Tuesday, December 21, 2010

कृतघ्ना दृष्टिहीना कन्या

कृतघ्ना दृष्टिहीना कन्या

एकस्मिन् ग्रामे एका अन्धा सुन्दरी कन्यका निवसति स्म । तत्रत्य जना: तां भाग्यहीनां
सदा निन्दन्ति स्म । परन्तु अमुक: युवक: तां प्रति दयां प्रदर्शितवान्, तस्या: न्यूनतां निवा-
रयित्वा तां परिणेतुमपि वचनं दत्तवान् । तदनुसारं ताम् अन्धां कन्याम् एकस्य नेत्रतज्ञस्य
समीपं नीत्वा तस्या: शल्यचिकित्सां कारयितवान् च ।
यदा दृष्ठिं प्राप्तवती, तदा सा कन्या तस्या: शुभचिन्तकं द्रष्ठुं इतस्तत: अक्षिक्षेपं कृतवती ।
तस्या: दृष्टिगोचरे स: न पतितवान् एव । केषाञ्चित् दिनानामनन्तरं कश्चन अन्ध: तां उपगम्य
तया सह परिणेतुं आशां प्रकटितवान् । तदा तया उक्तं कथं वा अन्धेन सह विवाहं कृत्वा सुखेन
कुटुम्बजीवनं यापितुं शक्ष्यते इति । तत: निर्गमनात्पूर्वं यदा आशाभग्न: युवक: अवदत् यत् स: एव तां
नेत्रदानं कृत्वा अन्ध: अभवत् इति,तदा तस्या: मन:स्थिति: कथं अभविष्यत् इति अस्माभि: चिन्तनीयम् ।

अय्यर् सुब्रह्मणियम्, चेम्बूर्, मुम्बै – १२/१०/२००९

1 comment: