Tuesday, December 21, 2010

Stunted Growth

दूरदर्शनस्य “सण् इत्यस्य नामकस्य तमिळ् प्रणाल्यां (channel) “अरट्टै अरङकम्” इति एक: साप्ताहिक: कार्यक्रम: प्रचलति, यत्र अमुके विषये गणद्वयो: मध्ये चर्चा भवति । तदा तदा आश्चर्यदायका;/विस्मय-
कारका: वास्तविका: विषया: अपि अस्मिन् कार्यक्रमे प्रसार्यन्ते ।

२७/६/०८ तमे दिनाङ्के प्रात: एतादृशी विशेष-कार्यक्रमे श्रीलडकायां जाता एका बालिका वेदिकायाम् आनीता । जन्मनि एतस्या: विलक्षणातां दृष्ट्वा पितृभ्यां सा त्यक्ता, भारत-देशस्थे पितामहस्य गृहम्प्रति प्रेषिता च । किञ्चित् कालानन्तरं वृद्धावस्थां प्राप्त: पितामह: तां बालिकाम् एकस्मिन्
अनाथशिशुभवने स्थापितवान् ।

यद्यपि एषा बालिका इदानीं १४ वर्षीया वर्तते, कस्याश्चित् नैसर्गिकी न्यूनता कारणत:, तस्या: शरीरे तावत् वृद्धि: नास्ति, परन्तु वदने १४ वर्षाणां प्रवृद्धता दृश्यते । मस्तिष्कमपि सुष्ठु वृद्धिं प्राप्नोत् इति भासते, कारणं सा स्पष्टतया, सार्थकतया च भाषणं करोति, सम्यक् गायति च । मातरम् एका वर्षीया बालिका इव तस्या: शारीरिक यष्ठि: वर्तते ।

सा उत्थातुम्, उपवेष्टुं च न शक्नोति, कारणं तस्या: अस्थित: मृदुलता न अपगता । नाम अस्माकम् अस्थिन: सदृशा काठिन्यता न प्राप्नोत् । अत: जना: तां जागरूकतया एव स्पर्शेयु: अथवा पिष्टकमिव तस्या: अस्थि: चूर्णायते इति भीति: अस्ति ।

सा सदैव शयनावस्थायां विध्यते । आवश्यकतानुसारं गृहे इतस्तत: कन्दुक: इव लुण्डनेन (rolling) एव गमनं करोति । दृश्यमयं वयं दूरदर्शने प्रत्यक्षतया दृष्टवन्त: । सा न केवलं स्वकीयां दिनचर्यां साहाय्यं विना कर्तुं शक्नोति, अपि तु इतराणां कनिष्ट शिशूनां अपि साहाय्यं कुर्वती अस्ति इति अनाथाश्रमस्य अधिकारिण: कथयन्ति ।

हन्त ! अस्या: बालिकाया: दुर्भाग्यम् । भगवत: सृष्टि: विलक्षणमेव । एतस्य प्रश्नस्य समाधानम् इहलोक-दृष्ट्या चिन्तयाम: चेत्, न प्राप्नुम:, परम् अध्यात्मिक-दृष्ट्या पश्याम: चेत् एकस्य सुभाषितस्य अनुसारं (सुभाषितानुसारम्) एषा परितापस्थिति: तस्या: बालिकाया: पूर्वजन्मकर्मस्य फलमेव इति एव वक्तव्यम् ॥ सुभाषितं कथ्यते, “यथा धेनुसहस्रेषु वत्सो विन्दति मातरं, तथा पूर्व जन्म कृतं पापं कर्तराम् अनुगच्छति”

अय्यर् सुब्रह्मण्यम्, फ्रीमोण्ड्, अमेरिका – २७/६/२००८

No comments:

Post a Comment