Tuesday, December 21, 2010

भगवान् बुद्ध: घातुक: च

भगवान् बुद्ध: घातुक: च

दूरदर्शनकार्यक्रमात् श्रुता घटना एषा । भगवान् बुद्ध: प्रातिदिनं भिक्षाटनं कृत्वा बुभुक्षितान् भोजयति स्म । एकदा स: भिक्षार्थं एकस्य घातुकस्य आपणंप्रति अगच्छत् । कठोरहृदय: मांसिक: न केवलं किमपि न दत्तवान्, अपितु बहि: न आगच्छन्नेव बुद्धं कठोरस्वरेण निन्दितवान् । अपरेद्यु: अपि, यदा बुद्ध: तत्र अगच्छत्, घातुक: इतोऽपि क्रोधस्वरेण बुद्धं तर्जयित्वा पलायितवान् । तृतीये दिने यदा भगवान् गतवान्, तदा खड्गहस्त: मांसिक: बहि: आगत्य “त्वम् ल्ज्जाहीन: वा, किमर्थं मां पुन:पुन: आगत्य पीडयसि? मुहुर्मुहु: अत्र मा आगच्छतु”, इति वदन् बुद्धंप्रति थूत्कारशब्देन सह निष्ठीतवान् अपि । यदा बुद्ध: निष्ठीवं एकेन हस्तेन स्वीकृतवान्, तदा घा्तुक: पुन: निष्ठीतवान् । इदानीं भगवान् तं निष्टीवं अपरेण हस्तेन स्वीकृत्य स्ववस्त्रेण मार्जितवान् च । यदा अपरेद्यु: बुद्ध: पुन: मांसिकस्य आपणंप्रति याचनाय आगत:, तदा घातुक: गत्यन्तरं विना एकं अजं समर्पितवान्, परं भगवता बुद्धेन उपायनमयं तिरस्कृतम् । अनन्तरं, बुद्ध: घातुकं पृष्टवान् यत्, “यदि मया भवता अर्पित: अज: न स्वीकृत:, तर्हि स: कस्य अधीनं भवति इति” | तदा घातुक: उक्तवान् मम एव इति । तदा बुद्धेन कथितं यत्, “यथा भवता इदानीम अर्पितम् अजं अहं न स्वीकृतवान्, तथैव पूर्वं भवता थूत्कारेण सहितं दत्तं निष्ठीवमपि मया न स्वीकृतम् । अत: यथा इदानीं मया निराकृत: अज: भवदीय: इति भवता अङ्कीकृत:, तथा पूर्वं मया निराकृतं निष्ठीवमपि भवत: एव, मदीयं न, इति निर्णेतव्यम् / मन्तव्यम् ।

एतत् श्रुत्वा चकित: कठोरमनस्क: घातुक: भगवत: चरणे पतित्वा, तस्य अनुयायी अभूत् इति श्रूयते ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – ३/२/२००९

No comments:

Post a Comment