Sunday, October 18, 2009

(9)

संस्कृतभाषायां संभाषणसामर्थ्यप्राप्त्यर्थं केचन उपाया:

नमो नम:, अद्य दक्षिणभारतीय जनानां नूतन वर्ष: भवति । अस्मिन् शुभदिने तेभ्य: अस्माकं शुभाशया: विगते रविवासरे इन्दिरा महोदया पृष्टवती यत् सम्स्कृतेन संभाषणकौशल्यप्राप्त्यर्थं किं करणीयम् इति अस्मिन् विषये मम चिन्तनम् अत्र भवद्भि: सह भाजितुम् इच्छामि ।

संभाषणं भाषाया: जीवनाडी भवति इति विद्वांस: वदन्ति । अत: सम्भाषणेन/संभाषणं विना कापि भाषा चिरकालं जीवितुं न शक्नोति । उदाहरणार्थं तुलू भाषां स्वीकुर्म:, यस्या: लिपि: नास्ति, तथापि सा
संभाषणद्वारा अद्यापि सजीवा अस्ति ।

संभाषणस्य कृते सोपानस्य / निश्रेण्या: प्रथमं पदं भवति चिन्तनम् । आङ्गलभाषां विहाय वयं मातृभाषया एव चिन्तनं कुर्म: चेत्, न केवलम् अधिकाधिका संस्कृतशब्दा: अस्माकं स्मृतिपदे आयान्ति, अपि तु कालक्रमेण ज्ञायते यत् अवगमनेन विना वयं प्रतिदिनस्य व्यवहारे भूयिष्ट्भागेन संस्कृतशब्दान् एव उपयुज्याम: इति । वस्तुत: संस्कृतभारत्या: “Science in Sanskrit” इत्यस्य पुस्तकस्य प्रस्तावनानुसारम्,अस्माकं भारतीयानां कृते संस्कृतभाषा नूतना भाषा न, कारणं अस्मासु भाषासु ६० प्रतिशतं संस्कृतशब्दा: एव वर्तन्ते । नाम, वस्तुत: न(अ)जानन् एव वयं जन्मप्रभृति अस्माकं दैनन्दिनीये व्यवहारे भूयिष्ट भागेन संस्कृतशब्दानाम् उपयोगं कुर्वन्त: स्म: । अस्य ज्ञानेन अस्मान् संस्कृताध्ययनं सुलभं भवति इति मन्ये ॥

द्वितीयं पदं भवति शब्दसङ्ग्रहणं (vocabulary build up), यत् पुस्तक पठनद्वारा, दूरदर्शनवार्ताया: श्रवणद्वारा एव शक्यम् । नियमतया लघु बालमोदिनि सदृशेभ्य: पुस्तकेभ्य: आरभ्य संस्कृतपुस्तकानां पठनम्, दूरदर्शने संस्कृतवार्ताया: श्रवणं, सह्पाठिभि: सह संस्कृतमाद्यमेन संभाषणम् – एते शब्द सङ्ग्रहणाय उपकरणानि भवन्ति । दोषा: भवन्ति एव, तथापि निर्लज्जया व्यवहरणीयम् ।

तृतीयं पदं सम्स्कृतवातावरणस्य निर्माणं भवति । वयं सम्यक् जानीम: यत्, शिशव: गृहे मातृभाषाया: वातावरणे एव पुस्तकं / लेखनी इत्यादीनाम् उपकरणानां विना मातृ्भाषाभ्यासं कुर्वन्ति । अस्माभि: अपि नियमित साप्ताहिक संभाषण मेलन-द्वारा एतादृशं संस्कृतवातावरणं निर्मातव्यम् ।

एवं रीत्या प्राप्तान् संस्कृतशब्दान् एकस्मिन् पुस्तके लिखित्वा पौनपुन्येन/पुन:पुन:/वारं वारं पठनीयम्। तदनन्तरम् एतान् शब्दान् उपयुज्य, अन्यस्मिन् स्वयंलेखन नामके पुस्तके लघु संस्कृतवाक्यानां रचनं करणीयम् । एवं विधेन, कालक्रमेण अस्माकं मस्तिष्के अक्षरश: न केवलं संस्कृतशब्दकोशस्य निर्माणं भवति, अपि तु अस्माकम् आत्मविश्वासं वर्धते, शब्दानाम् आत्मसात्करणं जायते च । एवं प्रकारेण, संभाषणसमये, अनायासेन संस्कृतशब्दा: अस्मत् मुखात् निर्गच्छन्ति ।

यथा पर्याप्त धनेन विना वयम् अस्माकं वित्तकोषस्य लेखात:/लेखाया: धनं प्रत्याहर्तुं न शक्नुम:, तथैव, पर्याप्त शब्दसङ्ग्रहणं विना अस्माकं मस्तिष्क नामक शब्दकोषात् संस्कृतशब्दानां प्रत्याहरणं
कर्तुं न शक्नुम: ।

मम अनुभव: प्रमाणीकरोति यत् सरल सम्स्कृत संभाषणस्य कृते, स्नातक पदवी किंवा उपाध्या: आवश्यकता नास्ति । वस्तुत: प्राप्त स्नातकोत्तर पदवीका: अपि संस्कृतेन सम्भाषणं कर्तुं क्लेशम् अनुभवन्ति इति श्रूयते । दृढ संकल्पं, पर्याप्त समयव्ययं, किञ्चित् सुखत्यागम्, एतेषाम् उपकरणानां साहाय्येन कष्टकार्यमपि सुलभसाध्यं भवति । अत: इदानीम् एव धाराप्रवाह संस्कृतसंभाषणस्य
लक्ष्यंप्रति वयम् अग्रे सराम: ।

॥ जयतु संस्कृतम् लसतु संस्कृतम् ॥

अय्यर् सुभ्रह्मणिय:, चेम्बूर् – १२/ ४/ २००८

No comments:

Post a Comment