्, वेदना
स्पन्दनरूपेण सूचीयातनारूपेण वा पर्यायेण भवेत्। दिनद्वयानन्तरं तत्र रक्तवर्ण-रेखा:/रेषा:
दृश्यन्ते, या: तदनन्तरं विस्फोटकरूपं प्राप्यन्ते । सप्ताहपर्यन्तं वर्धमान: अयं खच्छूरोग: खण्डूयेन
सह क्षीयते, विस्फोटका: न्यूनीभूत्वा शम्यन्ते च । यद्यपि सप्ताहद्वयस्य अनन्तरं रोग: सम्पूर्णतया
अदृश्यं भवति, तथापि बाधितस्थाने लघु वेदना अनुवर्तते एव इति बाधिता: रोगिण: वदन्ति ।
मम विषये, अद्य सप्तमं दिनं प्रचलति, प्राय: श्व: आरभ्य पीडाया:/व्याधे: क्षीणदशा आरप्स्यते इति् मन्ये । शारीरिक -उष्णताया: जात: रोग: इत्यस्य कारणात्, प्रतिदिनं स्नानं कर्तुं शक्यते -ज्वरं न वर्तते तर्हि । परं आहार-विहार विषये नियन्त्रणं आवश्यकम् अस्ति इति वैद्या: अनुमोदन्ति । क्षीणदशायां, तत्पश्चात् च वेदना न्यूना भवति, किन्तु अमुक कालावधिपर्यन्तं सा तस्या: उपस्थितिम् अस्मान् स्मारयति एव ।
इयं पीडा धमनीं(nerve) प्रथमं बाधयते, अत: (यथा भेरीवादनेन सह वेदिकायां / मञ्चे नट-नटीनां प्रवेशनं भवति) तथा वेदनया सह अस्माकं शरीरे रोगस्य प्रवेश: अपि भवति इति वदाम: चेत् तत्र न अतिशयोक्ति: । शरीरस्य मध्यभागे, वलयमिव, अथवा दक्षिणस्कन्धत: वामकटिप्रदेशापर्यन्तं प्राचीनावीति इव, उत वामस्कन्धत: दक्षिणकटिप्रदेशपर्यन्तम् उपवीतरूपेण बाधयते । कदाचित्, शिरः, ललाटं वा रोगस्य लक्ष्यं भवति ।
भगवत: गीताचार्याणां आशिषा सप्ताहे दिनत्रयं गीताशिक्षण वर्गमपि विना विरामं चालयितुं शक्तवान्, यत: बाधा शरीरस्य पृष्ठभागे आसीत् । अस्मिन् सप्ताहे, गीतासोपानस्य प्रथमभागस्य समाप्ति: भवति । तदनन्तरं डिसेम्बेर् मासपर्यन्तं पुनरावृत्तिवर्गं चालयिष्यामि इति कल्पना वर्तते । मध्यन्तरे, अस्य मासस्य २०तितम: दिनाङ्कत: २७ तम दिनाङ्क पर्यन्तं यदा अहं गोवा गन्मिष्यामि, तदा मम वरिष्ठ छात्राद्वयंपुनरावृत्तिवर्गं चालयिष्यतीति सङ्कल्पमस्ति ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै, - ५/१०/२००९

Saint and Two Youths

दूरदर्शनात् श्रूताया: एकस्या:तमिल् कथाया: संस्कृतानुवाद:

