Tuesday, December 21, 2010

मूढ: छात्र:

मूढ: छात्र: (दूरदर्शन कार्यक्रमत: श्रुताया: कथाया:
संस्कृतानुवाद:)

अपरस्मिन् गुरुकुले, तत्रत्य आचार्य: ४ छात्रेभ्य: मन्त्रद्वारा विशिष्टान् कौशल्यान्
बोधितवान् । प्रथमाय छात्राय शुष्कस्य सस्यस्य पुनरुद्धारणं कथं करणीयं इति
पाठितवान् । द्वितीयेन अधीतं, कथं नष्टस्य वृक्ष: पल्लवित: करणीय: इति ।
तृतीय्: मृतस्य मानवाय जीवदानस्य सामर्थ्यम् अधीतवान् । अन्ते, चतुर्थ:
मृतस्य मृगाय प्राणार्पण विद्याया: नैपुण्यं प्राप्तवान् ।

यथा गुरुकुलवासस्य/शैक्षणिकवर्षस्य समापनं सम्भूतम्, ते स्व-स्व् गृहंप्रति
निर्गतवन्त: । मार्गे एकं गहनम् आरण्यं आसीत् । तस्य वनद्वारा गमनसमये
दूरे वृक्षत: अध: पतन्तं जनम् अवलोकितवन्त: । यदा तस्य समीपम् आगता:,
तदा ते तत्र तस्या: व्य्कते: कलेवरमेव दृष्टवन्त: । तदा तृतीय: अहं मया पठितेन्
मन्त्रेण अयं व्यक्तिं सजीवं करिष्यामि इत्युक्त्वा किमपि जपं कृतवान् । आश्चर्यं
नाम,स: मनुष्य: निद्रात: इव उत्थितवान्, शरीरत: धूलीं निष्कासितवान् धन्यवा-
दार्पणं कृत्वा तत: निर्गतवान् च ।
यदा ते अग्रे गतवन्त:, प्रथमाय, द्वितीयाय अपि तयो: मन्त्रफलस्य प्रदर्शनाय/परीक्षणाय वेला प्राप्ता/अवसर: प्राप्त: । कस्यचित् समयस्य अनन्तरं, तै:
एकस्य मृतस्य सिंहस्य कलेवरं दृष्टम् (एकस्य मृतस्य सिंहस्य कलेवरं तेषां दृष्टिगोचरे आगतम्) । तदा चतुर्थ: अत्युत्साहेन उक्तवान् यत्, तस्य निपुणताया: प्रदर्शनाय, अयं
सुवर्ण अवसर: वर्तते इति । परन्तु, मित्रै: तेन सावधानेन प्रवर्तितव्यं/भवितव्यम् इत्युक्तं, यत: जीवप्राप्त्यानन्तरं, प्रकृत्या बुद्धिहीन: स: मृग: तं निश्चयेन हनिष्यति इति ।
किन्तु, स: मूढ: तर्कित: यत् अस्मिन् लोके कोऽपि प्राणी प्राणदातु: हननं करोति वा
इति । एवं मित्राणां सदुपदेशं तिरस्कृत्य, स: मूढ: आचार्येण आर्जितस्य मन्त्रशक्त्या तस्य
मृगस्य मृते शरिरे चैतन्यं उत्पादितवान् । पूर्वं घटितायां घटनायाम् इव जीवप्राप्त्यानन्तरं स: कृतघ्न: केसरि: निद्रात् इव उत्थितवान् । अनन्तरं समीपस्थं जीवदातारं मारितवान्, स्वकीयां भुबुक्षां निवारितवान् च ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बई – १६/५/०९

No comments:

Post a Comment