Friday, November 6, 2009

संस्कृतभाषया सह मम सम्पर्कस्य नवीकरणस्य वृत्तम्

केरलस्थे एकस्मिन् ग्रामीयपाठशालायां मम विद्याभ्यासम् अभवत् । दशमकक्षा पर्यन्तं द्वितीयभाषा
रूपेण मया संस्कृतम् अधीतम् । १९४५ तमे वर्षे अहं विद्यालयप्रविष्ट: अभवम् । अस्माकं आर्थिकस्थिति कारणत: महाविद्यालय प्रवेशनाय ये विषया: सोपाना: भवन्ति, तान् स्वीकर्तुम् अर्हता नासीत् । अत: एव वैकल्पिकानां(optional) विषयाणां रूपेण संक्षिप्तलेखनलिपिं (shorthand) उट्टङ्कनं(typing) च
अहं स्वीकृतवान्, यत:विद्यालयप्रविष्टानन्तरं साक्षात् धनार्जनाय गन्तुं शक्यते । परन्तु, मम लघु
शारीरयष्टिकारणत: मम कुटुम्बजना:तदा मां ग्रामत: बहि: प्रेषयितुं साहसं न कृतवन्त:। एवं विधेन महाविद्यालयस्य स्नातकपदवीं विना मया १९४८ तमे वर्षे उद्योगार्थं मुम्बैनगरम् आगतम् ॥ तद्दिनात् आरभ्य- नाम १९४५ वर्षत: २००५ तम वर्ष पर्यन्तं (६० वर्षा: यावत्) संस्कृतेन सह मम सम्पर्क: अक्षरश: त्रुटित: ।

२००५ तमस्य वर्षस्य फेब्रुवरि मासस्य अन्ते, मुम्बैस्थे घाट्कोपर् नामके उपनगरे विद्यमानस्य ब्राह्मणसमाजे स्संस्कृतभारत्या आयोजितस्य दशदिनात्मके सम्भाषणशिबिरे भागं स्वीकृतवान् । तदनन्तरं तत्रैव तदानीन्तनस्य राष्ट्रीय संस्कृत संस्थानस्य प्रथमदीक्षाया: त्रैमासिकवर्गमपि कृत्वा परीक्षां लिखितवान् । तत्र श्री मितेष् कतीरा, तस्य अनुज: दिपेष: च मम शिक्षकौ आस्ताम् ।

तस्मिन्नेव वर्षस्य जूण् मासे शोलापूर् नगरस्य समीपस्थे बार्शी नगरे प्राचलितस्य १५दिनात्मके शिक्षकप्रशिक्षण शिबिरे भागम् ऊढवान् । शिक्षणार्हतां प्राप्य यदा अमेरिकादेशं गतवान्, तदा तत्र संस्कृतं पाठयितुं सन्दर्भं प्राप्तवान् । स्वदेशं प्रत्यागत्य सम्भाषणशिबिराणि चालयितुम् आत्मविश्वासं अवसरं/प्रसङ्गं च उपलब्दं । तदनन्तरस्य अमेरिका प्रवासेऽपि मया संस्कृतं पाठयितुं सन्दर्भ: प्राप्त: । अधुना तत्रत्य छात्रै: उपायनरूपेण प्रदत्तस्य सङ्कणकद्वारा प्रतिदिनं गृहपाठद्वारा तै: सह सन्म्पर्कं अनुवर्तते। विगते मेय् मासे नाडियाड् नगरे प्राचलिते गीता शिक्षकप्रशिक्षणशिबिरेऽपि भागम् ऊढवान् । एतस्य वर्षचतुष्टयस्य अनुभवस्य साहाय्येन इदानीम् अहं चेम्बूर् नगरे १५ छात्राणां गीता शिक्षणकेन्द्रं चालयामि
अस्य मासस्त्य २८ तमे दिनाङ्के एव, गोवा राज्यस्य मड्गोन् नगरे प्राचलितस्य भाषाबोधन् वर्गे शिक्षकरूपेण भागं स्वीकृत्य प्रत्यागतवान् ।

अय्यर् सुब्रह्मणिय: चेम्बूर्, मुम्बै – ३०/१०/२००९

No comments:

Post a Comment