Tuesday, December 21, 2010

अन्गुलीनां मध्ये समरम्

अन्गुलीनां मध्ये समरम्

यथा पञ्चेन्द्रियाणां मध्ये चर्चा अभूत्, तथैव हस्तस्था: अन्गुलीनां मध्ये अपि एकदा मानव शरीरस्य व्यवहारे का अधिकं महत्वं वहति इति चर्चा अभूत् ।

) अङ्गुष्ठया उक्तं सा एव मुख्यत्वं वहति, यत: न केवलं सा आकारेण स्थूला, अपि तु तया विना मानव: किमपि लिखितुम् उत दृढतया गृहीतुं च न शक्नोति इति ।
) तर्जन्या उपस्थापितं यत्, अस्मिन् जगति सूचनाद्वारा अभिज्ञानार्थं तस्या: साहाय्यम् अनिवार्यं भवति । अन्यच्छ, यथा तस्या: नाम सूचयति, मानव: तां तर्जनशस्त्र रूपेण अपि उपयोगं करोति । अर्थात् मानव: तस्या; दर्शनात् एव भिभेति ।
) माध्यमा उक्तवती सा उन्नतमा, अत: सा एव सर्वासां अपेक्षया महत्वम् अर्हति ।
) अनामिकया समर्पितं, मानव: त्ताम् अमूल्य वज्र युक्तानि अङ्गुलीयकानि भूषयति,
अत: तस्य मनसि सा एव श्रेष्टा इति ।
) सा न केवलं वामना, कृशा च, अपि तु मानवस्य व्यवहारे तस्या: कापि भूमिका न
वति इति विचिन्त्य् कनिष्ठा नम्रतया तूष्णीं उपविशन्ती किमपि न अभाषत । तस्या: दीन परिस्थितीं विनयशीलतां च दृष्ट्वा, स्वयम् ईश्वर: तस्या: कर्णे किमपि रहस्यतया उक्तवान् । तदनन्तरं सहसैव कनिष्टिका उत्थाय अवदत् यत्,यदा यदा मानव: ईश्वरं बद्धाञ्जल्या नमस्करोति, तदा सा एव इतराणाम् अन्गुलीनाम् अपेक्षया ईश्वरस्य समीपे वर्तते इति (तस्यै एव ईश्वरसान्निद्यं लभ्यते) अत: सा एव श्रेष्ठा इति सर्वाभि: अङ्कीकरणीयम् इति । एतत् श्रुत्वा अपरा: अन्गुल्य: मूका: अभवन् ।

नम्रता न केवलम् भूषणं, अपि तु नम्रतया वयम् अस्मिन् जगति किमपि आसाधितुं शक्नुम: इति अस्य कथाया: सारं भवति ।

अय्यर् सुब्रह्मणिय:, कलेन्डा कोम्मन्, कलिफोर्णिया, २१/१०/०८

No comments:

Post a Comment