Saturday, November 14, 2009

लघु आत्मचरितरचनम्

एकं लघु आत्मचरितरचनम्

अस्माकं कुटुम्बस्य नीचार्थिकव्यवस्थाया: कारणत:,सीमन्त पुत्र: सन्, महाविद्यालयाभ्यासं विना
उद्योगार्थं १७ वयसि एव मया मुम्बैनगरं प्रति उद्योगाय आगमनम् आपतितम् । १९४८ तमस्य वर्षस्य जनवरीमासे, यदा अहं मुम्बैंनगरं प्राप्तवान्, तद्दिने एव राष्ट्रपितु: महात्मागान्धिमहाभागस्य वध: अभवत् । अत: दिनत्रयं यावत् बहि: कुत्रापि उद्योगान्वेषणाय गमनस्य प्रश्न: एव नासीत् । अक्षरश: समग्रं नगरं स्थगितम् आसीत् । तदनन्तरं एकस्मिन् दिने, मार्गे ग्रामत: वरिष्ठेन बाल्यमित्रेण सह मेलनम् अभवत् । परेद्यु: स: मां तस्य कार्यालयंप्रति नीतवान्, तत्र स्थापितवान् च । साक्षात् मेलनसमये, तत्रत्य अधिकारि: मम लघु शारीरयष्ठिं दृष्ट्वा अहं विद्यालयप्रविष्ट: (matriculate): इति मन्तुं निराकृतवान् मम प्रमाणपत्रं दृष्ट्वा एव स: विश्चासं अकरोत् ।
१९४८ वर्षत: १९८९ पर्यन्तं – प्राय: ४१ वर्षा: यावत् – तस्मिन्नेव स्वायत्तकार्यालये मया अत्रुटितम् उद्योगकार्यं कृतम् । मध्यन्तरे भारतीय रिसेर्व वित्तकोषे उट्टङ्ककस्य उद्योगं प्राप्तम्, परन्तु न जानामि किम् अहं तत् न स्वीकृतवान् । फलत: इदानीम् अहं भूतपूर्वसेवानिवृत्तिधनच्युत: (pension) भूत्वा ममवित्तकोश लेखाया: प्राप्तेन सरल वृद्धिधनेन (simple interest) जीवितं यापयामि ।
१९५७ तमे वर्षे विवाहित: अहं १९६४ तमात् वर्षात् चेम्बूरस्थे स्वकीये गृहे निवसामि । मया सह, मम पत्नी, ज्येष्ठ पुत्र:, स्नुषा, ११ वर्षीय:पौत्र: च निवसन्ति । मम द्वितीय: पुत्र:, तस्य दन्तवैद्या पत्न्या, ११ वर्षीया पुत्र्या च सह, अमेरिकाया: क्यलिफोर्णिया राज्यस्थे फ्रीमोण्ड् नगरे निवसति ।
विगते मे मासे एव अशीतिवयस्क: अभवम् /मम जीवनस्य ८१ तमं वर्षं प्रविष्टवान् ।

अय्यर् सुब्रह्मणिय्:, चेम्बूर्, मुम्बै ४०००७१ – ३०/१०/२००९

No comments:

Post a Comment