Wednesday, September 2, 2009

त्सामान्य: पीनस:

यद्यपि आङ्गलभाषया common cold इत्याहूयते, एष: पीनस: न केवलं सामान्यजजनान्, अपि तु राज्ञ:, नेतॄन्, धनवत:, शक्तिमत: दरिद्रान् भेदभावं विना पीडयति । न्यूनातिन्यूनं सप्ताहं यावत्
अस्मान् पीडयन् अयं रोग: अहिंसक (innocent) इव दृश्यते, परन्तु अतीव भयावह: पीडाजनक: च र्तते । औषधै: कोऽपि परिणाम: न भवति । एकस्या: आङ्गलेय लोकोक्त्यानुसारम्,” औषधं विना एष: अस्माभि: सह सप्त दिनानि यावत् तिष्ठति, औषधेन सह , साप्ताह्पर्यन्तम् अस्मान् न त्यजति” इति अन्यच्च, एष: अकृत्रिम: (innocent): इव दृश्यमान: पीडाजनक:, न केवलम् अपराणां रोगाणां कृते प्रवेशद्वारं भवति(कल्पते), अपि तु तेषां कृते सुदृढं पूर्वभूमिकां च सज्जीकरोति(कल्पते)। अस्माकं क्रियाशक्ते: उत्खननद्वारा, अस्मान् निरुत्साहिन:, उन्मेषहीनान् च कृत्वा, शय्यायां निक्षिपति ,। अद्यावधि, अनया पीडया विश्चस्तरे कति मानव-घण्टा: (man hours) लुप्ता:/अपहृता: इति केपि सर्वेषणं अकुर्वन् किम्?
अस्माकं तनु:(शरीरं) वेदनाया: क्रीडाक्षेत्रं भवति । एक: वदेत्, शिरोवेदना एव अपराणां वेदनानाम् अपेक्षया क्लेशदायिका इति, अन्य: वदेत्, दन्तवेदना, अपर: वदेत् उदरवेदना इति । । परन्तु कटु सत्यं भवति यत्, सर्वा(each) वेदना तत्तत्समये तीव्रतरा प्रतिभाति । किन्तु, एता: शारीरिकवेदना:, निरुपद्रवी (innocent) इव दृश्यमानं पीनसं स्थानच्युतं कर्तुं न अर्हन्ति । धनम् एतस्य रोगस्य पीडाया: कालावधिं न्यूनीकर्तुं न शक्नोति । एतस्मात् पीनसात् एव पप्रथमं कुक्कुटज्वर:, तदनन्तरम् इदानीं सू(शू)करज्वर: च सञ्जातौ इति दृश्यते ।
एतस्य लेखनस्य कारणकर्ता पीनस: एव , य: आमन्त्रणं विना इदानीं मया सह अतिथिरूपेण निवसति । यस्य गमनागमनतिथि: नास्ति, स: “अ-तिथि:” इत्युच्यते इति कुत्रापि मया पठितम् । पञ्च दिनेभ्य: पूर्वम् आगत: एष: पीनसातिथि: प्राय: द्वित्राणां दिनानामनन्तरं निर्गच्छेत् इति आशासे/ विश्वसिमि । भारतीय संस्कृत्यानुसारं उपचारा:/ अतिथिसत्कारा: च सम्यग् रीत्या प्रचलन्ति एव ।

अय्यर् सुब्रह्मणियम्, चेम्बूर्, मुम्बै – २२/८/०९

1 comment:

  1. Learnt a lot of संस्कृतं | धन्यवादाः |

    ReplyDelete