Thursday, November 5, 2009

मम बाल्यकाल स्मरणम्

मम बाल्यकाल स्मरणम्

मम जननम् एकस्मिन् साधारणे निर्धनिके कुटुम्बे जातम् । मम मातामह: ग्रामपुरोहित: आसीत्,
मम माता तस्य ज्येष्ठा पुत्री च । मम पितामहस्य एकाकिन् अपत्यं पुमान् आसीत् मम पिता ।
यद्यपि स: सुशिक्षित: तथापि स: निरन्तरतया एकस्मिन्नेव स्थले उद्योगम् न अकरोत् । यदा अहं शिशु:
आसम्, तदा स: तदानीन्तने FMS देशे (इदानीन्तने Malayasia/Singapore प्रान्ते) उद्योगं
करोति स्म । (यदा तोला पारिमित सुवर्णमुद्राया: मूल्यम् केवलं १५ रूप्यकाणि आसीत् – इदानीं एतस्य मूल्यम् रू१५,००० इति श्रूयते) । भा्रतदेशं प्रत्यागत्य स: भारतीय स्वातन्त्र्य सङ्ग्रामेऽपि भागम् ऊढवान् । फलत: कुटुम्ब संरक्षणाय धनार्जनं कर्तुं स: न उद्युक्तवान् इति मन्ये । अत: अस्माकं विद्याभ्यासकालं पितामहस्य गृहे एव अस्माभि: यापनीयम् आपतितम् । तस्मिन् संयुक्ते कुटुम्बे (joint family) अस्माभि: ६ जनै: सह, आहत्य १५ सदस्या: आसन् । अस्मिन् वातावरणे, मम शैशवावस्था यापिता/अपगता । तदनन्तरं, यदा मम सप्तदशे वयसि, उद्योगाय मुम्बै नगरं १९४८ तमे वर्षे जनवरी मासे आगतवान् तदा मम् जननी, भ्रातर: च संयुक्तं कुटुम्बं त्यक्त्वा विभिन्ने गृहे, उषितुं गतवन्त: इति अहं स्मरामि/मया स्मर्ये । मध्यन्तरे, अस्माकम् एकाकिनी ज्येष्ठसहोदर्या: विवाहं एकेन सामान्य युवकेन सह अस्माकं शक्त्यानुगुणं यथाकथापि आयोजितम्/कारितम् च ।
तेषां विद्याभ्यासानन्तरम् एकैकश: मम भ्रातर: उद्योगाय मुम्बै आगता: । अचिरेण एव, मम मातापितरौ अपि अत्र आगतवन्तौ । तयो: शिवलोकप्राप्ति: अस्मिन्नेव नगरे जाता । मम त्रय: अपि भ्रातर: अत्रैव स्वकुटुम्बै: सह स्वकियेषु गृहेषु निवसन्ति । सर्वे सेवानिवृत्ता: इति न वक्तव्यमेव ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – ३१/१०/२००९

No comments:

Post a Comment