एकस्मिन् ग्रामस्य प्रान्ते एक: क्षपणक: (बौद्ध सन्यासिन्) तस्य कुटीरे निवसति स्म ।
एकदा द्वौ युवानौ तम् उपगम्य/अभिगम्य धनरूपेण भिक्षां याचितवन्तौ । तदा मुनि: तौ
आश्रमात् किञ्चित्त् दूरे वर्तमानस्य वृक्षस्य समीपं नीत्वा तस्य अध: खननं कर्तुं प्रेरितवान् ।
किञ्चित् खननेन एव ताभ्यां तत्र एक: घट: प्राप्त: । तस्मिन् घटे विपुलानि अमूल्यानि
आभरणानि, मौक्तिकानि च आसन् । मुने: अनुमोदेन सह/आज्ञानुसारं तौ तं घटं गृहं प्रति
नीतवन्तौ । मार्गे तयो: कुमति: अवदत् यत् मुने: समीपम् इतोऽपि अधिका धनराशि:
स्यात्, अथवा स: एतानि अमूल्यानि आभरणानि न अदास्यत् इति । एवं विचिन्त्य,तौ
पुन:मुनिं समुपगम्य तम् इतोऽपि अधिकाय धनाय प्रार्थिवन्तौ च । मुनि:तस्य समीपे
वर्तमाना: अवशिष्ठा: सम्पद: अपि दातुम् सम्मति: प्रकटितवान्, परन्तु नियम: आसीत्,
ताभ्यां तस्य आश्रमे दिनत्रयं स्थित्वा तस्य आज्ञाया: पालनं करणीम् इति । धनाशया
पीडितवन्तौ तौ अपि सहमतिं दत्तवन्तौ ।
तयो: दिनचर्या एवम् आसीत्- उष:काले, नाम प्रात:४ वादने उत्थानम् अनन्तरम्
एका घण्टा यावत् ध्यानं, पश्चात् योगाभ्यासं, तत्पश्चात् आश्रमं परित: दशवारं भ्रमणं,
तत्रत्यानां पादपानां (सस्यानां, वृक्षाणां च) जलेन सिञ्चनम्, समीपस्थ: वनत: पाकाय
इन्धनस्य कृते काष्ठानाम् आनयनं, मध्याह्ने विश्रान्ति:, अनन्तरं अद्ययनं, सायङ्काले पुन:
ध्यानम् इति । एवं रीत्या आदिनस्य धार्मिक-कार्यक्रमेण तयो: मन:स्थित्यां परिवर्तनं अभूत् ।
फलत: इहलोकजीवने तयो: अभिरुचि: नष्ठा भूत्वा तौ आश्रमे एव अवशिष्ठं जीवनं मुने: सेवने
यापितवन्तौ इति कथा वदति ।

अय्यर् सुब्रह्मणियम्, चेम्बूर्, मुम्बई- १२/९/०९

नरक: स्वर्ग: च

नरक: स्वर्ग: च
(दूरदर्शनात् अद्य श्रुताया: मलयाल कथाया: संस्कृत भाषान्तरम्)

