Tuesday, December 21, 2010

Mirror and Pride

दर्पण: इत्यस्मिन् शब्दे "दर्प:"(pride) इत्यपि पदम् अन्तर्गतं भवति । अत: एव, यदा यदा जना: दर्पण सविधे आयान्ति, तदा तदा निश्चयेन तेषां हस्तौ वदनम् उत केशं प्रति प्रसाध-नाय/परिष्करणाय गच्छत:। युतकस्य ग्रैवेयकम् (collar) इतरान् भागान् च समीचीनं कृत्वा,एकवारं प्रतिबिम्बम् अवलोक्य, पुन: युतकस्था: उत शाटिकाया: वली:(wrinkles) समीचीनतया संस्थाप्य, तत: शनै: सरन्ति । अन्तत: प्रसाधन उत्पीठिकात: निर्गमनात् पूर्वं पुन: एक वारम् अक्षिक्षेपं कृत्वा एव स: / सा बहि: आगच्छति । जगति, कुत्रापि गच्छाम: चेत्, वयं सर्वेषु जनेषु (विना लिङ्गभेदम्) अयं स्वभावं द्रष्ठुं शक्नुम: ।
खल्वाट:(bald) अपि दर्पणस्य पुरत: प्रकृत्या एव, ऊरुकस्य पृष्ठ कोषत: कङ्कतं स्वीकृत्य केशभूषणं करोति, यद्यपि तावान् केशान् न विद्यन्ते - कारणं यूनावस्थात: अधीतम् अभ्यासं पश्चिमे वयसि अपि ते सुलभेन त्यक्तुं न शक्नुवन्ति केषुचित् गृहेषु सर्वत्र - नाम चतुर्षु अपि भित्तिषु दर्पणा: दृश्यन्ते इति श्रूयन्ते, कारणं तत्रत्या: जना: गृहे एव इतस्तत: भ्रमण समयेऽपि स्वयं प्रतिबिम्बं द्रष्टुं शक्नुवन्ति । दर्पणस्य पुरत: खल्वाटस्य वृद्धस्य किं कार्यं भवति इति भवत: कौतूहलं भवति । प्राय: स: वदनस्था: चर्मरेखा:/वल्य: (wrinkles) एधन्ति उत न्यूनं भवन्ति इति गणयन्ति । परन्तु जना: न जानन्ति यत् दर्पण: न कदापि अस्माकं सत्यं प्रतिबिंम्बं दर्शयति इति । दर्पण: अस्माकं प्रतिबिम्बं विरुद्धतया (नाम वामभागस्य दक्षिणत्वेन, दक्षिण भागस्य वामत्वेन) दर्शयति, इति बहव: न चिन्तयन्ति । अत: अस्माकं सत्य स्वरूपम् इतरे जना: एव वक्तु्म् अर्हन्ति, कारणं, स्वयं निर्णये अस्माकं तृप्ति: न कदापि भवति । अपरस्य जनस्य मुखात् निर्गत: अभिप्रायम् एव अस्मान् मनस्तृप्तिं यच्छति ॥
॥ जयतु संस्कृतम्, लसतु संस्कृतम् ॥
अय्यर् सुब्रहमणिय:, फ्रीमोण्ड्, कालिफ्होर्णिय, आगुस्ट्, २००८



अय्यर् सुब्रह्मणियम्, फ्रीमोण्ड्, कालिफर्णिया, २५/८/२००८

No comments:

Post a Comment