Friday, November 6, 2009

मम औद्योगिकं जीवनम्

मम कार्यालयाधिकारि:, येन सह अहं मम ३० वर्षाधिकम् औद्योगिकजीवनं यपितवान्,स: मां स्वपुत्रमिव स्वीकृतवान् । स: न केवलं मम अधिकारि: अपि तु मम शुभचिन्तक:, गुरु:; च
आसीत् । तस्मात् अहं विविधानां क्षेत्राणां विपुलं ज्ञानं प्राप्तवान् । यत् पत्रलेखनाभ्यासं मया तस्मात्
प्राप्तं, तद् इदानीं मम संस्कृतलेखने भृशं साहाय्यं कुर्वन्नस्ति इति मया न प्रकटितं चेत् अहं कृतघ्न:
भवामि ।
यद्यपि अस्माकं कार्यालयसमय: ९-३० त: ५-३० वादनपर्यन्तम् आसीत्, तथापि नियमतया
आवां प्रतिदिनं विलम्बेन एव कार्यालयत: गृहंप्रति निर्गच्छाव: स्म । यदा अर्ध दिनस्य विरामव्यवस्था
एव न विद्यते स्म, तदा स: मां अपरान्हे कार्यालयम् आगन्तुम् अनुमतिं ददाति स्म । तेषु दिनेषु मम पत्नी
मम द्वितीयस्य पुत्रस्य प्रसवार्थं तस्या: मातृगृहं गतवती । तस्मिन् समये, मम सीमन्त पुत्रेण: पित्रा
च सह अहं चेम्बूरे गृहं चालयामि स्म । ज्येष्ठ पुत्र: प्राथमिकं विद्यालयं गच्छति स्म । प्रतिदिनं प्रात: सप्तवादने तं शालायां त्यक्त्वा, गृहं प्रत्यागत्य, स्नानं कृत्वा, भोजनस्य सज्जतां कृत्वा, द्वादशवादने पुत्रं विद्यालयत: गृहं नीत्वा, तं पितरं च भोजयित्वा, मध्याह्ने कार्यालयं गच्छामि स्म । तस्मिन् समये एव, मासं यावत् मम अधिकारि: जापान् देशस्य प्रवासाय अगच्छत् । तदा एव, मया एतस्य अर्धदिन- विरामस्य सौकर्यं प्राप्तम् । तदनन्तरमेव, अस्माकं कार्यालयेऽपि, अन्यत्र इव, अर्धदिनस्य विरामव्यवस्था व्यवहारे आनीता । एकदा, कश्चित् मुख्य नैतिक व्यवहारस्य कृते, वयं सततं दिनद्वयं यावत् कार्यालये एव आस्म ।
यद्यपि अहं सेवानिवृत्त: भूत्वा २० वर्षा: अतीता:, इदानीमपि आवयो: सम्पर्कं प्रचलति । ९५ वयसीय: स: सम्यक् श्रोतुं न शक्नोति, अत: दूरभाषया सम्भाषणम् अशक्यमेव ।अत: समयस्यउपलब्ध्या-नुसारं वर्षे द्वि/त्रिवारं साक्षात् गत्वा वार्तालापं कृत्वा तस्य समययापने साहाय्यं करोमि ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – ३१/१०/२००९

No comments:

Post a Comment