कदाचित् नारदमुनि: नरकं द्रष्टुकाम: सन् ब्रह्माणं अनुज्ञार्थं उपगतवान् । पित्रा उक्तं यत् नरकेन
सह स्वर्गमपि तेन द्रष्ठव्यमिति, यत: स्वर्गनरगयो: जीवनशैल्या: तुलना कर्तुं शक्यते इति ।
पप्रथमं, तौ नरगं गतवन्तौ, यदा तत्र भोजनवेला आसीत् । भोजनात्पूर्वं सर्वे नरकवासिन:
हस्तप्रक्षालनं कृत्वा भोजनप्रकोष्ठं प्रति गमनसमये, मार्गे सर्वेषां हस्तयो: एकमेकं चमसं
तत्रत्य सेवकै: खचितं(बन्धीकृतम्) । नाम, ते इहलोके इव हस्तेन अश्नातुमपि न शक्तवन्त:
तेषां कूर्परे, कण्ठे च किमपि प्रतिबन्धकं आसीत्, अत: ते मानवा: इव कूर्परं कण्ठं वा नमित्वा
स्वतन्त्रतया हस्तेन अश्नातुमपि अशक्तवन्त: । अस्यां परिस्थित्यां चमसेन उद्धृतं खाद्यं साक्षात्
मुखे स्थापयितुम् अशक्यत्वात्, दूरत: मुखं प्रति क्षेपणीयं आसीत् । फलत:खाद्यं मुखात् ऋते अन्यत्र
पतत् आसीत् । नाम, यद्यपि विपुलं भोज्यं उपलब्दं आसीत्, तथापि केऽपि तृप्त्या उदरपूर्ति: कर्तुं न अशक्नुवन् । अत्र एकं मलयालं सुभाषितं मम स्मृतिपदे आयाति । यद्यपि नदी जलपूरिता भवति,
, तथापि शुनकेन जिह्वया एव नद्या: जलं अवलेहनीयम्/पातव्यं भवतीति ।
इदानीम् विधाता स्वपुत्रं स्वर्गं प्रति नीतवान् । तत्रापि भोजनप्रकोष्ठे इयमेव प्रथा – नाम
हस्तप्रक्षालनानन्तरं चमसबन्धनं इत्यादि – प्रचलति स्म । परन्तु, अत्रत्य निवासिन: नरक-वासिन: अपेक्षया बुद्धिमन्त: इव दृश्यते, कारणं एकैक: अपि चमसेन स्वीकृतं खाद्यं स्वकीये मुखे स्थापनस्य अपेक्षया पुरत: उपविष्टत: जनस्य मुखे स्थापयन्ति स्म । एवं विधेन सर्वे परस्परं भोजयन्त: आसन्, यत: विनाक्लेशं सर्व: तृप्तिपूर्वकं आहारं स्वीकरोति स्म ।
एतेन आदानप्रदानद्वारा स्वर्गवासिन: कूर्परेषु कण्ठेषु च विद्यमानान् प्रतिबन्धान्
पराजित्य सम्यक् अश्नातुं शक्तवन्त: इति दूरदर्शनात् श्रूता एष कथा वदति ।

अय्यर् सुब्रह्मणिय:,
चेम्बूर्, मुम्बै – १८/९/२००९

बुधिमान् विरुद्ध बलवान्

बुधिमान् विरुद्ध बलवान्

एक: बुद्धिमान्, अपर: बलवान् । एकदा बलवान् बुद्धिमत: समीपं आगत्य अकथयत् यत् शक्तिम् उपयुज्य भीमकार्यमपि सुलभेन कर्तुं शक्नुम: इति । एतत् श्रुत्वा द्वितीय: उक्तवान् भवते सह सहयोगं कुर्वत: पूर्वं अहं भवत: शक्ते: प्रमाणं द्रष्टुं इच्छामि इति । तदा बलवता उक्तं यत् स: एकां बृहद् शिलां एकेन हस्तेन उत्थाय नगरस्य भित्या: अपरभागे अनायासेन क्षिप्त्वा स्वबलस्य प्रदर्शनं करिष्यामि इति । इदानीं बुद्धिमता उक्तं यत् भवान् पप्रथमं अयं करवस्त्रं भिंत्या: अपरमार्गं क्षिप्त्वा भवत: बलं प्रदर्शयतु इति । बलवान् औदासिन्येन करवस्त्रं स्वीकृत्य क्षिप्तवान्, परं वायुवेगकारणत: तत् तंप्रति एव प्रत्यागतम् । बलवत: मुहुर्मुहु: प्रयत्नं तदेव फलं आनयत् ।

इदानीम्, अस्माकं बुद्धिमान्, एकं शिलाखण्डं करवस्त्रेण बद्ध्वा करवस्त्रं क्षिपितवान् । शिलाखण्डस्य भारेण, करवस्त्रं प्रकृत्या एव् भिन्त्या: अपरमार्गे अपतत् । एतत् दृष्ट्वा बलवान् पराजयम् अङ्गीकृतवान् ।

कथाया: सारांशं भवति – केवलं शक्ति: एव पर्याप्तं न भवति, बुद्धिरपि भवति चेदेव वरम् ।

अय्यर् सुब्रह्मणियम्, चेम्बूर्, मुम्बै – १/२/२००९