Tuesday, December 21, 2010

Sloka Contest

छात्राणां कृते संस्कृत श्लोकस्पर्धा
विगते रविवासरे ( ४-१-२००९) चेम्बूरस्थे P L Lokhande मार्गे विद्यमानस्य हरिहरपुत्र-भजन समाजं इति नामक्या संस्थया छात्राणां कृते संस्कृतश्लोकानां स्पर्धा आयोजिता आसीत् । तत्र १४ विद्यालयेभ्य: KG वर्गस्य ३० छात्रा: गुरुस्तोत्र्स्य, प्राथमिक/द्वितीय-वर्गस्य २४ छात्रा: कृष्णाष्ठकस्य, तृतीय/चतुर्थ वर्गस्य १४ छा्त्रा: गणपतिस्तवस्य, पञ्चम, षष्ठ, सप्तम वर्गीया: ४१ छात्रा: कालभैरवाष्टकस्य, अष्ठम, नवम, दशम वर्गस्य ४० छात्रा: मीनाक्षीपञ्चरत्नस्य च श्लोकान् उदाहृदवन्त: ।
प्रात: १० वादनत: रात्रौ ८ वादनपर्यन्तं प्राचलितायां अस्यां स्पर्धायां आहत्य १४० छात्रा: भागम् ऊढवन्त:, यत्र अहं न्यायाधीशरूपेण उपस्स्थितवान् । यद्यपि भूयिष्ट्भागा: छात्रा: श्लोकान् कण्ठस्थीकृत्य उदाहृतवन्त:, प्राय: संस्कृतभाषाया: अनभ्यासात् उच्छारणे केचन दोषा: आसन् । इमे दोषा:, ये शिशून् पाठितवन्त:, तेषाम् एव । किञ्चित् संस्कृतज्ञानेन सह, तेषाम् उच्छारणे परिष्कारम् आनेतुं शक्यते इति अहं मन्ये । अत: एव, स्पर्धाया: समापनस्य अनन्तरं यदा अहं तान् सम्बोधितवान्, तदा मया प्रोक्तं यत्, पप्रथमं एकं संभाषणशिबिरद्वारा संस्कृतभाषया सह तेषां परिचयं कारयित्वा, तदनन्तरं ते इच्छन्ति चेत्, अग्रे वर्गमपि चालयितुं शक्नोमि इति ।
येषु विद्यालयेषु इदानीं संस्कृताभ्यासं वर्तते, तेषां छात्रा: स्वपरिचयं संस्कृतेन एव कृतवन्त: सर्वेषु विद्यालयेषु संस्कृतभाषाया: पाठनं कृतं चेत् छात्राणां वर्धनेन सह भाषाया: एधनमपि जायते इति मम मतं तत्र उपस्थापितवान् ।
इत:पूर्वं चेम्बूर् उपनगरे एव विगते वर्षद्वये, भगवद्गीताया: स्पर्धायाम् अहं न्यायाधीशरूपेण उपस्तिथवान् । तत्रापि मया संस्कृतप्रचारस्य कार्यं कृतम् ।
जयतु संस्कृतम् – लसतु संस्क्रुतम्
अय्यर् सुब्रह्मणियम्, चेम्बूर्, मुम्बै ४०००७१ – जनवरि ६, २००९

-

No comments:

Post a Comment